पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुराणि स नदीः शैलान्वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ।। ३ ।। सन्निविष्टं गिरौ तसिन्राक्षसेन्द्रं निशम्य तु ॥ युद्धेऽत्यर्थकृतोत्साहं दुरात्मानं समत्रिणम् ।। ४ ।। यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः ।। राज्ञो भ्रातेति विज्ञाय गता यत्र धनेश्वरः ॥ ५ ॥ ते गत्वा सर्वमाचख्युभ्रतुस्तस्य चिकीर्षितम् ॥ अनुज्ञाता ययुर्हष्टा युद्धाय धनदेन ते ॥ ६ ॥ ततो बलानां संक्षोभो व्यवर्धत महोदधेः । तस्य नैतराजस्य शैलं संचालयन्निव ॥ ७ ॥ ततो युद्धं समभवद्यक्षराक्षससंकुलम् । व्यथिताश्चाभवंस्तत्र सचिवा राक्षसस्य ते ॥ ८ ॥ स दृष्टा तादृशं सैन्यं दशग्रीवो निशाचरः । हर्षनादान्बहून्कृत्वा स क्रोधादभ्यधावत ॥ ९ ॥ ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमाः । तेषां सहस्रमेकैकं यक्षाणां समयोधयन् ।। १० ।। ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः ।। हन्यमानो दशग्रीवस्तत्सैन्यं समगाहत ॥ ११ ॥ सं निरुच्छ्ासवत्तत्र वध्यमानो दशाननः ॥ वर्षद्भिरिव जीमूतैर्धाराभिरवरुध्यत ॥ १२ ॥ न चकार व्यथां चैव यक्षशत्रैः समाहतः ॥ महीधर इवाम्भोदैर्धाराशतसमुक्षितः ॥ १३ ॥ स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम् । प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् ॥ १४ ॥ स कक्षमिव विस्तीर्ण शुष्केन्धनमिवाकुलम् ॥ वातेनाग्रिरिवायत्तो यक्षसैन्यं ददाह तत् ॥ १५ ॥ तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः ॥ अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ।। १६ ॥ केचित्समाहता भग्राः पतिताः समरक्षितौ । ओष्ठांश्च दशनैस्तीक्ष्णैरदशन्कुपिता रणे ॥ १७ ॥ श्रान्ताश्चान्योन्यमालिङ्गय भ्रष्टशस्रा रणाजिरे ।। सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥१८॥ हतानां गच्छतां खर्ग युध्यतां पृथिवीतले । प्रेक्षतामृषिसङ्कानां न बभूवान्तरं दिवि ॥ १९ ॥ भग्रांस्तु तान्समालक्ष्य यक्षेन्द्रांस्तु महाबलान्। धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान् ॥२०॥ एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः ॥ प्रेषितो न्यपतद्यक्षो नाझा संयोधकण्टकः ॥ २१ ॥ तेर्न चक्रेण मारीचो विष्णुनेव रणे हतः ॥ पैतितो भूतले शैलात्क्षीणपुण्य इव ग्रहः ॥ २२ ॥ ससंज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः ॥ तं यक्षं योधयामास स च भग्रः प्रदुवे ॥ २३ ॥ न शेकुरित्यत्र हेतुमाह-राज्ञो भ्रातेति ॥५-८॥ |युध्यतां हृतानामत एव खर्गस्थानां तथा व्योन्नि हर्षनादं सिंहनादं ॥ ९ ॥ सहस्राणां यक्षाणामेकैकं | स्थित्वा युद्धं प्रेक्षतां प्रेक्षमाणानामृषिसंघानां च । सहस्र प्रत्येकमयोधयन् ।। १०-१८ ॥ पृथिवीतले | दिवि आकाशे । अन्तरमवस्थातुमवकाशः न वभूव । ति० राज्ञोभ्रातेति कुबेरस्यभ्रातेल्यर्थः । स० नकेवलमसामथ्र्य प्रमुखानवस्थानेनिमित्तं । किंतु राज्ञोभ्रातेतिविज्ञायापिगताः ॥ ५ ॥ शि० उदधेःसंक्षोभइवनैतराजस्यबलानांसंक्षेोभः । शैलं कैलासं । संचालयन्निवव्यवर्धत ॥७ ॥ ति० येरावणसचिवाः तेषामेकैकः तेषां सहस्रसंख्यानांयक्षाणांसहस्रमयोधयत् ॥ १० ॥ शि० वर्षद्रिजीमूतैरिव यक्षेरितिशेषः ॥ अवरुध्यत अवा रुध्यत । स० धाराभिः शस्त्रधाराभिः । अवरुध्यत निरुद्धोभूत् ॥ १२ ॥ ति० धाराशतसमुक्षितः शस्रक्षतजन्यरुधिरधा राशतसमुक्षितः ॥ १३ ॥ ति० कक्षं तृणं तद्वद्विस्तीर्ण । शुष्केन्धनमिवाकुलं । शुष्केन्धने आकुलत्वंचझटितिवह्निव्याप्यत्वं । यक्षसैन्यं वातेनादीप्तोऽग्निरिवरावणोदाह ।। १५ । स० तैस्तु तैरपि ॥ १६ ॥ ति० भन्नाः भन्नगात्राः ॥ १७ । ति० कूलाइतिलिङ्गव्यत्ययः ।। १८ । ति० संयोधानां समक्षयोद्धणां कण्टकः संहर्तेति संयोधकण्टकः ।। २१ । स० चक्रायुधसा। म्याद्विष्णुदृष्टान्तः । पतनेदृष्टान्तः क्षीणपुण्यइवेति ॥ २२ । ति० सच यक्षश्च ॥ २३ ॥ [पा० ] १ ड. च. झ. ल. ट. युद्धेप्सुंतंकृतोत्साहं. २ क. ग. घ तेसहस्रसहस्राणामेकैकं.झ. तेषांसहस्रमेकैको. ३ क घ. ज. तैर्निरुच्छासवत्तत्र. ४ च. छ. ज. रिवादीप्तो. ग. रिवाध्मातो. क. ख. घ. ज. रिवायत्तोऽदहत्सैन्यंसुदारुणं. ५ घ ड. व• झ• अन. ट. युध्यतामथधावतां. ६ ग. तेनयक्षेण ७ च. पातितःपृथिवीष्टक्षीण. क.-घ. ज. पतितःपृथिवीं पुण्यइवांबरातू