पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ । प्र० ३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२१ प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥ नारायणकराम्मरणाभिलाषिणंरावणंप्रति तन्मनोभावविदासनत्कुमारेण नारायणस्थरामत्वेन भुव्यवतरणकथनम् ॥ १ ॥ एवं चिन्तयतस्तस्य रावणस्य दुरात्मनः ॥ पुनरेवापरं वाक्यं व्याजहार महामुनिः ॥ १ ॥ मनसवेप्सितं यत्ते भविष्यति महाहवे || सुखी भव सहावाहो कंचित्कालमुदीक्षय ॥ २ ॥ एवं श्रुत्वा महाबाहुस्तमृपिं प्रत्युवाच सः ॥ कीदृशं लक्षणं तस्य ब्रूहि सर्वमशेषतः ॥ ३ ॥ राक्षसस्य वचः श्रुत्वा स मुनिः प्रत्यभाषत || श्रूयतां सर्वमाख्यास्ये तव राक्षसपुङ्गव ॥ ४ ॥ स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥ तेन सर्वमिदं प्रोतं त्रैलोक्यं सचराचरम् ॥ ५ ॥ स भूमौ दिवि पाताले पर्वतेषु वनेषु च || स्थावरेषु च सर्वेषु वनेषु नगरीषु च ॥ ६ ॥ ओंकारश्चैव सत्यं च सावित्री पृथिवी च सः ॥ धराधरधरी देवो ह्यनन्त इति विश्रुतः ॥ ७ ॥ अहश्व रात्रिश्च उभे च सन्ध्ये दिवाकरश्चैव यमश्च सोमः ॥ स एव कालो ह्यनलश्च वायुः स ब्रह्मरुद्रौ च स एव वालः ॥ ८ ॥ विद्योतति ज्वलति भाति च पाति लोकान्सृजत्ययं संहरति प्रशास्ति || क्रीडां करोत्यव्ययलोकनाथो विष्णुः पुराणो भवनाशहेतुः ॥ ९ ॥ अथवा बहुना तेन किमुक्तेन दशानन || तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् || १० ॥ नीलोत्पलदलश्याम: किल्कारुणवस्त्रकः ॥ प्रावृकाले यथा व्योम्नि सतडित्तोयदस्तथा ॥ ११ ॥ श्रीमान् मेघवपुः श्यामः पङ्कजारुणलोचनः || श्रीवत्सेनोरसा युक्तः शशाङ्ककृतलक्षणः ॥ १२ ॥ तस्य नित्यं शरीरस्था मेघस्येव शतहदाः ॥ संग्रामरूपिणी लक्ष्मीर्देहमावृत्य तिष्ठति ॥ १३ ॥ न स शक्यः सुरैर्द्रष्टुं नासुरैर्न च पन्नगैः ॥ यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥ १४ ॥ न हि यज्ञफलैस्तात न तपोभिस्तु संचितैः ॥ शक्यते भगवान्द्रष्टुं न दानेन न चेज्यया ॥ १५ तद्भक्तैस्तद्गतप्राणैस्तच्चित्तैस्तत्परायणैः || शक्यते भगवान्द्रष्टुं ज्ञाननिर्दग्धकिल्विषैः ॥ १६ ॥ एतद्धननस्यावश्यकत्वात्स्वयमेवमहामुनिराह — एवमिति ॥ १ ॥ कंचित्कालं स्वल्पकालं ॥ २ ॥ सचराचरंचेतिसर्वमिदं तदेतत्सत्यं ' इतिश्रुतेः । ॥ ५ ॥ ओंकारः ओमित्याक्रियमाणः । 'ओमित्येतदक्षरमुद्गीथमुपासीत ' इतिश्रुतेः । सत्यं सावित्री तदभिमानी | धराधरधरः वराहकृष्णरूपेण पृथिवीपर्वतधरः । देवः क्रीडा दिगुणवान् | अनन्तः देशतःकालतः परिच्छेद- शून्यः । अबद्धइतिवा ॥ ७ ॥ ' सब्रह्मरुदेन्द्रसइतिपदं । ब्रह्मरुद्राभ्यांसहितः सब्रह्मरुद्रः | सचासौ इन्द्रश्चासौ सच इन्द्रसः । इन्द्रेतिप्रातिपदिकनिर्देशोवा ॥ ८ ॥ ज्वलतिभातीतिलाघव मार्ष। किंप्रयोजनमेतेनतस्येत्यत आह — क्रीडामिति ॥ अव्ययलोकनाथः अव्ययश्चासौलोकनाथश्चसतथा । एकोमुख्योभवनाशकः भवनाशकैकः ॥ ९ ॥ विशकलिततया कियद्वाच्यमित्येकयोक्त्याह- अथवेति ॥ १० ॥ किजल्कारुणवाससा किंजल्कवदरुणं अव्यक्तरागंवासोयस्यतेन ॥ ११ ॥ श्रीवत्सेनोरसा तत्सहितोरसा | शशाङ्ककृतलक्षणः शशाङ्केकृतंलक्षणंचिह्नं तत्संस्थत्वादिना येनसः ॥ 'शशिविंबसंस्थं इत्यादेः ॥१२॥ शतहदाः तटितः | संग्राम- रूपिणी संग्राममूलिका । लक्ष्मीः संपत् ॥ १३ ॥ यस्ययदुपरिप्रसादंकुरुते सोधिकारीतंद्रष्टुमर्हति । “ यमेवैषवृणुतेतेनलभ्यः " इतिश्रुतेः ॥ १४ ॥ नायमात्मेत्यादिभावमभिधत्ते–नहीति | यज्ञफलैः तन्निष्पन्नफलैः | इज्यया यागेन ॥ १५ ॥ तद्भक्तैः तन्माहात्म्यज्ञान पूर्व कसुदृढस्नेहवद्भिः । तद्गतप्राणैः तद्गताःप्राणाइन्द्रियाणिबाह्यानियेषांतैः । तत्परायणैः सपरायणं मुख्याश्रयो पा० ] १ ङ. च. छ. झ. न. व्याप्तं. २ ङ. झ ञ ब्रह्मरुद्रेन्द्रस एवचापः. ३ ङ. झ ञ भवनाशकैकः च. छ. भवनाशनैकः. वा. रा. २५६ i