पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तैसादद्य समुद्युक्ताः सर्वसैन्यसमावृताः ॥ देवानेव जिघांसाम एभ्यो दोषः समुत्थितः ।। ४४ ॥ [इंति माली सुमाली च माल्यवानग्रजः प्रभुः ॥ ] एवं संमध्य बलिनः सर्वे सैन्यसमावृताः ॥४५॥ उद्योगं घोषयित्वा तु सर्वे नैतपुङ्गवाः ॥ युद्धाय निर्ययुः कुद्धा जुम्भवृत्रबला इव ॥ ४६ ॥ इति ते रामु संमन्यु सर्वोद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महाकाया महाबलाः ॥ ॥ ४७ स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः ।। खरैगभी रथोष्ट्रश्च शिंशुमारैर्भुजङ्गमैः ।॥ ४८ मकरैः कच्छपैमनैर्विहङ्गेर्गरुडोपमैः ॥ सिंहैव्यधैर्वराहैश्च सृमरैश्वमरैरपि ॥ ४९ ॥ त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः । प्रयाता देवलोकाय योढुं दैवतशत्रवः ॥ ॥ ५० लङ्काविपर्ययं दृष्टा यानि लङ्कालयान्यथ । भूतानि भयदशनि विमनस्कानि सर्वशः ॥ ५१ ॥ रथोत्तमैरूह्यमानाः शतशोथ सहस्रशः । प्रयाता राक्षसास्तूर्ण देवलोकं प्रयततः ।। रक्षसामेव मार्गेण देवतान्यपचक्रमुः ॥ ५२ ॥ भूतानि भयदशनि विषमस्थानि सर्वशः । भौमाथैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः ।। उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः ॥ ५३ ॥ अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च ॥ वेलां समुद्राश्चोत्क्रान्तावेलुश्चाप्यथ भूधराः ।। ५४ ॥ अट्टहासान्विमुञ्चन्तो घननादसमखनाः । वाइयन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः ॥ ५५ ॥ संपतन्त्यथ भूतानि दृश्यन्ते च यथाक्रमम् ॥ [ भूम्यां परिपतन्ति स नृत्यमानाः सहस्रशः ।।] गृध्रचक्र महचात्र ज्वलनोदारिभिर्मुखैः ।। ५६ ।। रौक्षसानामुपरि खे भ्रमतेऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विदुता ययुः । काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः ।। ६७ ॥ उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्यव न निवर्तन्तं मृत्युपाशावपाशताः ।। ५८ ।। माल्यवांश्च सुमाली च माली च सुमहाबलाः । आसन्पुरस्सरास्तेषां क्रतूनामिव पावकाः ।। ५९ ।। माल्यवन्तं च ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताँः ।। ६० ।। तद्धलं राक्षसेन्द्राणां महाभ्रघननादितम् ॥ जयेप्सया देवलोकं ययौ मालिवशे स्थितम् ।। ६१ ।। राक्षसानां समुद्योगं तं तु नारायणः प्रभुः ।। देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः ।। ६२ ।। स सज्जायुधतूणीरो वैनतेयोपरि स्थितः ॥ आसज्य कवचं दिव्यं सहस्रार्कसमद्युति ॥ ६३ ॥ दृपकाराकरणादिति भावः ।। । जिघांसाम । न्यासन्निति शेषः ॥५१ । रक्षसां मार्गेण तद्यात्रया ४३ इति स्वार्थे सन्नार्षे ४४-४७ ॥ वाहनान्याह सहवापचक्रमु कालाज्ञप्ताः कालप्रेरिता स्यन्दनैरित्यादिना ।। ४८ ॥ सृमरैः गवयैः ॥४९- | ५० ॥ लङ्काविपर्ययं लङ्काविनाशं । दृष्टा यानि लङ्का-|॥ ५३-५७ । मृत्युपाशावपाशिताः संजातबन्ध निलयानि भूतानि तत्रत्यानि दैवतानि विमनस्का - | नाः ।। ५८-५९ । माल्यवन्तं पर्वतं ।। ६० -- ति० सृमरोगवयः । सृमरचमरयोनलश्वेतपुच्छयोगाद्रेदइतितीर्थ ॥ ४९ ॥ ति० विमुञ्चन्तइत्यस्यजाताइतिशेषः । एवं वाशन्त्यइत्यस्यापि ॥ ५५ ॥ ति० माल्यवन्तमचलं माल्यवदाख्यकुलपर्वतं ॥ ६० ॥ ति० महाभ्रघननादितं महामेघसमूहव न्नादितंसंजातनादं ॥ ६१ ॥ [पा०] १ च. छ. झ. अ. ट. तस्मादचैवसहिताःसर्वेऽन्योन्यसमावृताः. २ इदमधे ख. घ. ज, पाठेषुदृश्यते. ३ ग. ड च. छ. झ. अ. ट. जंभवृत्रादयोयथा. ४ ख. ग. ड. च. झ. अ. ट. करिसंनिभैः. ५ इदमर्ध क. ख. घ. ज. पाठेषुदृश्यते ६ इ.-ट. रक्षोगणस्योपरिष्टात्परिभ्रमतिकालवत्. ७ क. ग. घ. च. छ. ज. देहिनः.८ ग. वैनतेयमथास्थित