पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् || अदन्त्यस्मिन्महारण्ये तान्निवारय राघव ॥ १९ ॥ एष पन्था महर्षीणां फलान्याहरतां वने ॥ अनेन तु वनं दुर्गे गैन्तुं राघव ते क्षमम् ॥ २० ॥ इँतीव तैः प्राञ्जलि भिस्त पस्त्रिभिर्द्विजैः कृतस्वस्त्ययनः परंतपः || वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्यइवाभ्रमण्डलम् ॥ २१ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां अयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥ इति अयोध्याकाण्डः समाप्तः ॥ २ ॥ पशूव्यालौ” इत्यमरः ।। १८–२० ।। तैः प्राञ्जलिभिः तपस्विभिः द्विजैः कृतस्वस्त्ययनः कृतमङ्गलाशीर्वचनः ॥ २१ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥ इत्थंश्रीमच्छ्ठारेश्चरणसरसिजद्वन्द्वनिर्द्वन्द्वसेवानि- र्धूताशेषमोहोनिरुपमधिषणः कौशिकानांकुलेन्दुः ॥ गोविन्दार्थोनिवार्यप्रतिकथकगजस्तो मपञ्चास्यरूपष्टी- कांपीताम्बराख्यांव्यतनुतविपुलां साधु साकेतकाण्डे ॥ १ ॥ अयोध्याकाण्डं समाप्तम् ॥ २ ॥ च । उभयार्थलाभस्त्वेकशेषवृत्त्या ॥ १८ ॥ ति० उच्छिष्टं अशुचिं । प्रमत्तं असावधानं ॥ १९ ॥ ति० क्षमं युक्तं ॥ २० ॥ ति० इतीरितः एवमुपदिष्टमार्गः । स० अभ्रमण्डलंआकाशमण्डलं मेघमण्डलंवा ॥ “ अभ्रंनभस्स्वर्गवलाहकेषु" इतियादवः ॥ २१ ॥ इत्येकोनविंशत्युत्तरशततमस्सर्गः ॥ ११९ ॥ [ पा० ] १ ङ. च. झ. ट. ब्रह्मचारिणं ख. वनचारिणं. २ क. गन्तुमर्हसिते. ३ ङ. छ. झ. ट. इतीरितः. - इदं अयोध्याकाण्डम् कुंभघोणस्थने टी. आर्. कृष्णाचार्येण टी. आर्. व्यासाचार्येण च मुंबय्यां निर्णयसागरमुद्रायत्रे मुद्रापितम् । शकाब्दाः १८३३ सन १९११.