पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३७ । प्र० १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । भास्करेणापि तस्यां वै कन्दर्पवशवर्तिना || बीजं तु सिक्तं ग्रीवायां विधानभनुवर्तिना || तेनापि सा वरतनुनक्का किंचिद्वचः शुभम् ॥ ३७॥ निवृत्तमदनश्चाथ सूर्योपि समपद्यत | ग्रीवायां पतिते वीजे सुग्रीवः समजायत ॥ ३८ ॥ एवमुत्पादितौ वीरौ वानरेन्द्रौ महाबलौ ॥ ३९ ॥ तु दत्वा तु काश्चनीं मालां वानरेन्द्रय वालिनः ॥ अक्षय्यां गुणसंपूर्ण शक्रस्तु त्रिदिवं ययौ |॥४०॥ सूर्योपि स्वसुतस्यैनं निरूप्य पवनात्मजम् || कृत्येषु व्यवसायेषु जगाम सविताऽम्वरम् ॥ ४१ ॥ तस्यां निशायां व्युष्टायामुदिते च दिवाकरे || स तु वानररूपं तु प्रतिपेदे पुनर्नृप ॥ ४२ ॥ स एव वानरो भूत्वा पुत्रौ स्वस लवमौ || पक्षण हरिवरावपश्यत्कामरूपिणौ ॥ ४३ ॥ मधून्यमृतकल्पानि पायितौ तेन तौ तदा || गृह्य ऋक्षरजास्तौ तु ब्रह्मणोऽन्तिकमागतः ॥ ४४ ॥ दृष्ट्वाक्षरजसं पुत्रं ब्रह्मा लोकपितामहः || बहुश: सान्त्वयामास पुत्राभ्यां सहितं हरिम् ॥ ४५ ॥ सान्त्वयित्वा ततः पश्चाद्देवदूतमथादिशत् || गच्छ मद्रचनाहूत किष्किन्धां नाम वै शुभाम् ॥४६॥ सा ह्यस्य गुणसंपन्ना महती च पुरी शुभा ॥ तत्र वानरयूथानि बहूनि निवसन्ति च ॥ ४७ ॥ बहुरत्नसमाकीर्णा वानरैः कामरूपिभिः ॥ पण्यापणवती दुर्गा चातुर्वर्ण्ययुता सदा || विश्वकर्मकृता दिव्या मन्नियोगाच्च शोभना || ४८ ॥ तत्र रजसं पुत्रं सपुत्रं वानरर्पभम् || यूथपालान्समाहृय यथान्यान्प्राकृतान्हरीन || ४९ ॥ तेषां संभाव्य सर्वेषां मदीयं जनसंसदि || अभिपेचय राजानमारोप्य महदासने ॥ ५० ॥ दृष्टमात्राश्च ते सर्वे वानरेण च धीमता || अस्पर्क्षरजलो नित्यं भविष्यन्ति वशानुगाः ॥ ५१ ॥ इत्येवमुक्ते वचने ब्रह्मणा तु हरीश्वरम् || पुरतःकृत्य दूतोसौं प्रययौ तां पुरीं शुभाम् ॥ ५२ ॥ स प्रविश्यानिलगतिस्तां गुहां वॉनरोत्तमम् ॥ स्थापयामास राजानं पितामहनियोगतः ॥ ५३ ॥ राज्याभिषेकविधिना स्नातोथाभ्यर्चितस्तदा || स बद्धमुकुट: श्रीमानभिषिक्तः स्खलंकृतः ॥ ५४ ॥ आज्ञापयामास हरीन्सर्वान्मुदितमानसः || सप्तद्वीपसमुद्रायां पृथिव्यां ये प्लवङ्गमाः ॥ ५५ ॥ वालिसुग्रीवयोरेव ह्येष त्वृक्षरजाः पिता ॥ जननी चैव तु हरिरित्येतद्भद्रमस्तु ते ॥ ५६ ॥ यश्चैतच्छ्रावयेद्विद्वान्यश्चैतच्छृणुयान्नरः || सिद्ध्यन्ति तस्य कार्यार्था मनसो हर्षवर्धनाः ॥ ५७ ॥ एतच्च सर्वं कथितं मया विभो प्रविस्तरेणेह यथार्थतस्तव | उत्पत्तिरेषा रजनीचराणामुक्ता तथैवेह हरीश्वराणाम् ॥ ५८ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥ ११९ विधानं हरिक्लृप्तिं । तेनापि भास्करेणापि ॥ ३७ ॥ काञ्चनीं सुवर्णमयीं ॥ ४० ॥ पवनात्मजंनिरूप्य हितकारिणं ॥ विद्यानुबन्धात् ॥ ४१ ॥ तेन पित्रा ॥ ४४ ॥ पुत्रं स्वाश्रुजं ॥ पुत्राभ्यां वालिसुग्रीवाभ्यां ॥ ४५ ॥ अस्य ऋक्षरजसः ॥ ४६ ॥ पण्यापणवती पण्येति अवद्यपण्येति यदन्ततयानिपातितं । पणितव्यवदापणवती । चातुर्वर्ण्यतिखार्थेष्यञ् । मन्नियोगात् मदाज्ञायाः ॥ ४८ ॥ प्राकृतान् चापल्येन ॥ ४९ ॥ तेषां तान् । मदीयं मत्पुत्रं । महदासने महतां पूर्वेषां आसने ॥ ५० ॥ वशानुगाः अधीनाः ॥ ५१ ॥ सदूतः ॥ ५३ ॥ एषः हरिरेव जननी जनकश्च पूर्वोदीरितरीत्या ॥ ५६ ॥ कार्यार्थाः कार्यसिद्धयः ॥ ५७ ॥ रजनीचराणां रावणादीनां हरीश्वराणांऋक्षरजआदीनां ॥ ५८ ॥ इतिप्रक्षिप्तेषुप्रथमः सर्गः ॥ १ ॥ [ पा० ] १ ङ. च. छ. झ ञ. बीजंनिपक्तं. २ ङ. नीलासपुत्रं, च. छ. स. न. दृष्ट्वासपुत्रं. ३ च. छ. ञ. गुहांशुभां, ४ च. छ. झ. न. वानरोत्तमः,