पृष्ठम्:वाल्मीकिरामायणम्-किष्किन्धाकाण्डम्.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २०५ आवृत्याऽऽकाश मांगें तु जवेन से गतौ भृशम् ॥ मध्यं प्राप्ते दिनकरे जटायुरवसीदति ॥ ५ ॥ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् || पक्षाभ्यां छादयामास स्नेहात्परमविलः ॥ ६ ॥ निर्दग्धपक्षः पतितो विन्ध्येहं वानरर्षभाः || अहमस्मिन्वसन्भ्रातुः प्रवृत्ति नोपलक्षये ॥ ७ ॥ जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा ॥ युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥ ८ ॥ जटायुषो यदि भ्राता श्रुतं ते गदितं मया || आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥९॥ अदीर्घदर्शनं "तं वै रावणं रौक्षसाधिपम् || अन्तिके यदि वा दूरे यदि जानासि शंस नः ॥१०॥ ततोऽब्रवीन्महातेज़ा 'ज्येष्ठो भ्राता जटायुषः ॥ आत्मानुरूपं वचनं वानरान्संग्रहर्षयन् ।। ११ ।। . निर्दग्धपक्षो गृध्रोऽहं हीनैवीर्यः प्लवङ्गमाः ॥ वाङमात्रेण तु रामस्य करिष्ये साह्यमुत्तमम् ॥ १२ ॥ जानामि वारुणाँल्लोकान्विष्णो त्रैविक्रमानपि ॥ मँहासुरविमर्दान्वाऽप्यमृतस्य च मन्थनम् ॥ १३ ॥ रामस्य यदिदं कार्य कर्तव्यं प्रथमं मया ॥ जरया च हृतं तेजः प्राणाञ्च शिथिला-मम ॥ १४ ॥ आवृत्त्या मण्डलगत्या | स्मशब्दस्य अवसीदतीत्यनेन | अदीर्घदर्शनं आगाम्यनर्थानवेक्षकं ॥ १०-१२ ॥ संबन्धः ||५|| छादयामास आच्छादयं ।। ६–९ ॥ वारुणान् लोकान् । अतलवितलादिलोकान् । त्रैवि- पंश्च खःपर्द कविरवगमयाञ्चकार भूम्यांमङ्गलं गगनगमनान्तरायापनुत्त्यै कृतमिति । स्वश्शब्दस्यमङ्गलार्थकत्वंतु स्वशब्दस्यमङ्ग- लार्थवादादौ स्वरव्ययमिति प्रयोगइत्यमरभानुदीक्षित व्याख्यातोऽवसेयं ॥ तत्पक्षे वसन्ददर्शेत्यादिवत्कियाप्रबन्धे लडित लडेव लडर्थइतिबोध्यं । जयैषिणौ परस्परंस्पर्धयाराज्यंपणकृत्वा वेगेनंजयाभिलाषौ उपयातौ । प्रातरितिशेषः । भ्रातरंयवीयांसं परमवि- ह्वलः मरिष्यतीतिचश्चलचेताः । स्नेहात्पक्षाभ्यामाच्छादयामासं | आच्छादयां आसं इतिपदद्वयं । नित्ययोगादामन्तेनास्तेराच्छादि- तवानिति तदर्थः ॥ यत्तु नागोजिभट्टेन पुरा पूर्व वृत्रववृतेसति जटायुरहंच जयैषिणौ वृत्रवधेनेन्द्रस्यातिप्रबलत्वंनिर्णीय तज्जयै- षिणौभूला प्रथममाकाशमार्गेण स्वर्गगतौ ततोगरुडवद्भृशं जवेन तंविजित्य प्रत्यावर्त्याऽऽदित्यंदर्पादुपयातौखः । अथ तमुपयात- योरावयोर्मध्ये जटायुस्सवितरिमध्यं प्राप्तेऽवसीदतिस्मेतिकतकः ॥ अन्येतु - जयेषिणौ परस्परजयेषिणौ येनोत्पत्य आदित्यः प्रथमं - प्राप्यते आवयोः प्रबलइति प्रतिज्ञापूर्वमितिशेषइत्याहुः । तेषामावृत्येतिपदस्य इन्द्रप्रसङ्गस्यचासंगति रित्युक्तं । तदिदमाभाणकंना- तिवर्तते " गुणादोषायन्ते " "आत्मदोषंनपश्यति" इति । कतकमतमेवतन्मतमितिभाति पुनः खमतानुपन्यासाददूषितत्वांच | तञ्चसौवासौवसंमतप्रामाण्य कभारतविरुद्धं । तथाहि वनपर्वणिसंपातिवाक्ये – “संपातिर्नामतस्याहं ज्येष्ठो भ्राताजटायुषः । अन्यो- न्यस्पर्धयाऽऽरूढावावामादित्यसंसदम् । ततोदग्धाविमौपक्षौ नदग्धौतुजटायुषः ” इति । भारतानुयायिवाल्मीकि रामायणसंग्रह- रूपसंग्रहरामायणेच —" अरुणस्य सुतावावां तरुणवे ( ति ) नगर्वितौ । निजराज्यंपणकृत्वा पर्येक्षावहिवेगिताम् । आवामनुग- तौसूर्यमुदयन्तमथोदये । आमध्याहगतेः शौर्यात्ततो मोहोमहानभूत् । " इत्युक्तेः । प्रत्यावर्तनंपतत्रिधर्मः | इन्द्रकथायाश्च कालविशेषप्रतिपत्तिजनकतामात्रेणोक्तिसंभवाद्दूषणस्यालग्नत्वादन्यपक्षएव श्रेयानितिदिक् । शि० छादयामास अतिशोकेनवि- क्षिप्तचित्तत्वात्परोक्षक्रियानिर्देशः ॥ ४–६ ॥ स० यदि जटायुषोभ्रातेतिगदितं तर्हि मयाश्रुतं | रामसेवानुबन्धिनस्तत्संभा ष्यत्वेन तववचनस्यश्राव्यत्वमितिभावः | यदि तस्य तवयवीयसोभ्रातुर्घातकस्य रक्षसोनिलयंजानासि तर्ह्याख्याहीत्यन्वयः । तस्येत्युक्त्या नइवतवापि तत्स्थानंतद्वधश्च ज्ञीप्सितमीप्सितश्चेतिसूचयति ॥ ९ ॥ स० यदिद्वयस्य दूरेअन्तिकेइति पदद्वयेनान्व- यः ॥ १० ॥ रामानु० त्रैविक्रमान् त्रिविक्रममितान् | गोबलीवर्दन्यायेन त्रिविक्रमशब्द उपरितनलोकमात्रवाची ॥ ति० वारुणाल्लोकान् जलप्रधानाँल्लोकान् | अमृतस्यमन्थनंच अनेनच ब्रह्माहरादिक्षणमारभ्यैतत्क्षणपर्यन्तं सर्ववृत्तान्तज्ञत्वं स्वस्यनिवे- दितं ॥ स० त्रयश्चते विक्रमाथ त्रिविक्रमाः त्रयः पादविक्षेपाः तदाक्रान्ताः भूरादिलोकास्त्रैविक्रमाः | विष्णोर्वा मनस्य | यद्वा [ पा० ] १ घ. ङ. छ. झ. ट. मार्गेण च. मार्गेतु. ख. मार्गेच. २ छ. – ट. स्वर्गतौ ३ ग. प्राप्तेसवितरि • ख. प्रातेतुसू- र्येच. ङ.-ट. प्राप्तेतुसूर्येतु. ४ च. ज. छादयाम्येवं. ङ. ञ. छादयाम्येनं. ५ क. ख. ग. ङ. – ट. विह्वलं. ६ झ. निर्दग्ध- पत्रः. ७ ख. विन्ध्येस्मिन्. ८ क. – घ. वानरोत्तमाः ९ च. – ट. अदीर्घदर्शिनं. १० क. ख. घ. ङ. तंवा. ग. तत्र, ११ क. –च. ज. अ. राक्षसेश्वरं. छ. झ. ट. राक्षसाघमं. १२ क. ग. ङ. च. छ. झ. ञ. ट. भ्राताज्येष्ठो. १३ ग. ङ. – ट. गतवीर्यः १४ ङ. – ट. वाड्यात्रेणापि १५ ग. ङ. च. ज. ज. प्रियमुत्तमं. १६ छ. झ ट देवासुरविमर्दाश्चामृतस्य विमन्थनं. ख. देवासुरविमर्दाश्चाप्यमृतस्य ङ च ज ञ देवासुरविमर्दान्वायमृतस्यापिमन्थनं. १७ ग. दयितं. १८ ग.. जरयातु. क. ख. घ. जरयापहृतं.