१७६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ॥ शरवेष्टितसर्वाङ्गवात परमपीडितौ ॥ १९ ॥ न ह्यविद्धे तयोर्गात्रे बभूवाङ्गलमन्तरम् । नानिर्भिनं न चास्तब्धमाकराग्रादजिह्मगैः॥ २० ॥ तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ॥ अमृक्सुषुवतुस्तीव्र जलं प्रस्रवणाविव ॥ २१ ॥ पपात प्रथमं रामो विद्धो मर्मसु मार्गेणैः॥ क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ २२॥ रुक्मपुङ्खैः प्रसन्नागैर्घोगतिभिराशुगैः नाराचैरर्धनाराचैभकैरञ्जलिकैरपि विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः सुरैस्तथा ॥ २३ ॥ स वीरशयने शिश्ये विज्यमादाय कार्मुकम् । भिनयुष्टिपरीणाहं त्रिणतं रॉनभूषितम् ॥ २४ ॥ बाणपातान्तरे रामं पतितं पुरुषर्षभम् । स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥ २५ ॥ रामं कमलपत्राक्षी शैलॅबन्धपरिक्षतम् । शुशोच भ्रातरं दृष्ट्वा पतितं धरणीतले ॥ २६ ॥ हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ॥ [ शोकार्ताश्चक्रुशुचंरमश्रुपूरितलोचनाः ॥ २७ ॥ बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः संपरिवार्य तस्थुः॥ समागता वायुमुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ वीराः शेरतेऽस्मिन्निति वीरशयनं रणभूमिः । शर- | भलैः परश्वधानैः । अजलिकैः अजलिसदृशानैः । तल्पं वा । शरवेष्टितसर्वाङ्गौ शरभूतसर्पवेष्टितसर्वाङ्गौ। | वत्सदन्तैः वत्सदन्तसदृशागैः। सिंहदंष्ट्रैः सिंहदंष्ट्रास आतौ मनःपीडावन्तौ । परमपीडितौ शारीरकपीडा- | दृशानैः । क्षुरैः सुरागैः । अत्रेन्द्रजिदित्यध्याहार्यं वन्तौ। अभूतामिति शेषः ॥१९॥ अङ्गुलं अङ्गुलिप्र |॥ २३ ॥ भिन्नमुष्टिपरीणाहं शिथिलमुष्टिबन्धं । तृण- माणैः। अथवा “अडुलिरङ्गुलं’’ इति त्रिकाण्डीस्मर- | तत्रिषु स्थानेषु पार्श्वयोर्मध्ये च नतं । रुक्मभूषितं णात्। अञ्जलिप्रमाणवाच्यङ्ग्लशब्दकारान्तोप्यस्ति । | रुक्मपट्टबन्धं । विज्यं शरसंधानप्रसङ्गाभावाद्विग- तयौर्गात्रमङ्गलमात्रेष्यवकाशे अविद्धं नाभूदिति भा- | तज्यं । कार्मुकं धनुः। आद्य अवलम्ब्य । वीरश यद्वा तयोर्गोत्रं आङ्गलं अङ्गुलसंबन्ध्यप्यन्तरम् यने रणभूमौ । शिश्ये ॥ २४ बाणपातान्तरे शर वकाशः । आकराम्रात्कराग्रपर्यन्तं । अजिह्मगैः सर्प | तल्पे ॥ २५ ॥ शरबन्धपरिक्षतं । बन्धः क्षतश्चेति रूपशरैः। अविद्धे न बभूव । अस्तब्धं अनिश्चलं च । द्वयमत्र शरकार्यमुच्यते । । २६–२७ ॥ बद्धाविति । न बभूव । अनिर्भिन्नं च न बभूव आदौ नागपाशबद्ध । अथ शयानों तु तौ वीरौ अत्यन्तं । प्रस्रवणौ गिरिविशेषौ ॥ २१ ॥ इन्द्रजित्त्वं | संपरिवार्यं वायुसुतादयो वानरास्तस्थुः । विषादं निर्वक्ति-—येनेति ॥ २२ ॥ नागास्त्रप्रयोगानन्तरं केवलशरैरपि विव्याधेत्याह-रुकूमपुङ्खैरित्यादिना । ॥ ॥ इति दुःखं । जग्मुश्चेत्यन्वयः । २८ श्रीगोविन्द प्रसन्नानैः उन्मृष्टानैरित्यर्थः । प्रहर्तुराकाशस्थवेनाधो- राजविरचिते श्रीमद्रामायणभूषणे युद्धकाण्डव्याख्या गतिभिः । आशुगैः वक्ष्यमाणविशेषभिन्नैः । नाराचैः | ने रत्नकिरीटाख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ अनुवृत्तानैः। अर्धनाराचैः मध्ये भिन्ननाराचतुल्यैः। ति० आकराग्रात् कराग्रमभिव्याप्य । अध्वस्तं अक्षोभितं । स० आङ्गलं अङ्गुलिप्रमाणे ॥ २० ॥ ति० रजोगतिभिः वयुनावि स्तीर्यमाणरजोवनीरन्ध्रसंपतद्भिः ॥ २३ ॥ शि७ जीविते लोकपालनेनिराशोऽभवत् ॥ २५ ॥ इतिपञ्चचत्वारिंशःसर्गः ॥ ४५ ॥ [ पा० ] १ क, ख, ग. च. छ. ज. ट. गौंबभूवाङलमात्रकंघ. गबभूवान्तरमण्वपि. २ घः क्रूरकर्मणा. ३ झ रजो गतिभिः ४ ङ. छ. झ. ट. माविद्य. ५ क. ख. घ. -ट. रुक्मभूषितं. ६ ख. ग. च. ब. शरण्यंरणतोषितं. कुछझ. ट. शरण्यंरणतोषिणं, ७ इदमर्घ क. ङ.-ट, पाठेषुदृश्यते.
पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१८०
दिखावट