पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ५६ ] श्रीमद्रोविन्दराजीयव्याख्यासमंलंकृतम् । २०५ ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ॥ पैरा हि नमुचिं संख्ये वीणेव पुरंदरः ॥ १७ ॥ अकम्पनस्तु तदृष्ट्वा गिरिदं समुद्यतम् । दूरादेव महाबाणैरर्धचन्द्रेर्यदारयत् ॥ १८ ॥ तैत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् । विशीर्णं पतितं दृष्ट्वा हनुमान्क्रोधमूर्छिछतः ॥ १९ ॥ सोश्वकर्ण सैमासाद्य रोषदर्पान्वितो हरिः॥ तूर्णमुत्पाटयामास महागिरिमिवोचिङ्कतम् ॥ २० ॥ तं गृहीत्वा महास्कन्धं सोवकर्णं महाद्युतिः । उँहस्य परया प्रीत्या भ्रामयामास संयुगे । प्रधावनूरुवेगेन प्रभङ्गस्तरसा दुमान् । हनुमान्परमक्रुद्धश्चरणैर्दारयाक्षितिम् ॥ २२ ॥ गजांश्च सगजारोहान्सरथात्रथिनस्तथा ॥ जघान हनुमान्धीमात्राक्षसांश्च पदातिगान् ॥ २३ ॥ तमन्तकमिव क्रुद्धं सैमरे प्राणहारिणम् ॥ हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥ तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् ॥ ददर्शाकम्पनो वीरश्रुक्रोधं च ननाद च ॥ २५ ॥ स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः । निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ॥ २६ ॥ स हुँदा प्रतिविद्धस्तु बीभिः शरवृष्टिभिः। । हनुमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥ विरराज महाकायो महावीर्यो महामनाः॥ पुष्पिताशोकसंकाशो विधूम इव पावकः ॥ २८ ॥ ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २९ ॥ स वृक्षेण हतस्तेन सक्रोधेन महात्मना ॥ राक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥ तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ॥ व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥३१॥ त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः लङ्कामभिययुस्रस्ता वानरैस्तैरभिद्रुताः॥ ३२ ॥ ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः ॥ मैचच्छूमजलैरजैः वसन्तो विप्रदुद्रुवुः ॥ ३३ ।। अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ॥ पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥ तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । समेत्य हरयः सर्वे हनुमन्तमपूजयन् ॥ ३५॥ सोपि ईंहृष्टस्तान्सर्वान्हरीन्प्रत्यभ्यपूजयत् ॥ हनुमान्सर्वसंपन्नो यथार्हमनुकूलतः ॥ ३६ ॥ विनेदुश्च यथाप्राणं हरयो जितकाशिनः । चकर्थश्च पुनस्तत्र सप्राणानपि राक्षसान् ॥ ३७ ॥ स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः। महासुरं भीमममित्रनाशनं चैथैव विष्णुर्मलिनं चैमूमुखे ॥ ३८ ॥ कृत्वेत्यर्थः ।। १६ ॥। तत इति । तत्र सः शैलेनेत्य- । पदातितया गच्छन्तीति पदातिगाः तान् ॥ २३. ध्याहार्यं । सहनुमान् अकम्पनं पुरन्दरो नमुचिं यथा | २६ । प्ररूढः प्ररूढवृक्षः ॥ २७-२९॥ वानरेन्द्रेण तथा शैलेन वजेणेवाभिदुद्राव ॥ १७-१८ । कत्र । तेन वृक्षेणहत इत्यन्वयः ।।३० ॥ क्षितिकम्पे क्रोधमूच्छितः अभूदितिशेषः ।। १९–२१ भूकम्प ॥ ३१-३५ । प्रत्यभ्यपूजयत् भवत्सा- ॥ चरणैः चरणन्यासैः । दारयत् अदारयत् ॥ २२ ॥ हाय्येनैव मया जितमित्येवमिति भावः ।। ३६ स० प्रीत्या समयेनसमीचीनायुधमुपलब्धमितिहर्षेण ॥ २१ ति० प्ररूढःसानुमानिव बहुशराचितशरीरत्वाप्ररूदबहुवृक्ष गिरिरिवजनैर्ददृशइत्यर्थः ॥ २७ ॥ ति० सोषियथार्हमनुकूलतोऽनुकूलदर्शनवचनालिङ्गनैः संप्रत्यपूजयत् ॥ ३६ ॥ इतिषट्- पञ्चाशःसरैः ॥ ५६ ॥ [ पा०] १ क. ---घ. च. छ. ट. यथाहिनमुचं. २ क, ख. ओशिलोच्चयमाकाशे. ३ क, ख, ग, समादाय. ४ झ. प्रगृह्यपरया. ५ ङ. झ. ट. सद्मंप्राण. ६ ख. संप्रेक्ष्य. ७ ङ. झ. ट. तथाविप्रकीर्णस्तुनाराचैःशितशक्तिभिः. क. तथाप्रति विद्धाङ्गभूरिभिःशरवृष्टिभिः , ८ ङ. झ. ट. महाबलः. ९ क. -घ. झ. भयाच्छूमजलैरङ्गःप्रस्रवद्भिर्विदुद्रुवुः. ड. भयाच्चसजलै- रजैःप्रस्रवद्भिर्विदुद्रुवुः १० झ. अ. ट. अन्योन्यंतेप्रमश्नन्तो. घन् अन्योन्यंप्रेमबद्धास्ते. ११ ङ. -झ. प्रवृद्धांस्तान्सर्वान्, १२ ङ, झ. ट. विष्णुर्यथैवोर्बलं. १३ च. छ. महाहवे. २ ३ २ २