पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ कामकारो ह्यहँ राजंस्तवास्मि पुरुषर्षभ || अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥ ८ ॥ एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ॥ उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥ ९ ॥ संभारानभिषेकस्य आनयध्वं समाहिताः || अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥ १० ॥ पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ॥ मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥ ११ ॥ राज्ञः शासनमाज्ञाय तथाऽकुर्वन्महारथाः || अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ॥ प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥ १२ ॥ तथाऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ॥ संग्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥ १३ ॥ अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसंनिभः ॥ अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥१४॥ अभिषिक्ते तु शत्रुघ्ने रामेणालिष्टकर्मणा || पौरा: प्रमुदिताचा सन्ब्राह्मणाश्च बहुश्रुताः १५ ॥ कौसल्या च सुमित्रा च मङ्गलं केकयी तथा || चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥ १६ ॥ ऋषयश्च महात्मानो यमुनातीरवासिनः || हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥ १७ ॥ ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ॥ उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥ १८ ॥ अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः ॥ अनेन लवणं सौम्य हन्तासि रघुनन्दन ॥ १९ ॥ सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे || स्वयम्भूरजितो देवो यं नापश्यन्सुरासुराः ॥ अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥ २० ॥ सृष्टः क्रोधाभिभूतेन विनाँशार्थं दुरात्मनोः ॥ मधुकैटभयोवर विघाते वर्तमानयोः ॥ सष्टुकामेन लोकांस्त्रींस्तो चानेन हतौ युधि ॥ २१ ॥ तौ हत्वा जनभोगार्थ कैटभं तु मधुं तथा ॥ अनेन शरमुख्येन ततो लोकांचकार सः ॥ २२ ॥ नायं मया शरः पूर्व रावणस्य वधार्थिना || मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥ २३ ॥ फलितमाह - कामकार इति । अहं तव कामकारोस्मि बहुवचनं विरुध्येत ॥ ९-१७ || तेजः शत्रुसंहारो - अभीष्टनियोगकर्तास्मि | मत्कृते मदनुष्ठितराज्याभि- | चितवलवीयै ॥ १८ ॥ अयं मया दीयमानः ॥ १९॥ षेकस्वीकारे । अधर्म ज्येष्ठातिक्रमेण राज्यप्राप्तिनिमि- अमोघले हेतुमाह - सृष्ट इत्यादि ॥ २० ॥ विघाते तं । काकुत्स्थेत्यत्रापि प्राधान्याल्लोकस्य अधर्म अधर्म- सृष्टिविघ्ने वर्तमानयोः तत्परयोरित्यर्थः । सृष्टः को- बुद्धिं । जहि परिहर ॥ ८ ॥ संहृष्ट इति । कृताभि- धाभिभूतेन विनाशे सर्वरक्षसाम् | मधुकैटभयोवर षेकनियोगत्वादिति भावः । अभिषेकस्य संभारान् विघाते सर्वरक्षसामिति च पाठः ॥ २१ – २२ ॥ अभिषेकोपकरणानि । लक्ष्मणं भरतं तथेति प्राधा- नायमिति || अनेन शरेण महान् त्रासो भवेदित्यलक्ष्य- न्यात् सुमन्त्रादीनपीत्यर्थः । अन्यथाऽऽनयध्वमिति विषये महास्त्रप्रयोगे तदीयांश्च सर्वान् लक्षीकृत्य येनेति । यथाभरतेजिगमिषति अहंगमिष्यामीत्युत्तरेणप्रथमेन राज्याभिषेकापत्तिरूपोदण्डः पतितः । यस्येदानीं त्वयाऽभिषेकं प्रतीच्छेत्युक्ते तदनङ्गीकारोत्तरेणद्वितीयेनममदण्डो मानिपतेदिति ॥ ७ ॥ ति० एवमुक्ते स्वातन्त्र्यं विहायाभिषेकाशी कारवाक्ये उक्ते ॥ ९ ॥ ति० आनयध्वमितिब हुवचनं सुमन्त्रायभिप्रायेण ॥ १० ॥ ति० अभिषेकसमारंभं अभिषेकोपकरणवन्तं पुरो- घसंपुरस्कृत्य ॥ १२ ॥ ति० अयंशरः दीयतइतिशेषः ॥ १९ ॥ ति० शरस्यामोघलेहेतुमाह - सृष्टइति । स्वयंभूः जन्मरहितः । अजितोविष्णुः यदाप्रलयकाले महार्णवेशेते यंतदा सुराअसुराश्चनापश्यन् । कैमुतिकन्यायेन सर्वभूतादृश्यः | महार्णवेशयनंचवायुरूपेण । 'प्रजापतिर्वायुर्भूत्वाचरेत् ' इतिश्रुतेरितिकतकः । तेनविष्णुनासाक्षादयंशरोत्तमःसृष्टः ॥ २० ॥ स० रावणस्यवधार्थिनामयाऽयंशरः पूर्वनमुक्तः । एतस्यतत्र विनियोगेएतद्वध्यस्थलवणस्यतथैवावस्थानेलोकानांलवणमुखेनमहा- [ पा०] १ क. ग. घ. भवनंपुरन्दरपुरोपमं च छ ज भवनंपुरन्दरगृहोपमं. २ ग – छ. झ. न. ट. सेन्द्रैरिवदिवौकसैः- ३ ख. घ. ज. विनाशेसर्वरक्षसां. ४ झ ञ ट विधातेसर्वरक्षसां.