पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ $ श्रीमद्वाग्मीकिरामायणम् । [ युद्धकाण्डम् ६ ऍभिन्नशिरसः केचिद्भिन्नैः पादैश्च बहुभिः ॥ शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ॥ ८ ॥ हैरयो राक्षसाश्चैव शेरते गां समाश्रिताः ॥ कङ्कगृधंबूलैराख्या गोमायुगेणसंकुलाः ॥ ९ ॥ कबन्धानि समुत्पेतुर्भारूणां भीषणानि वै ॥ १० ॥ भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ॥ वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ॥ ११ ॥ ततो वानरसैन्येन हन्यमानं निशाचरम् । प्राभज्यत बलं सर्वं वजदंष्ट्रय पश्यतः ॥ १२ ॥ राक्षसान्भयवित्रस्तान्हन्यमानान्प्लवङ्गमैः॥ दृष्ट्वा स रोषताम्राक्षो वजदंष्ट्रः प्रतापवान् ॥ १३ ॥ प्रविवेश धनुष्पाणित्रासयन्हरिवाहिनीम् । शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ॥ १४ ।। बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ॥ विव्याध परमक्रुद्धो वजदंष्ट्रः प्रतापवान् ॥ १५॥ प्रस्ताः सर्वे हरिगणाः शरैः संकृत्तकन्धराः । अङ्गदं संप्रधावन्ति प्रजापतिमिव प्रजाः ॥ १६ ॥ ततो हरिगणान्भक्षान्दृष्ट्वा वालिसुतस्तदा ॥ क्रोधेन वजदंष्टं तमुदीक्षन्तमुदैक्षत ॥ १७ ॥ वजदंष्ट्रोद्भदश्चोभौ संगतौ हरिराक्षसौ । चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ १८ ॥ ततः शरसहस्त्रेण वालिपुत्रं हाबलः। जघान मर्मदेशेषु र्भातङ्गमिव तोमरैः ॥ १९ ॥ रुधिरोक्षितसर्वाङ्गो वालिमनुर्महाबलः ॥ चिक्षेप वजदंष्ट्राय वृक्ष भीमपराक्रमः ॥ २०॥ दृष्ट्वा पतन्तं तं वृक्षमसंभ्रान्तश्च राक्षसः ।। चिच्छेद बैहुधा सोपि निकृत्तः पतितो भुवि ॥ २१ ॥ तं दृष्ट्वा वजदंष्ट्रस्य विक्रमं प्लवगर्षभः। प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ २२ ॥ समांपतंन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ॥ गदापाणिरसंभ्रान्तः पृथिव्यां समतिष्ठत ॥ २३ ॥ सैदेन नैदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि । स चक्रकूबरं साधं प्रममाथ रथं तदा ॥ २४ ॥ ततोऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ॥ वज़दंष्ट्रस्य शिरसि पातयामास सोङ्गदः॥ २५ ॥ अभवच्छोणितोदारी वज़दंष्ट्रः स मूञ्छितः॥ सुहूर्तमभवन्मूढो गदामालिङ्ग्य निश्श्वसन् ॥ २६ ॥ ते च राक्षसगणाश्च तद्राक्षसगणः तेषां । तच्छब्देन | कायाः छिन्नमध्यकायाः ॥ ११ ॥ निशाचरं निशा वानरा उच्यन्ते । युध्यमानानां सुयुद्धं समवर्ततेत्यनेन | चरसंबन्धि । अण्वुख्यभाव आर्षः। यद्वा निशायां उत्तरोत्तरयुद्धाधिक्यमुच्यते ॥ ७ ॥ पादैश्च बाहुभि- | चरतीति योगमात्रविवक्षा । १२॥ भयवित्रस्तान रित्युपलक्षणे तृतीया । अर्पितदेहाः आरोपितदेहाः । भयहेतुभ्यो वित्रस्तान् ॥ १३-१४ ॥ सप्ताष्टौ नव गां भूमिं । कङ्कः अवटः स च श्येनविशेषः । गृध्रः | पश्य चेति एकैकप्रयोगेणेति शेषः ।। १५-१६ ॥ दूरदर्शी। बलः श्येनविशेषः काकश्च तैराढ्याः व्याप्ताः | हरिमत्तगजौ सिंहमत्तगजौ ॥ १८-२३ । सा ॥ ८-९।। कबन्धानीत्यर्थ ।१०।। पुनः केषांचित्प- | वत्रदंष्ट्रधृता गदा। आक्षिप्ता अपहृता सः अङ्गदक्षि- तनमाह-भुजेति । भुजपाणिशिरस्सु छिन्नाः छिन्न- १ सशैलः ।। २४-२५ ॥ शोणितोद्भारी रक्तोद्भारी । स० बलाः काकाः । ‘‘बलोबलिनिवायसे” इति विश्वः ॥ ९ ॥ शि० तप्रकारमाह--बिभेदेति । तत्र एकैकबाणप्रक्षेपंसप्तद्य- न्यतमान् एकोनविंशत्संख्याकान्वबिभेद । अर्ध पृथक् ॥ १५ ॥ रामानु० उदीक्षन्तं उदीक्षमाणं ॥ १७ ॥ कतक० हरिमत्तगजाविव । हरिरिहशार्दूलः । सिंहेनगजस्ययुद्धसंभवात् । खप्नेपिसिंहदर्शनेनगजानांमरणात् । स० योयुध्येते पुनः पुनर्युद्धमकुरुतां । हरिः सिंहः । अभूतोपमेयं । हरि:सिंहशावः । मत्तइति गजस्यतेनसहयोधनेअङ्गविस्मृतिसूच्यतइतिा । यद्वा यद्भन्धमात्रादरयोगजेन्द्राः’ इतिभागवतोक्तेःविलक्षणगजानांहरिभिर्युद्धेसंभावितमित्युक्तिःसंभवति । हरिःशार्दूलइतिव्याख्यायां कोशःशोध्यः ॥ १८ ॥ स० समतिष्ठत । ‘‘समवप्रविभ्यःस्थः” इयात्मनेपदता ॥ २३ ॥ [ पा० ] १ ङ. झ. अभन्नशिरसः २ ग. ङ. झ. ट. सुघोराराक्षसाश्चैवः ३ ङ. ट. शरवेगंसमा ४ क. ग. ङ.--ट. गृध्रबलाव्याश्च. ५ घटकुलसंकुलाः. ग. वृकसंकुलाः. ६ क. -ट, संकृत्तदेहिनः . ७ झ. ट. धोभौययुध्येतेपरस्परं ८ ख.ट. महाबलं. ९ क.-ट. शरैरग्निशिखोपमैः. १० ग. शतधा. ११ ४. छ. झ. ट. मथितःप्रापतद्भवि. क. ख. ग. च. ज. ज. मथितःपतितो . १२ . झ. ट. १३ ख. च.-ट. शिलाक्षिप्त अङ्गदेन.