सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ ततोस्य सशरं चापं मुष्टिदेशे महात्मनः ।। खरश्चिच्छेद रामस्य दर्शयन्पणिलाघवम् ॥ १५ ॥ स पुनस्त्वपरान्सप्त शरानादाय वैर्मणि । निजघान खरः कुंद्धः शक्राशनिसमप्रभान् ।। १६ ।। तैतस्तत्प्रहतं बाणैः खरमुतैः सुंपर्वभिः ॥ पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ १७ ॥ ततः शरसहस्त्रेण रममप्रतिमौजसम् ॥ अँदैयित्वा महानादं ननाद समरे खरः ।। १८ ।। स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । रराज समरे रामो विधूमोन्निरिव ज्वलन् ॥ १९ ॥ ततो गम्भीरनिीदं रामः शत्रुनिबर्हणः । चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ २० ॥ सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा । वरं तद्धनुरुद्यम्य खरं समभिधावत ।। २१ ।। ततः कनकपुंखैस्तु शरैः सन्नतपर्वभिः ।। *बिभेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥ २२ ॥ सं दर्शनीयो बहुधा "विकीर्णः काञ्चनध्वजः जगाम धरणीं सूर्यो देवतानामिवाज्ञया ।। २३ ।। तं चतुर्भिः खरः कुद्धो रौमं गात्रेषु मार्गणैः ॥ विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥२४॥ स रामो बहुभिर्वाणैः खरकार्मुकनिःसृतैः । विद्धो रुधिरसिंक्ताङ्गो बभूव रुषितो भृशम् ।। २५ ।। स धनुर्धन्विनां श्रेष्ठः प्रैगृह्य परमाहवे । मुमोच परमेष्वासः षट् छरानभिलक्षितान् ।। २६ ।। शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् । त्रिभिश्चन्द्रौर्धवत्रैश्च वक्षस्यभिजैघान ह ॥ २७ ॥ इत्यनेन अमृत्वा अनिवृत्तिरुच्यते ।। १४ ॥ मुष्टिदेशे |रनिह्नदं गम्भीरध्वनिकं । धनुः रिपोरन्ताय नाशाय । मुष्टिबन्धनसमीपदेशे । महात्मन इत्यनेन मुष्टिदेशे |चकारेत्यन्वयः ॥२०॥ यत्तदिति प्रसिद्धयतिशयवाची। पततो बाणस्य परिहरणसामथ्यै व्यज्यते । लाघवं | महार्षिणा अगस्त्येन । अतिसृष्टं दत्तं । समभिधावत शैध्यंचिच्छेदरामस्यकिंचिच्छान्तत्वेनानवधानादिति | समभ्यधावत ।। २१ । सन्नतपर्वभिः ऋजुपर्वभि भावः ॥ १५ । पाणिलाघवमेवाह-स पुनरित्या - | ।। २२ । दर्शनीयः रम्य । आज्ञया शापेन दिना । वर्मणि निजघान अवदारयति स्म । १६ ॥ |उत्प्रेक्षेयं ॥ २३ ॥ मातङ्गं गजं । तोमरैः गजशि आदित्यवर्चस इत्यनेन कवचपतनानन्तरं प्रकाशमान- | क्षाद्ण्डैः । चतुर्भिरित्यत्र वीप्सा बोध्या। बहुभिरित्यनु तेजोविशेष उच्यते ॥१७-१८ ॥ आर्पित: संयुक्त । वादात् ॥२४-२५ । परमंष्वासः उत्कृष्टशरासन । विधूम इत्यनेन ज्वालाधिक्यमुच्यते ।। १९ । गम्भी- | अभिलक्षितान् प्रसिद्धान् ॥२६॥ षण्णां विनियोगप्र अतएवानुपदं तेनरामधनुषश्छेदः । स० महासत्वमपि रामं परिश्रान्तंमेने । अनेन भ्रमस्सूच्यते। शि० पैौरुषे परमपुरुषत्वे पर्यवस्थितंरामं खर:परिश्रान्तंमेने । एतेन खरस्याज्ञानंसूचितं ॥ १२ ॥ शि० विच्छेद । एतेन तद्धनुषोऽदिव्यत्वंसूचितंयद्यपि । वस्तुततु चिच्छेदेत्यस्य द्विधाभवनानुकूलव्यापारंचकारेत्यर्थः । नहि व्यापारमात्रेण फलसिद्धिस्सार्वत्रिकीति अत्र फलसिद्धेरभावा चापस्यदिव्यत्वमक्षतमेव ॥१५॥शि० खरमुतैबाणैः प्रहतं ताडनाश्रयत्वेनेच्छविषयीभूतं । आदित्यवर्चसं तद्रामकवचं भूमौपपात ताडितखसंस्पर्शजनितरामखेदसंभावनया बाणसंबन्धात्पूर्वमेव रामशरीरान्निस्सृत्य खरप्रक्षिप्तबाणान्गृहीत्वा पृथिव्यामतिष्ठ दिल्यर्थः । ॥ शि० अगस्त्येनदत्तमित्यनेन मद्दत्तचापेनैव खरोहन्तव्य इत्यगस्त्यप्रार्थना सूचिता । तेनागस्त्यस्याप्यनेन कश्चिदपराधःकृतइति सूचितं । २१ ॥ स० देवतानां खोत्तमानां हरिब्रह्महराणां आज्ञया सूर्यः अस्तसमयेधरणींमिव ध्वजो जगामेत्यर्थः ॥ २३ ॥ शिा० बाणैर्विद्धस्ताडितः. रुधिरसिक्ताङ्गः निहतानेकराक्षसशरीरजनितशोणितोक्षितोरामः ॥ स० रुधि रसिक्ताङ्गः तद्वद्वभूवेत्यर्थः ॥ २५ ॥ स० अभिलक्षितान् ज्ञातसामथ्यन् ॥ २६ ॥ [पा० ] १ ड. झ. ट. न्हस्तलाघवं. २ क.-घ. च.-अ. मर्मणि. ३ क -घ. निचखान. ४ क .-ट. रणे. ५ क ग. समखनान. ६ ततस्तत्प्रहितं. ततःशरसहस्रणेत्यनयोः श्लोकयोः पैौर्वापर्य क. ख. ग. डः .–ट. पाठेषु दृश्यते. क ततस्तन्मृदितं. छ. ततस्तत्प्रहतैः. ७ ग. सपर्वभिः. ८ ड. झ. अ. ट, वर्चसं. ९ ख. रामंचापिमहौजसं अ१० ख. ग. घ च. छ. ज. अर्पयित्वा. ११ घ. विधूमान्निरिव. १२ च. ज. पुखैश्च. १३ ड ट, चिच्छेद. १४ ख. दर्शनीयोथ. १५ क ड.-ट. विच्छिन्नः काञ्चनो ध्वजः. १६ ख. खरश्चतुर्भिः कुद्धोथ. १७ ज. रामगात्रेषु. १८ ड. झ. ट. हृदि. १९ ख. च. छ ज. ल. दिग्धाङ्गो. २० ड. झ. ट. संगृह्य. २१ क. ग. घ. ड. छ. झ. अ. ट. बाह्वोरथार्पयतं. ख. बाह्वोस्समार्पयत्. २२ घ वक्रेस्तं, २३ घ. जघानच