सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ श्रीमद्वाल्मीकिरामायणम् । न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि । अयं तस्य वधोपायस्तं ममैकमनाः शृणु ॥ २८ ॥ भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा । श्यामा सैमविभक्ताङ्गी स्त्रीरतं रत्रभूषिता ।। २९ ॥ नैव देवी न गन्धर्वी नाऽप्सरा नाँऽपि दानवी। तुल्या सीमन्तिनी तस्या मनुषीषु कुतो भवेत् ॥३०॥ तैस्यापहर भाय त्वं प्रैमथ्य तु महावने ।। सीतया रंहितः कामी रामो हास्यति जीवितम् ।। ३१ ।। अरोचयत तद्वाक्यं रावणो राक्षसाधिपः । चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ।। ३२ ।। बाढं काल्यं गमिष्यामि ह्येकः सारथिना सह ॥ आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ॥३३॥ [ आरण्यकाण्डम् ३ मम मत्तः । एकमनाः सावधान ॥२८ ॥ *श्यामा | एकवचनान्तोप्यस्ति । सीमन्तिनी स्री ।। ३० । म यौवनमध्यस्था” इत्युत्पलः । समं यथा तथा विभक्तानि हावने प्रमथ्य विलोड्य । येनकेनाप्युपायेन रामं नेत्रकर्णाद्यङ्गानि यस्याः सा तथोक्ता । स्त्रीरत्रं स्त्रीश्रेष्ठा अस्तीति शेषः ॥ २९ ॥ देवी देवस्री । “पुंयोगादा-| वञ्चयेत्यर्थः ।। ३१ । चिन्तयित्वा रामोच्चाटनोपायः ख्यायां’ इति ङीष् । एवमुत्तरत्रापि । अप्सरःशब्द | मिति शेषः ।। ३२ । बाढमित्यङ्गीकारे । काल्यं ४ कथंजेतुमशक्यइत्यत्राह-स्वर्ग:पापजनैरिवेति ॥ २७ ॥ तनि० इन्द्रजिता निर्जिता इन्द्रादयोस्मत्सहायाभविष्यन्तीत्याशां वारयति--नतमिति । देवासुरैरितिबहुवचनेन सर्वदेवासुरग्रहणे पुनस्सर्वशब्दो भूतभविष्यद्वर्तमानकालिकेन्द्रजात्यादिसमुदाय वाचकः । अहंमन्ये राक्षसजातित्वेपि सुकृतपरिपाकवशेन श्रीराममहत्त्वविषयंज्ञानमुत्पन्न । तवतु “ आसुरींयोनिमापन्ना मूढा जन्मनिजन्मनि ?' इतिशास्ररीत्या दुष्कर्मवशेनोत्पन्नमिति । इदंचाकंपनस्यपरत्वज्ञानं सनत्कुमारादिप्रोक्ततिहासश्रवणादिनावा माल्यवत्प्रभृतिभिरुक्तसुमालिमालिवधादिवृत्तान्तादिनावा विश्वरूपादिदर्शनवचतुर्दशसहस्रराक्षसयुद्धे प्रतिराक्षसं रामविग्रहाभेदा दिप्रतिपत्त्यावा संजातमितिवा अकंपनापदेशेन ऋषिरेवपरखख्यापनंकृतवानितिवा न कोपिविरोधः । स० समुद्रमथनकाले स ख्यस्यापिदर्शनेन विरोधस्य शाश्वतिकखाभावाद्देवासुरैरितिसाधु ॥ २८ ॥ स० उत्तमेति सामान्यतःप्रतिज्ञा । शिष्टं तद्विवरणं ॥ शि० उत्तमा उद्भतःतमः आकाङ्का यस्याः रामातिरिक्तसर्वाकाङ्कारहिता ॥ ती० अरोचयततद्वाक्यमित्यस्य वास्त वार्थतु-चिन्तयित्वा अकम्पनाद्रामवृत्तान्तश्रवणानन्तरंचिन्तयित्वा त्रेतायुगे श्रीरामोऽवतरिष्यतीति सनत्कुमारवाक्यंस्मृत्वेत्यर्थः। श्रीरामहस्ताद्वधेच्छूरावणः तद्वाक्यं तस्याकम्पनस्यवाक्यं सीतामाहरेत्येवंरूपंवचनं । अरोचयत अनुकूलत्वेनाङ्गीचकारेतिसंबन्धः। अस्मिन्नर्थे उत्तररामायणोक्ता सनत्कुमाररावणसंबन्धिनी अगस्त्यरामसंवादरूपा कथाऽनुसंधेया । तथाहि रामंप्रत्यगस्त्यवचनं अथापरां कथां दिव्यां श्रृणु राजन्पुरातनीम् । यदर्थ राम वैदेही रावणेनहृतापुरा । पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् । सनत्कुमारमासीनं रावणो वाक्यमब्रवीत् । दैत्यदानवरक्षांसि ये हतास्समरेऽरयः । कां गतिं प्रतिपद्यन्ते केन ते हरिणा हताः । सनत्कुमारः । ये हताश्चक्रधरेण राजंस्त्रैलोक्यनाथेन जनार्दनेन । ते गतास्तन्निलयं नरेन्द्राः क्रोधोपि देवस्य वरण तुल्यः । श्रुत्वा ततस्तद्ववनं निशाचरस्सनत्कुमारस्य मुखाद्विनिर्गतम्। तदा प्रहृष्टस्स बभूव विस्मितः कथंनु यास्यामि हरिं महाहवे । मुनिः मनसश्चेप्सितं यत्तद्भविष्यति तदाहवे । सुखीभव महाबाहो किंचित्कालं प्रतीक्षय । अथवा राक्षसेन्द्र खं यदीदं प्रष्टुमिच्छसि । कथयिष्यामि ते सर्वे श्रूयतां यदि रोचते । कृतेयुगे व्यतीते वै मुखे त्रेतायुगस्य तु । हितार्थ देवमत्यनां भविता नृपरिग्रहः । इक्ष्वाकूणां च यो राजा भाव्यो दशरथो भुवि । तस्य सूनुर्महातेजा रामो नाम भविष्यति । एवं श्रुत्वा महाबाहू राक्षसेन्द्रः प्रता पवान् । खया सह विरोधेच्छुश्चिन्तयामास राघव । सनत्कुमारात्तद्वाक्यं चिन्तयानो मुहुर्मुहुः । रावणो मुमुदे मोहाद्युद्धार्थी विचचार ह । एतदर्थे महाबाहो रावणेन दुरात्मना । सुता जनकराजस्य हृता राम महामते । लङ्कामानीय यत्तेन मातेव परि रक्षिता । ” इत्यादि । अतएव रावणस्य सीतारामभृत्यत्वेन तावुद्दिश्य तेनवक्ष्यमाणानि बाह्यदृष्टयादुर्भाषणवत्प्रतीयमानान्यपि वाक्यानि वस्तुतस्तुतिपराण्येव । तथा तत्रतत्रव्याख्यास्यामः ॥ ३२ ॥ ति० उत्तमस्रीलाभोभविष्यतीति हृष्टइत्यर्थउवितः । श्रु तस्यापितस्यार्थस्य तामसत्वेनविस्मरणात् । तेपद्येतु नयथाश्रुतार्थे । वक्ष्यमाणविष्णुपुराणविरोधात् । किंतु श्रीरामस्य खमृत्योरव तारंश्रुखा खयासहमृत्युविघातकविरोधेच्छुस्तांहृतवान् । तद्वियोगे तवमरणमित्याशयेनेतियोरर्थइत्यन्ये । वस्तुतस्त्वेतेषांश्लोकानां तद्वतांसर्गाणांच प्रक्षिप्तत्वान्नते प्रमाणभूताः । अतएव तेसर्गा:कतकादिभिस्तीर्थेनच नव्याख्याताः । एतेन “ एतदर्थमहाबाहो रावणेनदुरात्मना । विज्ञायापहृतासीता त्वत्तोमरणकाङ्कया ' इति तत्रपाठोदृश्यते तत्रचलखदुक्तार्थासंभवइत्यपास्तं ॥ कल्यं प्रातः । [ पा०] १ क. ड -ट. स्तन्ममैक. २ च. छ. ज. अ. सर्वविभक्ताङ्गी. ३ ड. झ. ट. नचपन्नगी. ग. नापिपन्नगी. ४ डः झ. ट. मानुषीतु. ५ ग. तस्याहरख. ६ च. छ. ज. तां ८ ख. ध. सतया. ९ ड. झ. ट रहितोरामोनचैवहिभविष्यति. १० क. लोकरावणः. ख. कालचोदितः. ११ ड. झ. ट, आनेष्यामिच. ग. आनेष्यामितु