पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ मद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् - | धूम्राक्षेण समागम्य माणिभद्रो महारणे । मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः ॥ १० ॥ ततो गदां समाविध्य माणिभद्रण राक्षसः । धूम्राक्षस्ताडितो मूर्श्वि विह्वलः स पपात ह ।। ११ ।। धूम्राक्षं ताडितं दृष्टा पतितं शोणितोक्षितम् । अभ्यधावत संग्रामे माणिभद्रं दशाननः ॥ १२ ॥ तं कुद्धमभिधावन्तं माणिभद्रो दशाननम् ॥ शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। १३ ।। ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे । तस्य तेन प्रहारेण मुकुटं पार्श्वमागतम् ।। १४ ।। ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ॥ तदाग्रभृति यक्षोसौ पार्श्वमौलिरिति स्मृतः ॥ १५ ॥ तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि ।। संनादः सुमहात्राजस्तस्मिन्शैलेऽभ्यवर्तत ।। १६ ।। ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः । शुक्रग्रोष्ठपदाभ्यां च पद्मशङ्कसमावृतः ।। १७ ।। स दृष्टा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम् । उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। १८ ।। यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते । पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। १९ ।। यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।। स तस्य परिणामान्ते जानीते कर्मणः फलम् ॥२० ॥ देवैता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ॥ येन त्वमीदृशं भावं नीतः सन्नावबुध्यसे ॥ २१ ॥ माँतरं पितरं यो हि आचार्य चावमन्यते । स पश्यति फलं तस्य प्रेतराजवशं गतः ।। २२ ।। अधूवे हि शरीरे यो न करोति तपोर्जनम् । स पश्चात्तप्यते मूढो मृतो दृष्टाऽऽत्मनो गतिम् ॥२३॥ धैर्माद्राज्यं धनं सौख्यमधर्माहुःखमेव च ॥ तस्माद्धर्म सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। २४ ।। माणिचारः माणिभद्रः ॥ १-१३ ॥ ताडितः | ष्ठगौरवरहितः । युक्तमिति । पैतामहे कुले उत्पत्तेरि शक्तिताडितः । रावणः माणिभद्रं गद्या मुकुटे प्राह-|ति शेषः ।। १८ । यदिति । अस्य फलं कुलाचारस्य रत् । तञ्च मुकुट प्रहाररात्पाश्वमागत ॥ १४ ॥ सयु फलं परिपाकं प्राप्य ।। १९-२० । धर्मयुतेन तव ध्यमानेन माणिभद्रेण विष्टब्धो निरुद्धः न व्यकम्पत केनचिठ्यापारेण त्वामिदानीं नाभिनन्दन्ति । धर्मा ।। १५-१६ ॥ शङ्खपद्मसमावृतः शङ्खपद्मनिध्यभि येन देवतावैमु मानिदेवैः संवृतः । शुक्रप्रोष्ठपदाभ्यां च सहप्रददृशे । |भावात्त्वयि विमुखा भवन्तीत्यर्थः । शुक्रप्रोष्ठपदौ मश्रिणौ ॥ १७ ॥ शापात् पितृकृतदा- |ख्येन । त्वमीदृशं क्रूरं भावं नीतः सन्नावबुध्यसे रुणत्वशापात् । विभ्रष्टगौरव: वन्दनादिप्रयोजकज्ये तपसः अजन सपादन २३ अभ्यधिकाः यक्षतोपिदक्षाइतिभावः ॥ ९ ॥ ति० तिसृभिःशक्तिभिस्ताडितोराक्षसेन्द्रः गदया माणिभद्रस्यमुकुटे मुकुटस्थले । प्राहरत् । तचमुकुटस्थलं तेनप्रहारेण पाश्चै एकपाश्चै । आगतं प्राप्तं ॥ १४ ॥ ति० संनादोरक्षसां ॥१६॥ ति० शुकप्रोष्ठपदा भ्यांनिधिरक्षकमन्त्रिभ्यांसह धनाध्यक्षःप्रददृशे । भ्रातरमितिसंबन्धः ॥ १७ ॥ ति० वार्यमाणः असदृत्तादितिशेषः । नावग च्छसि । अस्य मद्वचनाकरणस्य पूज्यपूजाव्यतिक्रमादिदोषस्यच । फलं परिपाकं। प्राप्य तद्वशान्निरयंगतोज्ञास्यसे । अहंसाधुनकृत वान् । किंतुपापमेवेतिपरितप्यसइत्यर्थः ॥ १९ ॥ ति० तत्कालानवगतदुःखसाधनस्यकालान्तरेफलपाकतोज्ञानेदृष्टान्त योहीति । स० मोहात् अन्नाभावप्रयुक्तवैचित्यात् । यद्विषत्वेनयोनावगच्छति नज्ञातवान् । तत्पीखा तस्यविषस्यपरिणामान्ते द्विकारेणान्ते रसप्रसरणकाले । कर्मणः खानुष्ठितस्य । फलंजानीते । तथा खमपीतिभावः ॥२० ति० दैवतानि ब्रह्मरुद्रादय धर्मयुक्तेन केनचित्प्राकृतेनव्यापारेण खामिदानीं नाभिनन्दन्ति । खयिविमुखाभवंति । संप्रतित्वयिधर्माभावात् येनदेवतानभि नन्दनेन खमीदृशंभावंकूरंनीतः प्रापितःसन्नावबुध्यसे । स०दैवतानि वृन्दारकाः । ननन्दन्तिलांदृष्ट्रा। कुतस्तदनभिनन्दनमि त्यत आह-धर्मयुक्तेनेति । केनचिद्धर्मयुक्तेन महतादैवेनकर्तृणा येन खडुष्कर्मरूपकरणेन ईदृशंभावं क्रूरखंनीतः । अतोदेवतान भिनन्दनमितिनावबुध्यसे । तदैवंनावबुध्यसइतिवा । भगवतैवैवंविधानाद्विबुधास्त्वद्विमुखाइतिभावः ॥ २१ ॥ ति० तस्य मात्रा [पा०] १ ड. झ. अ. ट. संकुद्धं. २ ङ. झ. ट. पार्श्वम लिरभूत्किल. ३ ङ.-ट. विमुखीभूते. ४ ख. छ. झ. अ. ट शैलेव्यवर्धत. ५ क. ख. घ. ज. मानवः. ६ ड, झ. अ. ट, दैवतानिननन्दन्ति. ७ ङ. च. छ. झ. अ. ट. मातरंपितरंविप्र माचार्ये. क. ग. घ. योहिमातृपितृभ्रातृनाचार्य. ८ ड. च. छ. झ. अ. ट. गावात्मनोगतिं. ९ धर्माद्राज्यंधनमिति. पापस्यहि फलमितिचश्लोकद्वयं. झ, पाठेनदृश्यते