सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४७] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् येन:वित्रासिता लोकाः सदेवासुरपन्नगाः । अहं तु रावणो नाम सीते रक्षोगणेश्वरः ॥२५ । त्वां तु काञ्चनवणोभां दृष्टा कोशेयवासिनीम् ।। रतिं खकेषु दारेषु नाधिगच्छाम्यनिन्दिते ।।२६ ।। बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः सर्वासामेव भद्रं ते ममाग्रमहिषी भष ।। २७ लङ्का नाम समुद्रस्य मध्ये मम महापुरी । सागरेण परिक्षिप्ता निविष्टा नैगमूर्धनि ।। २८ तत्र सीते मया सार्ध वनेषु विहरिष्यसि । न चैास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥ २९ ॥ पैश्च दास्यः सहस्राणि सर्वाभरणभूषिताः ॥ सीते परिचरिष्यन्ति भार्या भवसि मे यदि ।। ३० ।। रावणेनैवमुक्ता तु कुपिता जनकात्मजा । प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥ ३१ भवप्रकटनावसरप्रतीक्षकतया तीत्रं झटितीत्युक्तं | सागरेण सगरनिर्मितेनसमुद्रेण । परिक्षिप्ता परिवृता २४ । लोकाः जना २५ काश्चनव- | पुरी मम अस्तीति शेष २८ । वनेषु उद्यानेषु णाभां स्वर्णेवणेतुल्यकान्ति ॥ २६ उत्तमस्रीणा अरण्यवासस्यति चतुथ्यैर्थे षष्ठी २९ मिति निर्धारणे षष्ठी ।। २७ समुद्रमध्ये वर्तमाने | सहस्राणि दास्यस्त्वां परिचरिष्यन्ति ॥३०॥ तुशब्दे नगमूर्धनि गिरिश्रृङ्गप्रदेशे । निविष्टा कृतनिवेशा न पूर्वोक्तोपचारवचनविलक्षणवचना ३१ १५९ ४४ यद्वा अदभक्षणइत्यस्माद्रावेघनि आदाय भक्षणार्थमित्यर्थोबोध्य २२ ॥ ती० वस्तुतस्तु त्वां ममेष्टदेवतामित्यर्थः । दृष्टा खकेषुपुत्रमित्रादिषुदारेषुच । रतिं इच्छां । नाधिगच्छामि । ममेष्टदेवतायास्तवदर्शनेनानन्दपूर्णोऽहं सर्वतोनिवृत्तोऽस्मीतिभाव २६ ॥ ती० किंच पञ्चेति । पञ्चसहस्राणिदास्यो मेमयासार्ध परिचरिष्यन्ति यदि । तदेशेिषः । तदा भार्या भया कान्त्या आर्य पूज्याभवसीतिसंबन्धः ॥३०॥ ति० पञ्चेत्यादि । रक्षेोयोनौतमोगुणप्रधानायांजातत्वादुद्रिक्ततमसा भगवन्मायया ज्ञानां च्छादनादेवमुक्तिः । सर्वथा तत्वज्ञोरावणः कथमेवंवदेदितितु श्रद्धाजाड्यमेव । तत्वज्ञचिह्मानुपलंभात् । सीतारामौ सर्वेश्वरावि त्येतन्मात्रज्ञानं रावणस्यास्त्येवेत्यपि श्रद्धाजाड्यमेव । विष्णुपुराणादिविरोधात् । तथाचोक्तविष्णुपुराणे-मैत्रेयउवाच “हेिर ण्यकशिपुत्वेच रावणत्वेचविष्णुना । अवापनिहतो भोगानप्राप्यानमरैरपि । नलयतत्रतेनैव निहतस्सकथंपुनः । संप्राप्तशिशुपा लत्वे सायुज्यंशाश्वतेहरौ । एतदिच्छाम्यहंश्रोतुं सर्वधर्मभृतांवर। कौतूहलपरेणैतत्पृष्टोमे