पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । आबध्य शरसंपूर्णे इषुधी विमले तदा ॥ श्रोणिसूत्रं च खङ्गं च विमलं कमलेक्षणः । शङ्खचक्रगदाशाङ्गेखङ्गाख्यप्रवरायुधान् ॥ ६४ ॥ सुपर्ण गिरिसंकाशं वैनतेयमथास्थितः ।। राक्षसानामभावाय ययौ तूर्णतरं प्रभुः ॥ ६५ ॥ सुपर्णपृष्ठ स बभौ श्यामः पीताम्बरो हरिः ॥ काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा ।। ६६ ॥ स सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षेरुपगीयमानः । समाससादासुरसैन्यशश्चक्रासिशाङ्गयुधशङ्कपाणिः ॥ ६७ ॥ सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नीलं इवाचलेन्द्रः ।। ६८ ।। ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सैपरिवार्य माधवं वरायुधैर भदुः सहस्रशः ॥ ६९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्ठः सर्गः ।। ६ ।। सत्समः सर्गः ॥ ७ ॥ १७ श्रीनारायणेन बहुराक्षससेनासंहरणपूर्वकं मालियधः ॥ १ ॥ नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववैषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥ १ ॥ श्यामावदाततैर्विष्णुनलैर्नक्तंचरोत्तमैः । वृतोञ्जनगिरीवैासीद्वर्षमाणैः पयोधरैः ॥ २ ॥ शलभा इव केदारं मशका इव पर्वतम् । यथाऽमृतघटं दंशा मकरा इव चार्णवम् ।। ३ ।। तथा रक्षेोधनुर्मुक्ता वज्रानिलमनोजवाः ॥ हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥ ४ ॥ स्यन्दनैः स्यन्दनणता गजैश्च गंजपृष्ठगाः । अश्वारोहास्तथाऽचैश्च पादाताश्चाम्बरे स्थिताः ॥ ५ ॥ राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्युष्टितोमरैः । निरुच्छासं हरिं चक्रुः प्राणायामा इव द्विजम् ॥६॥ ६७ । नुन्नपक्षं क्षेोभितबलं । चलोपलमिति बहुव्रीहि | श्यामः सन्नवदातः शुभ्रः श्यामावदात: निर्मल ॥ ६८ ॥ विग्रहः आकारः ॥६९॥ इति श्रीगोविन्द्- इत्यर्थः । अञ्जनगिरीवेति विभक्तिलोपश्छान्दसः ॥ २ ॥ अनृतघटं मधुघटं । दंशाः वनमक्षिकाः राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने ।। ३ । वज्रा: वज्रधारा इव स्थिताः अनिलमनो उत्तरकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥ जवाश्च । विपर्यये संहारकाले । हरिं लोकाः प्रजा इव ।। ४-५ ॥ हरिं निरुच्छासं चक्रुः उच्छासा ति० श्रोणिसूत्रं खङ्गबन्धनभूतं ॥ ॥ स० पुनश्चक्रासिशाङ्गयुधशङ्गपाणिरितिवचनंखरूपाखरूपैतद्वखंभगवतइतिसप्रमे ६४ यसूचनार्थ । प्रेरणमात्रेणसुत्रामादिःप्रभविष्यत्येतन्निधनेइतिखयमागमनमेवादुतं । तत्रापिचक्राद्यानयनमद्रुततरमित्येवंरूपाधि क्यद्योतनेवाधिक्येधिकमित्युक्तदिशैतदितिमन्तव्यं ॥ ६७ ॥ स० सुपर्णपक्षानिलनुन्नवत्रं नुनंपर्यस्तं । नुन्नपक्षमितिपाठोनपाङ्गः नखरसार्थोऽनुप्रासरहितथेत्युपेक्ष्य ॥ ६८ ॥ इतिषष्ठःसर्ग स० नारायणगिरिं नारायणाख्यपर्वतविशेषं अस्ररूपवर्षेणार्दयन्तोराक्षसलक्षणाम्बुदाः अभिपेतुरितिशेषः । वर्षेणेवाद्रिम म्बुदाइतिसामान्यतोनिदर्शनं ॥ १ ॥ स० अम्बरे खचरत्वात् ॥ ५ ॥ स० द्विजं प्राणायामकर्तारं ॥ ६ ॥ [ पा० ] १ क. ड.-ट. खङ्गांश्चैववरायुधान्, घ. विमलासिवरायुधः. २ ग. घ. गन्धर्वमुख्याप्सरसोपगीतः. ३ घ. ज श्चक्रासिसीरप्रवरास्रधारी. ४ ड. च. छ. झ. अ. ट. नीलमिवाचलाग्रं. ५ ड. छ -ट. शितैः. ६ ड. झ. अर्दयन्तोस्रवर्षेण ट. गिरीवायंवर्षमाणै ८ ड. च. छ. झ. अ. ट. पावक. ९ ड. च. छ. झ. अ. ट. गज मूर्धगा का. रा. २४३