पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ जगत्सृष्यन्तकर्तारमजमव्यक्तरूपिणम् ॥ आधारं सर्वलोकानामाराध्यं परमं गुरुम् ॥ २ ॥ ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् ॥ ऊचुः प्राजूलयो देवा भयगद्भभाषिणः ॥ ३ ॥ सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः ॥ प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुंबाधनैः ॥ ४ ॥ शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः ।। खगाच देवान्प्रच्याव्य खर्गे क्रीडन्ति देववत् ॥५॥ अहं विष्णुरहं रुद्रो ब्रह्माऽहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ॥ ६ ॥ इति माली सुमाली च माल्यवांश्चैव राक्षसाः ॥ [ ईंति ते राक्षसा देवान्वरदानेन दर्पिताः ] । बाधन्ते समरोद्धर्षा ये च तेषां पुरस्सराः ॥ ७ ॥ तन्नो देव भयार्तानामभयं दातुमर्हसि । अशिवं वपुरास्थाय जहि वै देवकण्टकान् ।। ८ ।। इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः ।। ९ ।। अहं तान्न हनिष्यामि मयाऽवध्या हि तेऽसुराः ॥ किंतु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति ॥१०॥ एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णु हनिष्यति स तान्प्रभुः ॥ ११ ॥ ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् ॥ विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः ।। १२ ।। शैङ्खचक्रधरं देवं प्रणम्य बहुमान्य च ।। ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयान्प्रति ॥ १३ ॥ सुकेशतनयैर्देव त्रिभित्रेतान्निसन्निभैः ॥ आक्रम्य वरदानेन स्थानान्यपहृतानि नः ॥ १४ ॥ लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता ॥ तत्र िस्थताः प्रबाधन्ते सूर्वान्नः क्षणदाचराः ॥ १५ ॥ /स त्वमसद्धितार्थाय जहि तान्मधुसूदन ॥ शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर ॥ १६ ॥ /चक्रकृत्तास्यकमलान्निवेदय यमाय वै । भयेष्वभयदोस्माकं नान्योस्ति भवता विना ।। १७ ।। //राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् ॥ नुद त्वं नो भयं देव नीहारमिव भास्करः ॥ १८ ॥ /इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः । अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह ।। १९ ।। सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् ॥ २० ॥ तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् । निहनिष्यामि संक्रुद्धः सुरा भवत विज्वराः ॥ २१ ॥ इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुर्दष्टाः प्रशंसन्तो जनार्दनम् ॥ २२ ॥ विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् ॥ २३ ॥ शरण्यानि शरणाह्वणि देवपित्रतिथिपशुपक्ष्यादि - । प्रथमं रुद्रसमीपगमनं कृतोयमनर्थ इतेि द्योतयितु रक्षणाहाणि ।। ५-६ । समरे उद्धर्षों येषां ते |माह-अहमिति ॥ मन्त्रमुपायं ।। १० । एतमेव समरोद्धर्षाः ।। ७ । अशिवं असौम्यं क्रूरमित्यर्थः । समुद्योगमिति । नतु कालान्तरीयमित्यर्थः । प्रभुर्म ॥ ८ ॥ सुकेशं प्रति सापेक्ष इति । सुकेशस्य स्वाश्रि-|मापि प्रभुः ।। ११-१२ । संभ्रान्तवत् संभ्रान्ता तत्वात्तत्पुत्रवधानौचित्य इत्याशङ्कयेत्यर्थः ।। ९ । * । सन्तः॥१३-१७॥ सानुबन्धाः सानुचराः ॥१८ स० तस्यापिप्रजापतित्वात्सृष्टिकर्तृखं । कालान्निरुद्रतयासंहारकर्तृत्वंच । अजः आत्भगवतः जायतइति । * यस्यप्रसादजो ब्रह्मारुद्रश्चक्रोधसंभवः' इत्यादेः । अव्यक्तरूपिणं खानुग्रहमन्तरेणकस्याप्यप्रत्यक्षं । सर्वलोकानां इन्द्रादीनां । आधारं । आराध्यंपूज्यं । परमंगुरुंच हितोपदेष्टारं च ॥ २ ॥ ति० समरे संग्रामे उद्धर्षः उत्साहोयेषांते ॥ ७ ॥ ति० मयाऽवध्याः उत्क्तहेतोर्वधानर्हः । मन्त्रं उपायं ।। १० । स० महर्षयः हेज्ञानिनः । उपक्रमेदेवप्राधान्यकथनात् ॥ ११ ॥ [पा० ] १ घ. रिपुमर्दन. २ इदमर्ध क. ख. घ. च. छ. ज. पाठेषुदृश्यते. ३ क. शङ्खचक्रधरंदेवंपीतवाससमच्युतं । प्रणम्यजगतांनार्थवाक्यमूचुर्दिवौकस