सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ बाष्पच्छन्नान्यरण्यानियवगोधूमवन्ति च । शोभन्तेऽभ्युदिते सूर्ये नदद्रिः क्रौञ्चसारसैः ।। १६ । खर्जुरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः । शोभन्ते किंचिदनम्राः शालयः कनकप्रभाः ॥१७॥ मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।। दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ १८ ॥ अँग्राह्मवीर्यः पूर्वाहे मध्याहे स्पर्शतः सुखः ॥ संरेंक्तः किंचिदापाण्डुरातपः शोभते क्षितौ ॥ १९ ॥ अवश्यायनिपातेन किंचित्प्रकिन्नशाद्वला । वनानां शोभते भूमिर्निविष्टतरुणातपा ॥ २० ॥ स्पृशंस्तु विपुलं शीतमुदकं द्विरदः सुखम् । अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ॥ २१ ॥ एते हि समुपासीना विहँगा जलचारिणः । नै विगाहन्ति सलिलमप्रगल्भा इवाहवम् ॥ २२ ॥ अवश्यायतमोनद्धा नीहारतमसा वृताः ॥ प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥ २३ ॥ बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः ॥ हिमाद्रेवालुकैस्तीरैः सरितो भौन्ति साम्प्रतम् ॥ २४ ॥ तुषारंपतनाचैव मृदुत्वाद्भास्करस्य च । शैत्यादंगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ २५ ॥ द्विगुणितकरुणस्य रामस्य व्यापारः सूचितः ॥ १५ ॥ |मिति गम्यते ।। १९ । अवश्यायः हिमं । शाद्वल बाष्पैः ऊष्मभिः छन्नानि यथा कूपोदकेभ्यो निर्ग-| शष्पप्रचुरा भूमि । * नडशादाद्वलचू ?’ इति वलच् । च्छन्तो धूमाकारा बाष्पाः । अनेन रामसमागमान- | अनेन राक्षसाभिभवकृतमुनिजनरोदनं रामकृपाप्रवृ न्तरभाव्याश्रमसमृद्धिरुच्यते । बाष्पशब्देन रामकृ-|त्तिश्चोच्यते ।। २० । प्रतिसंहरते अतिदुःसहंशैत्यव पोंच्यते । यवेत्यादिनां तपःसमृद्धिः । नदद्भिरिति | दिति भावः । अनेनेन्द्रस्य राज्यभोगाभिलाषिणोपि वेद्घोषः ॥ १६ ॥ खर्जरपुष्पाकृतिभि: तद्वत्पिशङ्ग- | तद्भोगभीरुत्वं सूचितं ।। २१ ॥ समुपासीनाः जल श्रणैः। शिरोभिः कणिशैः । कनकप्रभाः परिपकनालप- |मिति शेषः । अनेन मुनीनां समाधिभङ्गो द्योत्यते । त्रवत्वात्कनकवर्णाः । अनेन वृद्धा अपि जटाभरित- | अप्रगल्भाः अधृष्टाः । आहवं युद्धं ।। २२ । अव शिरोभिस्त्वां प्रणमन्तीति द्योतितं ।। १७ । हेिमनी- | इंयायः हिमसलिलं स एव तमः तेन नद्वाः बद्धाः । हारैः शीतलनीहारैः संवृताः तैः । अनेन बहुकालं | अनेन निश्चलत्वं लक्ष्यते । हिमछिन्ना हि लता निश्च समूागतोपिराक्षसप्रभाभिभूततेजस्को मृदुरिव किमथै | लीभवन्ति । नीहारः अजलवर्षिमहाहिमं तदेव तम वर्तस इत्यर्थः सूच्यते ॥ १८ ॥ पूर्वाहे अग्राह्यवीर्यः | तेनावृताः । अनेन प्रच्छादनपटाच्छन्नत्वं व्यज्यते । अग्राह्यौष्ण्य: चन्द्रिकायमाणो वर्तत इत्यर्थः । ईषदर्थे | विपुष्पा इत्यनेन निमीलिताक्षत्वमुक्तं । अनेन वनवा वा नव्या । अनुदरा कन्येतिवत् । तदुक्तं * तत्सादृ- | सिनां दैन्यातिशय उक्तः । अत्रोत्प्रेक्षालंकार: ॥२३॥ इयमभावश्च तदन्यत्वं तदल्पता । अप्राशस्यं विरो- | रुतं शब्दः । हिमावालुकै: हिमसिक्तसिकतै धश्च नव्यर्थाः षट्र प्रकीर्तिताः ? इति । मध्याहे | अनेनापि ऋषिजनदैन्यमेव द्योत्यते ॥ ॥ २४ स्पर्शन सुखः सुखकरः । किंचित्संरक्तः किंचिदापा-|तुषार: हिमं । अगाग्रस्थमपि निर्मलशिलातलस्थमपि । ण्डुश्च । अनेनापि राक्षसाक्रमेष्यपराक्रमत्वमनुचित- | रसवत् विषवत् । “ रसो रागे विषे द्रव्ये श्रृङ्गारादौ ती० प्रातःकालेकूपोदकादिष्विव वनादप्यूष्मा प्रादुर्भवतीत्यनुभवएवप्रमाणं ॥ १६ ॥ ति० खर्जरपुष्पाकृतित्वं प्रलंबत्वेनपी तत्वेनच ॥ किंचिदालंबाः किंचिन्नम्रा ॥ १७ ॥ ति० नीहारः हिमातिशयरूपो वृक्षपर्वताद्यदर्शनसंपादनक्षम ॥ १८ ॥ ति० आग्राह्यवीयैः ईषद्भाह्यौष्ण्य ॥ स० अग्राह्यवीर्यः अग्राह्य हिमप्रसरात्खेनगृहीतुमशक्यंवीर्ययस्यसः ॥ १९ ॥ ति० नावगाहन्ति नावगाहन्ते ॥ २२ ॥ ति० अवश्यायतमोभ्यां नद्धा रात्रौ । नीहारतमसावृताः प्रत्यूषे ॥ २३ ॥ स० रुतविज्ञे असारसाः हिमाच्छादितत्वादितिभावः ॥ २४ ॥ ती० अगाधस्थमपि गंभीरस्थमपि । अगाग्रस्थमितिपाठे पर्वताग्रस्थमपीत्यर्थः । [ पा० ] १ ग. शष्पच्छन्नानि. २ क. ग. .-ट. दालंबाः. ३ झ. आप्राह्यवीर्यः. ४ क. ड—अ. संसक्तः. ५ ड च. छ. ज. अ. संस्पृशन्विमलं. घ. स्पृशंस्तुविमलं. ६ ख. चव. छ. ज. अ. अयर्थ. ७ घ. विहंगाः.८ क ख. घ. ड. ज ठ. नावगाहति. ९ ड. झ. ट. वालुकास्तीरैः. १० ग. यान्ति. ११ ग. न्च. दगारस्थमपि. छ. ज. अ. दगाधस्थमपि. क, ख दपात्रस्थमपि