पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः || पतिंमाचुक्रुशुश्चैव संवरं चापि चुक्रुशुः ॥ ६ ॥ स हि चान्तः पुरे घोरमार्तशब्दं महीपतिः ॥ पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने ॥ ७ ॥ . रामस्तु भृशमायस्तो निश्वसन्निव कुञ्जरः ॥ जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ ८ ॥ सोपश्यत्पुरुषं तंत्र वृद्धं परमपूजितम् || उपविष्टं गृहद्वारि तिष्ठतवापरान्बहून् ॥ ९ ॥ दृष्ट्वैव तु तदा रामं ते सर्वे सहसोत्थिताः ॥ जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥ १० ॥ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः || ब्राह्मणान्वेदसंपन्नान्वृद्धात्राज्ञाऽभिसत्कृतान्॥११॥ प्रणम्य रामस्तन्वृद्धांस्तृतीयायां ददर्श सः ॥ स्त्रियो वृद्धाश्च बालाच द्वाररक्षणतत्पराः ॥ १२ ॥ वर्धयित्वा ग्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ॥ न्यवेदयन्त त्वरिता राममातुः प्रियं तदा ॥ १३ ॥ कौसल्याऽपि तदा देवी रात्रि स्थित्वा समाहिता ॥ प्रभाते त्वंकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥१४॥ सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा || अग्निं जुहोति स तदा मन्त्रवत्कृतमङ्गला ॥ १५ ॥ प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ॥ ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ १६ ॥ देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम् ॥ १७ ॥ चरगतिभक्षणयोरितिधातुः ॥ ५ ॥ आचुक्रुशुः नि- स्वायत्तीकृतेन्द्रियः ||८|| पुरुषं द्वारपालाध्यक्षम् ॥ ९॥ न्दन्तिस्म । चुक्रुशुः रुरुदुः ।। ६ ।। व्यालीयत ल- जयेन विजयस्वेतिजयाशिषा ।। १०–१२ । वर्ध- ज्जादुःखभरेणशय्यायांविलीनोभूदित्यर्थः ॥७॥ भृश- यित्वा जयाशिषेतिशेषः ॥ १३ ॥ रात्रिं रात्रौ । मायस्त : " व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः ” " कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । स इत्युक्तगुणवत्तयाऽन्तःपुरार्तस्वनश्रवणेनातिशयेनसं- माहिता नियमयुक्ता ॥ १४ ॥ जुहोति हावयति । जातदुःखः । निश्वसन्निवकुञ्जर: परदुःखस्यापरिहा- | अतएवहावयन्तीमितिवक्ष्यति । ब्राह्मणैरितिशेषः र्यतांमत्वागुप्तदुःखःसन्कुञ्जरइवनिश्वसन्नित्यर्थः । वशी ॥१५-१६ ॥ देवकार्यनिमित्तमिति द्रव्यजातमि- वृत्तिः तस्मिन्लंभयंयस्यासावाजीवलःसोकंयथाभवतितथा । पूर्ववदुर्वरितं । अजीवः शवः तद्वल्लाकान्तिर्यस्यसोजीवलः । शवकान्ति- मानित्यर्थः । “आजीवोजीविकावार्ता" इत्यमरः । “कंशिरः कंसुखं" इतिरत्नमाला । “दीप्तौ ला लं भयेचप्रकीर्तित" इतिविश्वः ॥ ५ ॥ सत्य० महिष्यइवमहिष्यः । अतः “कृताभिषेकामहिषी" इत्यमरोक्तिर्नविरुणद्धि । यद्वा महिष्यः सर्वाअपितृपनार्यः “महिषीनृपयोषिति” इतिहेमचन्द्रः । यद्वा महिषी कैकेयी अस्तानिरस्तायाभिस्तामहिष्यस्ताः । आहितामयादित्वात्परनिपातः । यद्वा महिष्याकैकेय्याअस्ता:महिष्यस्ताः । विवत्साः विवासिततर्णकाः ॥ ६ ॥ ति० आयत्तइतिपाठे आयत्तः पराधीनोयःकुञ्ज - रः सयथा निश्वसिति तद्वदित्यर्थः । सत्य० सर्वदाहितेनसहितःवशीस्वतन्त्रः रामः । यइत्यध्याहारः | यः भृशमायस्तः निश्वसन्कुञ्जर- इव तेनभ्रात्रासहितः । एवमन्वयकरणएव “नचैवरामोत्रजगामविक्रियां” इतिपूर्वोक्तंवशीत्याद्यनुमानंचसंगच्छते ॥ ८ ॥ सत्य० उपवेशनेवृद्धत्वंशस्त्रपाणिभिःपरमपूजितवंचहेतुः ॥ ९ ॥ सत्य० जयेनजयशब्देन । अथवाहेइनजयेतितिङन्तंवा । शि० पुत्रहितैषिणी कौसल्या विष्णोः सूर्यस्य पूजामकरोत् । रामस्यसूर्यमण्डलमध्यस्थत्वेन स्वकुलमूलपुरुषत्वेनचातिस्नेहात्त- त्पूजायांप्रवृत्तिरितिसूचितम् ॥ १४ ॥ सत्य० जुहोतिस्मस्वयमेवाजुहोत् । ननुस्त्रीणां वेदाधिकाराभावात्कथंजुहोतीत्युक्तमितिचे- न | दशरथस्य वैवस्वतमनुत्वेन तत्पत्याः कौसल्याया मानवीत्वेनोत्तमस्त्रीत्वाद्वेदाधिकारसंभवात् । “आहुरप्युत्तम स्त्रीणामधिकारंतु वैदिके” इत्यादिस्मृतेः । तदुक्तंवामने । “भविष्यदन्तरेभूत्यामनुर्वैवस्वतोभवान् । तववंशेभवाम्यङ्गरामोदाशरथिस्स्वयम् । पुन र्दशरथोभूत्वात्वमेवासिपितामम | मद्दत्तपिण्डदानेनमुक्तिस्तेभविताध्रुवं” इति ॥ १५ ॥ शिरो० हावयन्तीं ब्राह्मणैरितिशेषः । एतदनुरोधेन पूर्वत्रजुहोतीत्यस्यहावयतीत्यर्थः । अत्रैवस्वार्थेणिज्वा | सत्य० नकेवलंस्वयंजुहोति अपितुब्राह्मणैरपीत्याह- [ पा० ] १ क. ङ. च. छ. झ ञ ट . माचुक्रुशुश्चापि. २ क. ङ. च. छ. झ. ज. सखनं. घ. ज. सुखरं. ३ घ. च. मायत्तो. ४ ङ. च. छ. झ ञ ट समुपस्थिताः ५ ग. घ. च. ज. जयेति छ. झ ञ ट. बालांचवृद्धांश्च ८ क. गृहंततः घ. गृहांस्त्रियः ९ ङ. छ. झ ११ ङ. च. छ. झ ञ ट प्रविश्यतु. ६ ग घ. स्तान्विप्रान्. ७ क. घ. ङ. च. ट त्वरितं. १० ङ. छ. झ. ट. चाकरोत्.