पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् | १८५ रामं प्रदक्षिणीकृत्य शिरसाऽभिप्रणम्य च ॥ रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥ १६ ॥ लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ॥ पुरोहितं वसिष्टं च शत्रुघ्नः प्रयतात्मवान् ॥ प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥ १७ ॥ प्रस्थाप्य सेनामथ सोग्रतस्तदा गजेन्द्रवाजिप्रवरौघसंकुलाम् ॥ उवास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ॥ १८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पष्टितमः सर्गः ॥ ६४ ॥ पञ्चषष्टितमः सर्गः ॥ ६५ ॥ मार्गवशावाल्मीफ्याश्रमंगतेनशत्रुघ्नेन तंप्रतिसप्रणामं तन्त्रत्ययाज्ञियचिह्नदर्शनेन तत्कर्तृप्रश्नः ॥ १ ॥ तेन तंप्रति कल्माषपादनाम कसौदासवृत्तकथनपूर्वकं तत्प्रदेशस्य तद्यज्ञभूमित्वोक्तिः ॥ २ ॥ शत्रुघ्नेन वाल्मीक्यनुज्या पर्णशाला- प्रवेशः ॥ ३ ॥ प्रस्थाप्य तु बलं सर्वे मासमात्रोपितः पथि || एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ १ ॥ द्विरात्रमन्तरे शूर उष्य राघवनन्दनः || वाल्मीकेराश्रमं पुण्यमगच्छदासमुत्तमम् ॥ २ ॥ सोभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ॥ कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ३ ॥ भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः ॥ श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ||४|| शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ॥ प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥ स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि || आसनं पाद्यमर्थ्य च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥ प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ॥ भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥ स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ॥ ८ ॥ तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमत्रवीत् || शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥ युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ॥ पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥ स बाल एव सौंदासो मृगयामुपचक्रमे || चञ्चूर्यमाणं दहशे स शूरो राक्षसद्वयम् ॥ ११ ॥ ।। १४–१८ ।। इति श्रीगोविन्दराजविरचिते णाधिष्ठितत्वादितिभावः ॥ ४ ॥ प्रहस्येति । अनिवे- श्रीमद्रामायणभूपणे मणिमुकुटाख्याने उत्तरकाण्ड |दितमपि शत्रुघ्नागमननिमित्तं ज्ञातव्यमित्यभिप्रायः व्याख्याने चतुष्पष्टितमः सर्गः ॥ ६४ ॥ ॥ ५ ॥ राघवाणां कुलस्य स्वं स्वभूतं ॥ ६–७॥ | इयं यज्ञविभूतिस्ते कस्याश्रमसमीपत इति । तवाश्र- मसमीपतः इयं वर्तमाना यज्ञविभूतिः यदस्य समृद्धिः । कस्य यजमानस्य ॥ ८ ॥ आयतनं यज्ञायतनं ॥ ९–१० ॥ चचूर्यमाणं मुहुर्मुहुश्चरन्तं । चरतेर्य- रामेण यथाज्ञप्तगमनं संग्रहेणोक्त्वा अयोध्यातो द्विरात्रगमनानन्तरवृत्तमाह -- भगवन्निति || वारुणीं वरुणपालितां | दारुणांदिशमिति पाठे दारुणां लव- स० मासमात्रोषितः अयोध्यायामितिशेषः ॥ १ ॥ स० अन्तरे अयोध्यावाल्मीक्याश्रमयोर्मध्ये | द्विरात्रमुध्य | वासं सायंकालेनिवासयोग्यं ॥ २ ॥ स० लवणवधायतद्वञ्चनार्थमय मे काकी गच्छतीतिमुनेः परिज्ञानात्प्रहासः । हेमहायशः तेवयाखागतं, ॥ ५ ॥ स० भोजनं भुज्यतइतिभोजनं फलंचूतादि ॥ ७ ॥ ति० पूर्वायज्ञविभूतीयमित्यार्षःसंधिः । आश्रमसमीपतः पूर्वा पूर्वप्रदेशेदृश्यमाना पुरातनीचेयंयज्ञविभूतिः यूपादियज्ञोपकरणसमृद्धिः कस्य यजमानस्येत्यर्थः ॥ ८ ॥ ति० यस्य यजमानस्य [ पा० ] १ ङ. च. झ ञ ट . निर्याप्य २ च. छ. झ ञ ट उपास्यमानःसनरेन्द्र पार्श्वतःप्रतिप्रयातो. ३ च छ. झ. ट. दारुणांदिशं. ४ झ ञ ट पूर्वायज्ञविभूतीयं. वा. रा. २६४