पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। २४० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव || विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥ २२ ॥ इयं शुद्धसमाचारा अपापा पतिदेवता || लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥ २३ ॥ तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा || लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिताऽपि शुद्धा ॥ २४ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥ सप्तनवतितमः सर्गः ॥ ९७ ॥ | वाल्मीकिना सीतायाः शुद्धत्वंबोधितेनरामेण तंप्रति पूर्वमेवशपथकरणेन तच्छुत्वज्ञातवतापिस्वेन लोकापवादभया- तत्परित्याग निवेदनेन क्षमापणं ॥ १ ॥ तथा तंप्रति कुशलवयोः स्वपुत्रत्वाङ्गीकरणपूर्वकं लोकसमक्षंशुद्धिप्रसिद्धौ स्वस्थ सीतायां प्रीतिजनननिवेदनम् ॥ २ ॥ श्रीरामभावविज्ञानेन सीताशपथदर्शनार्थं चतुर्मुखपुरस्करणेन समागतेष्विन्द्वादिषु तान्प्रति रामेण जनापवादपरिहारेसत्येव वैदेह्यांस्वस्यमी तिसमुदयनिवेदनम् ॥ ३ ॥ ततः प्रादुर्भूतेन दिव्यगन्धवतावायु- नाऽऽह्लादितानांसवर्जनानांपुरत: सीतया त्रिवारं रामादन्यस्यमनसाप्यचिन्तने भूमि देव्यास्वस्य विवरवितरणरूपशपथकर- णम् ॥ ४ ॥ ततो भूतलात्प्रादुर्भूते दिव्यासंहासने सीताया उपवेशनपूर्वकं रसातलंप्रविष्टायां भूमिदेव्यां सीतायाउपरिपुष्प- वृष्टिप्रादुर्भावः ॥ ५ ॥ ततोदेवर्ष्यादिषु सीतासौशल्यंप्रतिसाधुवाद पूर्वकं संतुष्टेषु सर्वैरपिमुहूर्त मोहाधिगमः ॥ ६॥ वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत || प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥ १ ॥ एवमेतन्महाभाग यथा वदसि धर्मवित् || प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥ २ ॥ प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ || शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ॥ लोकापवादो बलवान्येन त्यक्ता हि मैथिली ॥ ३ ॥ सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता || परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति ॥ ४ ॥ जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ॥ शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ॥५॥ अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः || सीतायाः शपथे तसिन्महेन्द्राद्या महौजसः || ६ || पितामहं पुरस्कृत्य सर्व एव समागताः ॥ ७ ॥ आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः || गन्धर्वाप्सरसश्चैव सर्व एव समागताः ॥ ८ ॥ थेयमपापेत्यर्थः । तस्याः फलमुपाश्नीयामपापा यदि मैथिलीति च पाठः । तस्य किल्बिषानाचरणस्ये- त्यर्थः ॥ २१ ॥ पञ्चसु भूतेष्विति । श्रोत्रादि- पञ्चेन्द्रियेष्वित्यर्थः ॥ २२–२४ ॥ इति श्रीगोविन्द राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षण्णवतितमः सर्गः ॥ ९६ ॥ यथा वदसीति । प्रत्ययं दास्यतीत्येवमात्मनेत्यर्थः । एतदेवमेव कर्तव्यमित्यर्थः । एवंकरणं च न मम विश्वासार्थमित्याह - प्रत्यय हीति ॥ जात एवेति शेषः । तव वाक्यैरिति । बहुवर्षेत्यादिना प्रागुक्तशप- थवाक्यैरित्यर्थः ॥ २५ ॥ सीतायाः शपथ इति । यद्यप्यपापामैथिली । तदातस्य किल्बिषानाचरणस्यफलमश्नामि अश्नीयां । अनेनसंकल्पपूर्वनिषिद्धत्यागोपिधर्माये तिसूचितम् ॥ २१ ॥ ति० दिव्येनदृष्टिविषयेण दिव्यज्ञानेन | तवशुद्धा विदितापित्वयालोकापवादमी तेन त्यक्तेत्यन्वयः ॥ २४ ॥ इतिषण्ण- वतितमः सर्गः ॥ ९६ ॥ स० जगतः समक्षंकृतशपथेनशुद्धायां मैथिल्यांममप्रीतिरस्तु । अनेन तत्कृतैनो नप्रतिलक्ष्य लावण्यतारुण्यव्यामोहितोरामो