सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस ॥ मयोक्तं तव चैतावत्संप्रत्यमितविक्रम ॥ १५ ॥ अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि ॥ शृणु तत्कर्म साहाय्ये यत्कार्य वचनान्मम ॥ १६ ॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ॥ आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥१७॥ प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥ १८ ॥ त्वां तु मायामृगं दृष्ट्रा काञ्चनं जातविसया । आनयैनमिति क्षिप्रै रामं वक्ष्यति मैथिली ।॥ १९॥ अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर ॥ हा सीते लैक्ष्मणेत्येवं रामवाक्यानुरूपकम् ।। २० ।। तच्छूत्वा रामपदवीं सीतया च प्रचोदितः ॥ अनुगच्छति संभ्रान्तः सौमित्रिरपि सौहृदात् ॥२१॥ अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।। औनयिष्यामि वैदेहीं सहस्राक्षः शचीमिवा॥२२॥ एवं कृत्वा त्विदं कार्य यथेष्टं गच्छ राक्षस ।। राज्यस्यार्ध प्रयच्छामि मारीच तव सुव्रत ॥ २३ ॥ गच्छ सौम्य शिवं मार्ग कार्यस्यास्य विवृद्धये ॥ अहं त्वाऽनुगमिष्यामि सरथो दण्डकावनम् ॥ २४ ॥ प्राप्य सीतामयुद्धेन वञ्चयित्वा तु रौघवम् ॥ लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥२५ ।। नै चेत्करोषि मारीच हन्मि त्वामहमद्य वै । एतत्कार्यमवश्यं मे बलादपि करिष्यसि । रैज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते ।। २६ ।। आसाद्य तं जीवितसंशयस्ते मृत्युर्धवो ह्यद्य मया विरुध्य ।। एतद्यथावत्प्रतिगृह्य बुद्धया येदत्र पथ्यं कुरु तत्तथा त्वम् ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चत्वारिंशः सर्गः ।। ४० ॥ अज्ञानं । दौरात्म्यात् दौर्जन्यात् ॥ १४ ॥ तर्हि कथं | तत्कार्य कारयिष्यामीत्यर्थः । विपक्षे बाधकमाह मया वक्तव्यमित्यत्राह-गुणेति । गुणदोषौ आत्मनि । | राज्ञ इति ॥ २६ । कार्यकरणाकरणयोर्गुणदोषौ द् क्षेमं च न पृच्छामि किंतु संप्रति मया तव तुभ्यं म-| -आसाद्येति । तं रामं । मृगरूपेण र्शयतिअासाद्य योक्तमेतावत् ॥ १५ । किंतदित्यत्राह-अस्मिन्निति । |प्राप्य । जीवितस्य संशयः दैवाज्जीवितं लभ्येतापि । कृत्ये साहाय्ये करणीये यत्कार्यं कार्ये श्रुण्विति तद्वः |मद्विरोधेतु चनं तद्विषयवचनं श्रृणु ॥ १६ ॥ प्रमुखे अग्रे ॥१७ जीवितहानिरेव स्यात् । प्रतिगृह्य निश्चित्य ।। १८ । किं तस्य प्रयोजनं तत्राह-त्वामिति ॥१९ ॥ अत्र कार्यद्वये । यत्ते पथ्यं तत्कुरु अनुरूपकं स्वार्थे कप्रत्ययः ॥२०॥ पदवीं मार्ग ।॥२१ ॥ | अवश्यं हननमित्यर्थः ।। २७ । इति श्रीगोविन्दराज यथासुखं यत्रैविना ॥ २२-२३ । मार्ग मृगसंब-|विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर न्धिरूपं । शिवं मनोहरं । गच्छ प्रामुहि।॥२४-२५॥ |ण्यकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥ बलादपि करिष्यसि अनिच्छतापि त्वया सर्वथाऽहमे [मयोक्तमपिचैतावत्त्वां पा० 1 १ क. ग. ड-ट, . २ क. ग. च. छ. अ. तद्रवान्कृत्ये. ड. झ. ट. सभवान्कृत्ये. ३ क ग. ड-ट. मर्हति. ४ ग. वचनंमम. ५‘क. ख. च. छ. ज. अ. त्वां.ि ६ क. जानकी. ७ घ-ट. अपक्रान्तेच. ८ क. च छ. ज. अ. गत्वाभ्युदाहर. ९ च. छ. ज. अ, लक्ष्मणइति. १० च. छ. ज. अ. प्रतिचोदित ११ क. . च. झ. ल. ट आहरिष्यामि. १२ क. ख. ग. ड. झ. ट. प्रदास्यामि. १३ ख. च. छ. ज. अ . चानु. १४ च. छ. उ. अ. राववौ. १५ ड झ. ट. नोचेत्. १६ ड. झ. ट. राज्ञोविप्रति . १७ ङ. झ. ट. त्परिगण्य. ग, प्रतिगम्य. क. ध. छ. ज. म. त्परिगृह्य १८ ख. यद्रोचतेतत्कुरुमाचिरेण