पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 सर्गः १८] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सन्निदेशे पितुस्तिष्ठ यथाऽनेन प्रतिश्रुतम् || त्वयाऽरण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ ३५ ॥ भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ॥ त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥ ३६॥ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः ॥ अभिषेकॅमिमं त्यक्त्वा जंटाजिनधरो वस ॥ ३७ ॥ भरतः कोसँलपुरे प्रशास्तु वसुधामिमाम् || नानारत्नसमाकीर्णा सवार्जिरथकुञ्जराम् ॥ ३८ ॥ ऐतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्तः || शोकैंसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥ ३९ ॥ एतत्कुरु नरेन्द्रस वचनं रघुनन्दन || सत्येन महता राम तारयस्व नरेश्वरम् ॥ ४० ॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् || प्रविव्यथे चापि महानुभावो रौंजा तु पुत्रव्यसनाभितप्तः ॥ ४१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशः सर्गः ॥ १८ ॥ ८७ सन्निदेशे नियमने ॥ ३५ ॥ यदेतदभिषेचनम् अ- | दिबाह्यविकारम् । प्रविव्यथेचापि रामविकारादर्शने- भिषेकसाधनं । त्वदर्थेविहितं तेनसर्वेणराज्ञाभरतोभि- नाप्यधिकं विव्यथइत्यर्थः ॥ ४१ ॥ इति श्रीगोविन्द- षिच्येतेतियोजना ॥ ३६-३८ ॥ एतेन वरद्वय राजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने प्रदाननिमित्तेन ॥ ३९–४० ॥ इवशब्देनअन्यान्य- अयोध्याकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८ ॥ पिपरुषाणिबहून्युक्तानीतिगम्यते । शोकं मुखवैवर्ण्या- ध्वनर्थावाग्भवेत्क्वचित्” इत्यादि । पूर्ववत्स्वभावानुगुण्यंचज्ञेयम् ॥ ३४॥ सत्य० सन्निदेशे आज्ञायां । कैकेय्याराजमर्यादयाद्वादशचतुर्वि- शत्यादिवर्षपर्यन्तमरण्यंप्रवेष्टव्य मितिवक्तव्येनववर्षाणिपञ्च चेतिचतुर्दशवर्षोक्तिस्तुरावणस्यायुषांचतुर्दशवर्षाणा मेवावशिष्टत्वात् । द्वा- दशेत्युक्तौतद्धननादिकमकृत्वैवागन्तव्यमितिभवति । अधिकोक्तौतुजोष॑वस्तव्यमितिभवति । अतश्चतुर्दशेतिदेवोवादयामासेतिज्ञात- व्यम् ॥३५॥ सत्य० अभिषेकशब्दस्य घञन्तत्वेपित द्विशेषणस्येदंशब्दस्यनपुंसकत्वमुपपद्यते । तद्विशेष्यपदार्थस्याभिषेचनस्यनपुंसक- त्वात् । यथोक्तं “संबन्धमनुवर्तिष्यते” इतिमहाभाष्यव्याख्यानावसरेकैयटेन " संबध्यतइतिसंबन्धं । कर्मणिघञ् । नपुंसकस्याभि- घेयत्वान्नपुंसक निर्देशइति । उपपादितंचैतन्निपुणतरं "यथार्थज्ञानजनकायथार्थायुक्तयः" इत्यनुव्याख्यानसुधाव्याकरणावसरे “ उच्यतेअनियतलिङ्गानांविशेषणपदानां विशेष्यपद लिङ्गत्व मे वेति न सर्वत्र नियमः । “अहमेवेदंसर्वोस्मि”। “अजानतामहिमानंतवेद" मित्यादौव्यभिचारात् । सर्वमहिमशब्दयोःपुंलिङ्गत्वेपितद्विशेषणयोरिदंशब्दयोर्नपुंसकत्वात् । किंतुक्कचिलिङ्गानामर्थधर्मत्वमितिपक्षे विशेष्यपदप्रतिपाद्यार्थलिङ्गत्वमस्ति" इत्यादिना । “नन्वेवं चेत्सर्वत्रातिप्रसङ्गइतिचेन । अभियुक्तप्रयोगेसतिनिमित्तानुसरणंनतुनिमि- समस्तीतिप्रयोगः” इत्यादिना तत्रैवयादुपत्येस्पष्टमुक्तेः । अभियुक्ताग्रेसरचभगवानूवाल्मीकिरिति । निरूपितवन्तश्चैवमेव "देवममीव. चातनं" इत्येतद्व्याख्यानभूतायाः "अमीबाहुःखतव्यावयति" इतिटीकायाःव्याख्यानावसरेव्याख्यातारः । यद्वाइदमित्यस्यारण्य - मित्यनेनान्वयः । इममितिपाठेतुनानुपपत्तिः ॥ ३७ ॥ शि० एतेन संभावितत्वद्वियोगजनितेन ॥ ३९ ॥ सत्य० तारयस्व “णिचश्च” इत्यात्मनेपदं | वनरोत्तम मितिपदच्छेदे यदिसत्यप्रतिज्ञत्वं पितरमात्मानं चेत्युभाभ्यांप्रतिज्ञातत्वावगमात् अत्रापिनिगम- नकाले स्वेन आत्मनासहितश्चासौनरेश्वरश्वेत्युत्तरपदलोपिसमा सेखनरोत्तम मितिवादोनुगुणोभवति । ततश्चस्वंनरोत्तमंचतारयेत्यर्थः । उत्तरश्लोकादिवेत्याकृष्यते । लोकःयेनसंक्लिष्टवदनःनिरीक्षितुंनशनोति सयमात्माधर्मराजः कुरुनरेन्द्रस्यधृतराष्ट्रस्यवचनमिव ॥४०॥ शि० परुषंपरुषत्वेनप्रतीयमानं । आचारक्किबन्तप्रकृतिककर्तृक्विन्तम् । ति० राजाच राजातु | सत्य० चशब्दइवार्थे । य थाराजापुत्रव्यसनाभितप्तः तथारामोनेतिव्यतिरेकदृष्टान्तः । अभितप्त इत्यनेनरामस्यपुत्रत्वं पुनामनरकत्रायकवंलोकसाधारणंनभ- वति अपितुसंसारतारकत्वमस्येतिलोकोत्तरसंतापंसूचयति ॥ ४१ ॥ इत्यष्टादशस्सर्गः ॥ १८ ॥ भरतश्चाभि. [ पा० ] १ ट. यदनेन. क – घ. च. ज. ञ यथातेन. २ ख त्वयारण्ये ३ क. ग. घ. ङ. च. छ. झ ञ. ट. ४ ख. त्वदर्थपिहितं. ५ ङ. झ. मिदं. ६ ङ. च. छ. झ. ज. जटाचीरघरोभव. ज. जटाजिनधरोभव. ख. जटाजिनधरोवसेः ७ ङ. छ. झ. ट. कोसलपतेः. च. ञ. कौसलपुरे. ८ ङ. छ. झ. संकुलाम्. ९ घ. तेनवांहि १० ङ. • छ. झ ञ शोकैः, ११ ङ. छ. तस्याःपरुषंवदन्त्याः १२ ख. कोपम्. १३ ङ. च. छ. झ, ञ. ट. राजाच. ख. ग. घ. ज. राजास.