पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ नदीमिव घनापाये हंससारससेविताम् । राक्षसः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ॥ ३२ ॥ यथा पदर जोध्वस्तां नलिनीं गजयूथपाः ॥ ३३ ॥ ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् ॥ ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ॥ ३४॥ उद्धृत इव वायुः खे महदभ्रबलं बलात् ।। समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः। रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ॥ ३५ ॥ स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे । नीलाय व्यसृजंढाणान्प्रहस्तो वाहिनीपतिः ॥ ३६ ॥ ते प्राप्य विशिख नीलं विनिर्भिद्य समाहिताः ॥ महीं जग्मुर्महावेगा रुषिता इव पन्नगाः॥३७॥ नीलः शरैरभिहतो निशितैर्ललनोपमैः । स तं परमदुर्धर्षमापतन्तं महाकपिः । प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ३८ ॥ स तेनाभिहतः क्रुद्धो नंदत्राक्षसपुङ्गवः ॥ ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ॥ ३९॥ तस्य बाणगृणान्घोरात्राक्षसस्य मैहाबलः ॥ अपारयन्वारयितुं प्रत्यर्थह्मन्निमीलितः॥ ४० ॥ यथैव गोवृषो वर्षे शारदं शीघ्रमागतम् । एवमेव प्रहस्तस्य भैरवयं दुरासदम् । निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ ४१ ॥ रोषितः शरवर्षेण सालेन महता महान् ।। प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ॥ ४२ ॥ तृतः स चापदुद्रुह्य प्रहस्तस्य महाबलः ॥ बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥ ४३ ॥ विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः । प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ ४४ ॥ तावुभौ वाहिनीमुख्यौ जातवैरौ तरखिनौ । स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ ४५ ॥ उर्लिखन्तौ सुतीक्ष्णाभिर्देष्ट्राभिरितरेतरम् । सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ ४६ ॥ विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ । काङ्गमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ ४७ ॥ आजघान तदा नीलं ललाटे मुसलेन सः । प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ॥ ४८ ॥ ३१ । उपमानमुखेनापि तत्तरणं दर्शयति-नदी- | जालमिव । युद्धे बलादभिव्रतं आभिमुख्येनायान्तं मिति ॥ घनापाये वषोन्ते । तां पूर्वत्र रूपकेण | नीलं समीक्ष्य रथेन नीलमेवाभिदुद्रुवे इति योजना दर्शितां । केचित्तु अत्रोत्तरश्लोकस्थनदीपदवैयर्थेभयेन ॥ ३५-३६ । रुषिताः पन्नगा इव स्थिताः समाः युद्धभूमिमयीं नदीं प्रवर्तयित्वेत्यध्याहरन्ति ॥ ३२ ॥ हिताः त्रजवः नीठं विनिर्भिद्य महीं जग्मुः विविशु } उक्तानां रक्षोवानराणामुपमामाह-यथेति । पद्मर- | रित्यर्थः ॥ ३७ ।। नील इत्यादि सार्धश्लोकः ॥ ३८ जोभिः ध्वस्तां वर्णान्तरं प्राप्तां । नलिनीं सरसीं यथा ॥ ३९ ॥ अपारयन् अशक्नुवन् । ४० ॥ यथैवेत्या- गजयूथपास्तरन्ति । तीर्वा रक्ततनवो भवन्तीति | दिसार्धश्लोकः । यथैवेत्यत्र एवकारोत्यन्तायोगव्यव- यावत् । तथा अरुणशरीरा उत्तेरुरित्यर्थः ॥ ३३ ॥ | च्छेदार्थकः । शारदमित्यनेन शरपातस्य क्षयित्वं स्यन्दने रथे। स्थितं । बाणौघान् सृजन्तं मुञ्चन्तं । । यनक्ति ।। ४१-४४ । तावुभावित्यादिश्लोकत्रयमेकं तरसा वेगेन । प्लवङ्गमान् विनिघ्नन्तं प्रहस्तं ददर्श । वाक्यं । प्रभिन्नौ मत्तौ । सिंहशार्दूलसदृशाविति बले ॥ । ३४ ॥ उद्धृत इत्यादिसार्धश्लोकमेकं वाक्यं । खे | साम्यं । विक्रान्तविजयौ सर्वत्र प्राप्तविजयौ । काङ्क स्वदेशभूते । उद्धृतः उल्बणः। वायुः अभ्रबलं अभ्र ' माणौ अभूतामिति शेषः ।। ४५-४७ । परमायत्तः ति० अपारयन् वारयितुमशक्तस्सन् ॥ ॥ ति० शारद्वषं गोवृषस्यशरत्कालेप्राबल्यंकालखभावात् । वर्षस्यखन्यथा । ततएव तेननातिक्लेशकरस्तस्यशरवर्षइतिसूचितं ॥ ४१ ॥ [ पt० ] १ घ. प्राहिणोद्भाणान्. २ ग. ङ. च. झ. ट. नर्दत्राक्षस३ ङ. झ. ट. गणानवराक्षसस्यदुरात्मनः४ क. ख. . ग. च. छ. ज. महात्मनःघ. दुरात्मनः. ५ ङ, झ.ट, शरवर्षीन्दुरासदान्. ६ ङ. झ. ट. ततोरोषपरीतामाधनुस्तस्यदुरात्मनः। ९ ६