वक्तुमर्हसि । पराशरउवाच । दैत्येश्वर स्यतुवधायाखिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वोत्तर्नुगृहता नृसिंहरूपमाविष्कृतं । तत्र हिरण्यकशिपोर्विष्णुरयमित्येवं नमनस्यभूत् । निरतिशयपुण्यजातसंभूतमेतत्सखमिति रजउद्रेकप्रेरितैकाप्रमतिस्तद्भावनायोगात्ततोवाप्तवधहैतुकीं निरतिशयामे वाखिलत्रैलोक्याधिक्यधारिणीं दशाननखे भोगसंपदमवाप । नातस्तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबनीकृते मनसस्त त्रलयम् । दशाननखेप्यनङ्गपराधीनतया जानकीसमासक्तचेतसो दाशरथिरूपधारिणस्तदूपदर्शनमेवासीत् । नायमच्युतइत्यास क्तिर्विपद्यतोन्तःकरणस्य मानुषबुद्धिरेवकेवलमभूत्। विपद्यतइति विपद्यतोपीत्यर्थः । तस्मिन्नपिसमये विष्णुखबुद्धिनर्नासीदितिभावः । पुनरच्युतविनिपातनमात्रफलमखिलभूमण्डलश्लाध्यचेदिराजकुलजन्माव्याहृतंचैश्वर्य शिशुपालखेचावाप । तत्रत्वखिलान्येव भग वन्नामकारणान्यभवन् । नामानि गोविन्दादीनि । कारणानि गवांरक्षणादीनीत्यर्थ ततश्च तत्कारणकृतानांतेषामशेषाणामेवा च्युतनान्नामनवरतमनेकजन्मसंवर्धितविद्वेषानुबन्धिचित्तो विनिन्दन्संतर्जनादिघूचारणमकरोत्। तच्च रूपमुत्फुलपद्मदलामलाक्षमत्यु वलपीतवस्रधार्यनलकिरीटकेयूरकटकोपशोभितमुदारपीवरचतुर्बहु शङ्खचक्रगदाधरमतिप्रौढवैरानुभावादटनभोजनलानासन शयनादिष्ववस्थान्तरेषु नैवापययावस्यात्मचेतस ततस्तमेवानुक्रोशेपूचारयंस्तमेवहृदयेधारयन्नात्मवधाय भगवदस्रचक्रांशुमा लोज्ज्वलमक्षय्यतेजस्खरूपं परमब्रह्मखरूपमपगतरागद्वेषादिदोषं भगवन्तमद्राक्षीत् । तावच भगवचकेणाशुव्यापादित तत्स्मरणदग्धाखिलाधसंचयो भगवतैवान्तमुपनीतस्तस्मिन्नेवलयमुपययौ । एतत्तवाभिहितं । भगवानिहकीर्तितः संस्मृतश्च द्वेष नुबन्धेनाप्यखिलसुरासुरादिदुर्लभंफलंप्रयच्छति किमुतसम्यग्भक्तिमन्तं' इति । लोकदृष्टयातु सीतासादृश्यात्सीताबुच्चाहरणा चाततायित्वसंपत्या तद्वधेभगवतःप्रवृत्तिः । एवंचेदृशोक्तीनां यद्वातद्वाप्रकारेणान्यथायोजनप्रयासस्तीर्थादीनां विफलएव । विष्णु पुराणोक्तरीलयैवभागवतउत्तं एतेचांशकलाःपुंसः कृष्णस्तुभगवान्खयम्' इति । एतइत्यनेन पूर्वोक्ता अवतारा ऋष्यादयश्च परा मृश्यन्ते । पुंसः परमेश्वरस्य । तत्रावतारा अंशा यद्यपि कृष्णोप्यंशएव । तत्रैव दशमे “ तत्रांशेनावती र्णस्य विष्णोर्वीर्याणिशंस न उज्जहारात्मनःकेशौ सितकृष्णौमहामुने ।' इति विष्णुपुराणाद्युक्त द्वितीये [ पा० ] १ ड. झ. ट. मानुषाः. २ क.ख.ग. ड-ट, अहंस. ३ क. ग. ड. ट. गिरिमूर्धनि, ४ ङ ट. विचरिष्यसि ५ ड-ट, चास्यवनवासस्य. ६ ख. ग. दासीसहस्राणि (४८