पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५ सर्ग: १२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः ॥ स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ||३२|| क्षमा यमिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता | अप्यहिंसा च भूतानां तमृते का गतिर्मम ॥३३॥ मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः ॥ दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ ३४ ॥ पृथिव्यां सागरान्तायां यत्किंचिदधिगम्यते ॥ तत्सर्वं तव दास्यामि माँ च त्वां मन्युराविशेत् ॥ ३५॥ अञ्जलिं कुर्मिं कैकेयि पादौ चापि स्पृशामि ते ॥ शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥३६॥ इति दुःखाभिसंतप्तं विलपन्तमचेतनम् ॥ घूर्णमानं महाराजं शोकेन समभितम् ॥ ३७॥ पारं शोकार्णवस्याशु प्रार्थयन्तं पुनःपुनः || प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥ ३८ ॥ यदि दत्वा वरौ राजन्पुनः प्रत्यनुतप्यसे | धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ ३९ ॥ यदा समेता बहवस्त्वया राजर्षयः सह ॥ कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ॥ ४० ॥ यस्याः प्रसादे जीवामि या च मामभ्यपालयत् ॥ तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ॥४१॥ किल्विषत्वं नरेन्द्राणां करिष्यसि नराधिप ॥ यो दत्वा वरमद्यैव पुनरन्यानि भाषसे ॥ ४२ ॥ । शससे प्रार्थयसि ॥ ३१ ॥ लोकस्य जनमात्रस्य । कद्वयमेकान्वयं । अचेतनं मूच्छितं । घूर्णमानं इत- प्रियवादिनः प्रियवदनशीलस्य । किमुतास्माकमिति स्ततो विवर्तमानं । शोकेन भाविरामविरहस्मरणदु:- भावः । रामस्यसंबन्धि अप्रियं विवासनविषयंवाक्यं । खेन । समभिप्लुतं सम्यगभिव्याप्तं ॥ ३७ ॥ पारं नस्मरामि स्मर्तुमपिनशक्नोमीत्यर्थः । सः तदस्मर्ता अन्तं | रामाभिषेकमितियावत् । अथ कृत्स्नं । इतिव- अहं । त्वत्कृते परुषोक्तिमत्स्त्रीकृते । रामं सर्वस्यरमयि - चोविशेषणं “आरंभप्रश्नकात्सर्येष्वथोअथ" इत्य- तारं । प्रियं रमयितृत्वाभावेपिपुत्रत्वेन प्रियंप्रति । कथ- मरः । रौद्रा भयंकरविकारा। रामाभिषेकनिवर्तनविष- मप्रियंवक्ष्यामि ॥ ३२ ॥ यस्मिनक्षमादयोवर्तन्ते त- येयद्यद्वक्तव्यंतत्सर्वमुवाचेत्यर्थः ॥ ३८ ॥ धार्मिकत्वं मृतेममकागतिः कोवारक्षकः । तादृशंरक्षकंकथंत्य - स्वीयमितिशेषः ॥ ३९ ॥ कथयिष्यन्ति उपकारिण्याः क्ष्यामीतिभावः ॥ ३३ ॥ गतान्तस्य गतः प्राप्तः अ- कैकेय्याः किंप्रत्युपकृतमितिकदाचिद्धर्मप्रसङ्गेवक्ष्यन्ति। न्तश्चरमकालोयेन तस्य । वृद्धत्वेपिप्राप्तचरमकालस्येत्य- तत्र तदा । किंप्रतिवक्ष्यसि कीदृशंप्रत्युत्तरंदास्यसि र्थः । तपस्विनः शोचनीयावस्थस्य | लालप्यमानस्य ॥ ४० ॥ प्रसादेसतिजीवामि । प्रसादेनजीवा- पुनःपुनः कथनशीलस्य | मम मयीत्यर्थः । संबन्ध- मीत्यर्थः । प्रसादमेवाह - याचेति । याचमांमुच्छित- सामान्येषष्ठी ॥ ३४ ॥ सागरान्तायामित्यनेनकृत्स्ना- त्वदशायांरणादन्यत्रापनीयाभ्यपालयत् शिशिरोपचा- यामितिलभ्यते । यत्किंचिद्धनं अधिगम्यते लभ्यते । | रादिनाररक्षेत्यर्थः । तस्याः मया मिथ्या असत्यं । तत्सर्वं तव तुभ्यं । दास्यामि । मन्युः रामविषयक्रोधः कृतमितिवक्ष्यसि किमितिकाकु: । तस्माद्यप्रतिज्ञां ॥ ३५ ॥ कुर्मि करोमि । अञ्जलिपूर्वकंपादवन्दनंकरो- निर्वहेतिभावः ॥ ४१ ॥ किल्बिषत्वं अपयशो- मीत्यर्थः । शरणं रक्षितृ । अधर्म: प्रतिज्ञाभङ्गरूपः । रूपमालिन्यं । नरेन्द्राणामित्यनेनसजातीयेष्वेकेन कृ- रामाभिषेकमनुजानीहीत्यर्थः ॥ ३६ || इतीत्यादिलो- | तमपयशः सर्वानपिस्पृशति सर्वेराजानएवंविधाइति । ति० मृत्युं मन्मृत्युसंपादक निष्टाभिनिवेशं ॥ ३५ ॥ ति० प्रलपन्तं प्रार्थयन्तं ॥ ३७ ॥ ति० नरेन्द्राणां स्ववंश्यानां | किल्बिषं अयशोरूपमालिन्यंकरिष्यसि ॥ ४२ ॥ [ पा० ] १ ङ. छ. झ. ट. मस्तपस्याग: २ क. ख. ग. छ. ज. ज. अविहिंसाच. ३ ङ–ट माचलंमृत्युमाविश. ग. त्वांमृत्युराविशेत्. ख. वंमृत्युमाविशेः ४ ज. विलपन्तंपुनःपुनः ग. ज. विलपन्तमचेतसम्. ग. ङ. झ. ट. प्रलपन्तं पुनःपुनः ५ ख. राजर्षयस्तदा ६ क कथयिष्यसिधर्मज्ञ. ङ. च. छ. झ ञ ट कथयिष्यन्तिधर्मज्ञ. ७क. ख. ग. च. ज. म. ट. प्रयत्नेजीवामि. छ. प्रसादाज्जीवामि. ८ क. ख. ग, च. झ. ज. द. तस्याः कृता. ९ छ वक्ष्यते.