सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ श्रीमद्वाल्मीकिरामायणम् । तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा ॥ तरुणादित्यवर्णेन नक्षत्रपथवर्चसा । बभूव राघवस्यापि मनो विस्मयमागतम् ॥ २२ ॥ एवं सीतावचः श्रुत्वा तं दृष्टा मृगमदुतम् ॥ लोभितस्तेन रूपेण सीतया च प्रचोदितः । उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ।। २३ ।। पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम् ।। रूपश्रेष्ठतया खेष मृगोऽद्य न भविष्यति ॥ २४ ॥ न वने नन्दनोद्देशे न चैत्ररथसंश्रये । कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ॥ २५ ॥ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः ॥ शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ २६ ॥ पश्यास्य जूम्भमाणस्य दीप्ताममिशिखोपमाम् ॥ जहां मुखानिस्सरन्तीं मेधादिव शतहदाम् ॥२७॥ मैसारगलुर्कमुखः शङ्खमुक्तानिभोदरः । कस्य नामाभिरूपोसौ न मनो लोभयेन्मृगः ।। २८ ।। कस्य रूपमिदं दृष्टा जाम्बूनदमयं प्रभो ॥ नानारतमयं दिव्यं न मनो विमयं व्रजेत् । [किं पुनमैथिली सीता बाला नारी न विस्मयेत् ।। २९ ।।] मांसहेतोरपि मृगान्विहारार्थे च धन्विनः ।। ऋन्ति लक्ष्मण राजानो मृगयायां महावने ।। ३० ।। धनानि व्यवसायेन विचीयन्ते महावने । धातवो विविधाश्चापि मणिरत्रसुवर्णिनः ।। ३१ ।। (४ [ आरण्यकाण्डम्'३ अनेन पूर्वमानयेति प्रमादादुक्तस्य क्षमापणं कृतं | मृगमाश्रित्य शोभन्ते ।॥ २६॥ शत-हृदां तटितं ।॥२७॥ ।। २१ । न केवलं स्रीपारवश्येन कृतवान् किंतु | मसारः इन्द्रनीलः । गलुर्कः चषकः । “गलर्कश्चानुत स्वविस्मयेनापीत्याह--तेनेत्यादिना । मणिप्रवरो नी-|र्षश्च तर्षकश्चषकः स्मृतः ? इति हलायुधः । इन्द्रनी लरत्रं । काञ्चनवर्णरोमत्वात् बालसूर्यवर्णत्वं । नक्षत्र-| लनिर्मितचषकाकारमुखसंपुट इत्यर्थः । अभिरूपःसु पथः छायापथः ततुल्यवर्चसा । नक्षत्रसदृशबिन्दूप-|न्द्रः ॥ २८ ॥ रूपं मृगं । जाम्बूनदमयेति स्वार्थे लक्षितत्वात् । अागात प्राप्त ॥ २२ । रूपेण मृगेण ।|मयद । नानारत्रमयं नानाबिन्दुप्रचुरं ।। २९ ।। रूपं मृगेपि विज्ञेयं ? इतिहलायुधः ॥ २३ ॥ |मांसहेतोरपि विनोदार्थे च राजानो मृगान् न्नन्ति । पश्येति । सीता स्पृहायुक्तेतिभावः । तत्र हेतुमाह-| किं पुनरेवंविधविचित्रवस्तुलाभहेतोरिति भावः रूपेति । मृगेषुश्रेष्ठतयावा एष मृगः एतादृशमृगः । | ।॥ ३० । एतन्मृगरूपं महद्धनं एतच वन एव संभ अद्य वनवासे न भविष्यति न सेत्स्यति । दुर्लभ इत्य-| वति तस्मादिदं व्यवसायेन स्वीकर्तव्यमित्यभिप्रायेणाह र्थः ।। २४ । नक्केवलमत्र देशान्तरेपि दुर्लभ इत्याह |–धनानीति। मणिरत्रं मणिश्रेष्ठं सुवर्ण च मणिरत्रसु --न वन इति । नन्दन इत्युद्दशः । कीर्तनं यस्य | वर्णे ते येषु स्त इति मणिरत्रसुवर्णिन । मणयः सुव तस्मिन् वने चैत्ररथसंश्रये चैत्ररथाख्ये वने च । न | णर्णानि च धातुषु भवन्तीति प्रसिद्धिः । तथाभूता भविष्यतीत्यनुषज्यते । पृथिव्यां कुतो हेतोर्भविष्यति | विविधा धातवश्च धनानि करिमस्तकमुक्ताप्रभृतीनि । ॥२५॥ प्रतिलोमाः तिर्यग्भूताः । अनुलोमाः अनुकू-| महावने व्यवसायेन मृगयोर्योगेन । राजभिः लाः । रोमराजयश्च मृगमाश्रित्य दृश्यन्ते । चित्राः | विचीयन्ते संगृह्यन्ते । यद्वा धनानि व्यवसायेन मृग आश्चर्यभूताः । कनकबिन्दवः कनकवर्णबिन्दवश्च । योद्योगेन । महावने विचीयन्ते । ननु कुतो वने स० काञ्चनरूपेणेतिपाठे काञ्चनात्मकेन काञ्चनमृगेणेतिवा । “ रूपंमृगेऽपिविज्ञेयं ?” इतिहलः । नक्षत्रपथवर्चसा नक्षत्र सदृशनानाबिन्दूपलक्षिततयातत्पथवचर्चा:तेन ॥ २२ । ति० सर्वश्रेष्ठरूपेणहेतुना अवैषमृगो नभविष्यति नजीविष्यति । जीवनमस्य नसंभावितमित्यर्थः । कतक० प्रायेणमृगखमत्र नसंभावितमित्यर्थः ॥ २४ ॥ ति० योस्यकश्चित्समोमृगः सः पृथिव्यामस्तीतिकुतस्संभाव्यतइत्यर्थः । स० चैत्ररथसंश्रये चैत्ररथाभिन्नस्संश्रयः नानावृक्षाश्रयः कुबेरवनं ॥ २५ ॥ [ पा०]*१ ड. झ. ट. इति. २ ड-ट. दृष्टाव. ख. दृष्टातु. ३ ग. बालार्काभमुखःशङ्खमुक्तामणिमनोहरः क. ख. घ मसारगल्वर्क . ४ ख. ग. नामानुरूपः. ड. छ-ट. नामानिरूप्योसैौ. घ. नामातिरूपोसौ. ५ क-ट. मयप्रभं. ६ ग. रम्यं ७ इदमर्ध क -ट. पुस्तकेषुनदृश्यते. ८ घ. चैव