सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । अष्टपञ्चाशः सर्गः ॥ ५८ ॥ [ आरण्यकाण्डम् ३ रामेण लक्ष्मणंप्रति सीतागुणानुवर्णनपूर्वकं तद्वियोगे स्वस्यदुर्जीवत्वोक्तया बहुधाशोचनं । १ ॥ तथा मारीचाक्रोशन श्रवणात्सीतया लक्ष्मणप्रेषणसंभावनापूर्वकं स्वकृतखरवधप्रतिचिकीर्षया राक्षसैः सीताहननसंभावना ॥ २ ॥ सै दृष्टा लक्ष्मणं दीनं शैन्ये दशरथात्मजः ॥ पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ १ ॥ प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ।। २ ।। राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः । क सा दुःखसहाया मे वैदेही तनुमध्यमा ।। ३ ।। यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् । क सा प्राणसहाया मे सीता सुरसुतोपमा ॥ ४ ॥ पतित्वमर्मराणां वा पृथिव्याश्चापि लक्ष्मण । तौ विना तपैनीयाभां नेच्छेयं जनकात्मजाम् ॥५॥ कचिज्जीवति वैदेही प्राणैः प्रियतरा मम ।। कचित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति ।। ६।। सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि ॥ कचित्सकामा सुखिता कैकेयी सा भविष्यति ॥७॥ संपुत्रराज्यां सिद्धार्था मृतपुत्रा तपस्विनी। उपस्थास्यति कौसल्या कचित्सौम्य न केकयीम् ॥ ८ ॥ यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः। सुंवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण।।९।। यदि मामाश्रमगतं वैदेही नाभिभाषत ॥ पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ १० ॥ ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ॥ त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥११॥ न्द्रराजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्या- | र्षवनवासः। मिथ्या असत्यं । न भविष्यतीति कचित् । ने आरण्यकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥५७॥ |चतुर्दशवर्षासमाप्तावेव सीतावियोगज्जं जीववियोगं किं प्राप्स्यामीत्यर्थः ।।६।। सीतानिमित्तं सीताविनाश अथ सीताप्राप्तिसंदेहकृतशोकप्रलापोऽष्टपञ्चाशे । निमित्तं । त्वयिगते अयोध्यामिति शेषः । सकामेत्य । ३शून्ये वने वैदेहीं विना आगतं वैदेहीं विसृज्यागतं । |नेन रामस्य हृदये कैकेयी स्खविनाशार्थमेव वनं प्रेषि लक्ष्मणं पयेष्पृच्छत पर्यपृच्छत् ।। १ । प्रश्रस्वरूप- | तवतीति सदा वर्तते । तदिदानीं * सुप्तप्रमत्तकुपिता माह-प्रस्थितमित्यादिना । दण्डकारण्यं प्रति प्रस्थि- |नां भावज्ञानं दृष्टं? इति न्यायेन व्यक्तीकृतं ।। ७ ।। तं ।। २ । दुःखसहाया समानदुःखेत्यर्थः ।। ३ ॥ | तपस्विनी शोच्या ।। ८ । वृत्ता परेता । सुवृत्ता सुरसुता सुरस्री ।। ४ । तपनीयं खर्ण । इच्छेयं | खाचारा ।।९।। प्रहसिता प्रहसितमुखी ।। १० । यदि इच्छामि ॥५॥ प्राणैः प्राणेभ्यः । प्रव्राजनं चतुर्दशव-| जीवति तदा ब्रूहि वद । वैदेही जीवतिवा नवा । न ति० शून्यं संतोषादिहीनचित्तं ॥ स० यादुःखसहाया कष्टकालेपिसहायभूता ॥ ३ ॥ ति० प्राणसहाया तांविनाअसहाया प्राणाः कथंस्थास्यन्तीतिभावः ॥ ४ ॥ शि० ममप्राणैः प्रियतरावैदेही कचिज्जीवति । मेप्रव्राजनं प्रव्राजनसंबन्धिव्रतं । नगरप्र वेशाभावादि मिथ्या असल्यंकचिन्नभविष्यति । एतेन यदिनगरमध्येएवसीताऽपहृत्यसंस्थापिता तर्हितदानयनं नगरप्रवेशमन्तरा कथंसंभवेदितिरामविचारस्सूचितः । तेनापहृतापिनगराद्वहिः संस्थापिताचेच्छोभनमितितदभिप्रायोव्यञ्जितः ॥ ६ ॥ शि० हेसौ मित्रे सीतानिमित्तं मयित्वयिच मृते राक्षसमृतत्वे । गते प्रापितेसति । सकामा राक्षसवधविषयकेच्छावतीकैकेयी सुखिताकचि द्रविष्यति । ॥ ७ । शि० सपुत्रराज्यांमद्विषयकातिप्रीतिपुत्रशोभासहितां । सिद्धार्था सिद्धोर्थः राक्षसवधरूपंप्रयोजनंयस्यास्तां कैकेयीं । मृतःराक्षसघातकः पुत्रोयस्यास्सा कौसल्या कचिदुपस्थास्यति प्रशंसिष्यति । ती० सौम्येन विनयेन ॥ ८ ॥ शि० आश्रमगतमां प्रहसितावैदेही यदिपुनर्नाभिभाषते नाभिभाषिध्यते राक्षसकृतपीडाजनितमूर्छादिनायदिकिंचिन्नवक्ष्यतीत्यर्थः । तर्हिविनशिष्यामि राक्षसान्विनाशयिष्यामि ॥ १ [ पा०] १ ग. दृष्ट्रातु. २ घ. दीनः. ३ ग. ड. झ. ट, शून्यै. ४ ड.झ. ट. ममराणांहि. क. च. छ. ज.ज. मराणांच ५ ग. ड.-ट, विनातां६ क. तपनीयाङ्गीं, ७ ङ. झ. ट. वीर. ८ ख. च. छ. अ. तांपुत्रराज्यसिद्धार्था. ९ च. छ सौम्येन. १० ख. ड. ट. प्रति. ११ झ. संवृत्ता. १२ झ. पुर ।