पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० श्रीमद्वारमीकिरामाग्रणम् । [ युद्धकाण्डम् ६ ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा । प्रहृष्टरूपोभिजगाम लङ्कां कृत्वा मतिं सोरिवधे महात्मा ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ अष्टत्रिंशः सर्गः ॥ ३८ ॥ सूर्येणास्ताचलारोहणे रामेण सुग्रीवादिभिः सह लकावलोकनाय सुवेळाचलरोहणम् ॥ १ ॥ स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुग्रीषमिदमब्रवीत् ॥ १ ॥ विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् ॥ मैत्रज्ञ च विधिनं च श्लक्ष्णया परया गिरा ॥ २ ॥ सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम् । अध्यारोहामहे सर्वे वत्स्यामोत्र निशामिमाम् ॥ ३ ॥ लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः ।। येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ ४ ॥ येन धम न विज्ञातो नै तद्वत्तं कुलं तथा ॥ राक्षस्या नीचया बुद्ध्या येन तद्रहितं कृतम् ॥ ६॥ तसिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे । यस्यापराधानीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥६॥ एको हि कुरुते पापं कालपाशवशं गतः ॥ नीचेनेत्मापचारेण कुलं तेन विनश्यति ॥ ७ ॥ एवं संमत्रयन्नेव सक्रोधो रावणं प्रति । रामः सैवेलं वासाय चित्रसानुषुपारुहत् ॥ ८ ॥ भृष्ठतो लक्ष्मणश्चैनमन्वगच्छत्समाहितः। सशरं चापमुद्यम्य सुमहद्विक्रमे रतः। तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः ॥ ९॥ यमहात्मशब्दार्थः । अभिजगाम । आरोहणायेति | संबन्धः । मरणान्ताय मरणरूपफलाय । तत् प्रसिद्धे। भावः ३५-३६ ।। इति श्रीगोविन्दराजविरचिते | वृत्तं धर्मशास्त्रविहितस्वकुलाचारः। कुलं स्वकुळाति- श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डघ्या- | शयः । एतत्सर्वं भार्यापहरणनिवृत्तिहेतुः तन्नासीदि ख्याने सप्तत्रिंशः सर्गः ॥ ३७ ॥ त्यर्थः । तर्हि केन हेतुना कृतमित्यत्राह--राक्षस्येति । तत् भार्यापहरणं ।। ४~५ ॥ एतादृशस्य निलयद् अथ लङ्कादर्शनार्थं सुवेलारोहणमष्टत्रिंशेड्स | शीने किं फडं तत्राह--तस्मिन्निति ॥ वर्तते उत्पद्यते । त्वित्यादिश्लोकद्वयमेकान्वयं । धर्मज्ञत्वादि सुग्रीव- स्यापि विशेषणं । सुवेलो नाम लङ्कासमतुङ्गताको तर्हि तन्मात्रवधे यत्नः क्रियतामित्यत्राह-यस्येति गिरिविशेषः । विधिजं कार्यलं ।। १-२ । चितं |। ६ । अन्यस्य दोषेणान्यवधः किमर्थक्रियत इत्य- व्याप्तं । अध्यारोहामहे आरोक्ष्यामः । अयच समु -त्राह-एक इति । एकः पापं कुरुते नीचेन तेन कर्णी द्रतरणदिवसवृत्तान्तः पूर्वं संग्रहेणोक्तः । अद्य सवि- आत्लापचारेण तदोषेण कारणेन कुलं तसंबन्धिनः सर्वे शेषमुच्यते ।। ३। लङ्कामित्यादिश्लोकद्वयमेकान्वयं ॥ | विनश्यन्ति ॥ ७ ॥ संमत्रयन् वदन् । उपारुहत् लङ्काछोकने निमित्तमाह-निलयमिति । मे भार्येति । उपारुक्षत् ॥ ८॥ पृष्ठत इत्यादि सार्धश्लोकः । समा कतक० एतदने तत तुरामइतिपञ्चपठन्ति । तत्रवक्ष्यमाणसंग्रहो नाप्युक्तानुवादो नाप्यत्रप्रकरणविच्छेदइतीमं श्लोकं पृथास्र क्षिप्यात्रसर्गच्छेदंकुर्वन्तिभ्रान्ताः ॥ ३६ ॥ इतिसप्तत्रिंशःसर्गः ॥ ३७ ॥ स७ मरणान्ताय मरणेन रक्षःकुलस्यसहितोंतो नाशःखस्य तस्मै ॥४॥ स० वृत्तं सदाचारः अस्मद्वलिष्ठतावाज्वा। राक्षस्या राक्षससंबन्धिन्या । तत्रापिनीचया । विभीषणं सुमुखीकर्तुमियमुक्तिः ॥ ५ ॥ [ पा० ] १ घ/ मन्त्रसंचहनूमन्तं २ – च. झ. ज, ट. नवृतंनकुलंतथा ३ घ. च. छ. नामापराधेन. ४ ड. झ. ब. ठ. सुवेलमासाद्य. ५ ग. व्रजन्तंलक्ष्मणः