पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S सर्गः- १२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । यदा ते जननीतुल्यां वृत्ति वहति राघवः ॥ तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता ॥ ८ ॥ त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता ॥ अविज्ञानानृपसुता व्याली तीक्ष्णविषा यथा ॥ ९ ॥ जीवलोको यथा सर्वो रामस्याह गुणस्तवम् ॥ अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम् ॥ १० ॥ कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ॥ जीवितं वात्मनो रामं न त्वेव पितृवत्सलम् ॥ ११ ॥ परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् || अपश्यतस्तु मे रामं नेष्टा भवति चेतना ॥ १२ ॥ तिष्ठेल्लोको विना सूर्य सस्यं वा सलिलं विना ॥ न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥ १३ ॥ तदलं त्यज्यतामेष निश्रयः पापनिश्चये ॥ अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे ॥ १४ ॥ " किमिदं चिन्तितं पापे त्वया परमदारुणम् ॥ १५ ॥ अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये || अस्तु यत्तत्त्वया पूर्व व्याहृतं राघवं प्रति ।। १६ ।। स मे ज्येष्ठैः सुतः श्रीमान्धर्मज्येष्ठ इतीव मे || तत्त्वया प्रियवादिन्या सेवार्थ कथितं भवेत् ||१७|| तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम् ॥ आविष्टाऽसि गृहं शून्यं सा त्वं परवशं गता ॥ १८ ॥ इक्ष्वाकूणां कुले देवि संप्राप्तस्सुमहानयम् || अनयो नयसंपन्ने यत्र ते विकृता मतिः ॥ १९ ॥ न हि किंचिदयुक्तं वा विप्रियं वा पुरा मम || अकरोस्त्वं विशालाक्षि तेन न श्रद्दधौम्यहम् ॥ २० ॥ कृतमित्यन्वयः । पापं अपराधः ॥ ७ ॥ वृत्तिं शुश्रू- | सनोक्तिञ्चभरतेप्रीतिपरीक्षार्थमेवास्त्वित्यतआह—त- षां । तस्यैव तदैवेत्यपिबोध्यं । तस्यैव नतुतत्पुत्रादेः । दिति । तत् रामाभिषेचनं । श्रुत्वा शोकसंतप्तसती मां तदैव नतुकालान्तरे शुश्रूषाभावदशायां ॥ ८ ॥ नृप- भृशं अतिनिर्बन्धेन । संतापयसि । किंचपरवशं परबो- सुतेत्यत्रेतिकरणंद्रष्टव्यं ॥ ९ – १३ ॥ एषनिश्चयः धनवशंगतासती | शून्यंगृहं क्रोधागारं । आविष्टासि रामविवासननिश्चयः। अपितेचरणाविति । अपिःप्रश्ना- प्रविष्टासि । इदंसर्वपरीक्षार्थत्वे न संगच्छतइतिभावः । र्थकः । १४–१५ ।। अथेत्यादिश्लोकत्रयमेकान्वयं । शून्यैर्महैरितिपाठे शून्यैर्ग्रहैराविष्टा पिशाचादिभि अथेतिप्रश्ने । त्वंभरतस्यप्रियाप्रियेविषयेमांजिज्ञाससे राविष्टेत्यर्थः ॥ १६ - १८ । कुलानर्थकरंचेदंवच- ज्ञातुमिच्छसि । तदिदानीमपिभरतोभिषिच्यतामिति | नमित्याह – इक्ष्वाकूणामिति । नयसंपन्ने एताव- यत्तदस्तु तद्वक्तुमुचितं । त्वयापूर्वराघवंप्रति समेज्येष्ठः त्कालंनीतिशालिनि । यत्र इक्ष्वाकुकुलमध्ये। तेमति- सुतइत्यादिययाहृतं तत् प्रियवादिन्यात्वया सेवार्थ | रेवमिदानींविकृता विपरीताजाता । तत्रकुले । अयं मममनोरञ्जनार्थं रामकृतशुश्रूषार्थवा कथितंभवेत् । संनिहितः । सुमहाननयः अनर्थः। संप्राप्तः । सत्प्रकृते- रामविवासनोक्तिस्तेनविरुद्धेत्यर्थः । परीक्षार्थमपिभ- विपरीतबुद्धिः कुलस्यानर्थहेतुरितिभावः ॥ १९ ॥ पू- रतोऽभिषिच्यतामित्येववक्तुमुचितं । नतुरामोविवास्य- | र्वापरपर्यालोचनयात्वद्वचनंनश्रद्धेयंचेत्याह–नहीति । तामित्येतत् । पूर्वापरविरोधादितिभावः । रामविवा- | अयुक्तं अहितमितियावत् | नश्रद्दधामि इदमहितंवि- ति० चेतनं चैतन्यं । स० चेतनं स्मृतिः ॥ १२ ॥ ति० तेचरणाविति | धर्मशास्त्रतोत्यनुचितमपिकामशास्त्र मर्यादयात्वत्प्री- त्यर्थमितिशेषः ॥ १४ ॥ ति० एवंविधचिन्तापिमहाकुलजायांत्वयिअसंभावितैव । किंतर्हीदंतत्राह | शून्येगृहे भूतादिभिरा- विष्टासि । तत्तुल्येनवाक्येन खिदावेशितदुष्टमतिरसि । अतः परवशंगता एवंवदसीत्यर्थः । ती० शून्यं अगोचरं । महं भूत- पिशाचादिकं । भविष्टा प्राप्तासि । शून्येइतिपाठे शून्ये विवेकशून्ये ॥ १९ ॥ [ पा० ] १ क. ख. ग. च. ज झ ञ सदाते. २ ङ छ – ट. तस्यैवं. ३ ङ. छ. ज. झ. ट. विनाशाय ४ ङ. च. छ. झ. ट. स्वंनिवेशिता. क. ख. संप्रवेशिता. ञ संनिवेशिता. ५ ख. विषाइव ६ ङ. छ. झ. न. ट. जीवलोकोयदासर्वो. क. जीवलोकोसदासर्वो. ख. जीवलोकायदासर्वेरामस्याहुर्गुणस्तवम्. ७ झ ञ. ट. कौसल्यांचसुमित्रांच ८ ङ. छ. झ ञ. जीवितंचात्मना. च. ट. जीवितंचात्मनो. ९ क. ख. ग. ङ. च. छ. झ ञ ट नष्टंभवतिचेतनम् १० ङ. छ. झ. किमर्थ- चिन्तितं. ढ. किमर्थंचिन्त्य ते. ११ छ. झ ञ ट ज्येष्ठसुतः. १२ ख. ग. ङ. छ. झ ञ ट गृहेशून्ये. छ. महंशून्यं. १३ ङ. छ. झ. ट. श्रद्दधामिते.