श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति ॥ रामस्तु भरते पापं कुर्यादिति न संशयः ॥ ३२ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः ॥ एतद्धि रोचते मह्यं भृशं चापि हितं तव ॥ ३३ ॥ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति ॥ यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति ॥ ३४ ॥ सं ते सुखोचितो बालो रामस्य सहजो रिपुः ॥ समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे ॥३५॥ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम् || प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि ॥ ३६ ।। दर्पानिराकृता पूर्वे त्वया सौभाग्यवत्तया ॥ राममाता सपत्नी ते कथं वैरं न योतयेत् ॥ ३७ ॥ यँदा हि रामः पृथिवीमवाप्स्यति प्रभूतरत्नाकर शैलपत्तनाम् || तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि ॥ ३८ ॥ यदा हि रामः पृथिवीमवाप्स्यति ध्रुवं प्रनष्टो भरतो भविष्यति ॥ ॥ अतो हि संचिन्तय राज्यमात्मजे परस्य चैवाद्य विवासकारणम् ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टमः सर्गः ॥ ८ ॥ नवमः सर्गः ॥ ९ ॥ मन्थरादुर्बोधनदुर्विकृतहृदययाकैकेय्यातांप्रतिरामप्रवासनभरताभिषेचनप्रतिज्ञानपूर्वकंतदुपायकथनचोदना ॥ १ ॥ म- न्थरयाकैकेयींप्रतिदैवासुरसमरवृत्तवृत्तान्त निवेदनेनदशरथकृतवरद्वयदानप्रतिज्ञानस्मारणपूर्वकं तंप्रतिरामविवासनभरताभि- षेकयोर्वरत्वेनवरणचोदना ॥ २ ॥ कैकेय्यामन्थराप्रशंसनपूर्वकमाभरणाद्यवमोचनेनक्रोधागारेक्षितौशयनम् ॥ ३ ॥ एवमुक्ता तु कैकेयी कोपेनं॑ ज्वलितानना || दीर्घमुंष्णं विनिश्वस्य मन्थरामिदमब्रवीत् ॥ १॥ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम् || यौवराज्ये च भरतं क्षिप्रमेवाभिषेचये ॥ २ ॥ वात् श्रूयतइत्युक्ति: ॥ ३०-३१ ॥ पापं वधं द्यमानं अभिभूयमानं ॥ ३६॥ कथंवैरंनयातयेत् । ||३२|| तस्मात् पापकरणाद्धेतो: । राजगृहात् केक- वैरयातनवैरशुद्धिः तांत्वयिदास्यापादनेनसंपादयेदित्य- यराजगृहात् । नत्विहागत्यमर्तव्यमितिभावः ॥ ३३ ॥ धर्मात् पित्रनुमतिरूपात् । भरतोराज्यंयद्यवाप्स्यति एवंचेत्तेज्ञातिपक्षस्य बन्धुवर्गस्य श्रेयश्चापिभविष्यति ॥ ३४ ॥ राज्यानवाप्तावनिष्टमाह - सइति । सहजो रिपुः सपत्नीपुत्रत्वात्सहजः शत्रुः । तेसबालः भरतः रामस्यवशेकथंजीविष्यति ॥ ३५ ॥ एवमनर्थपौष्क- ल्येतत्परिहारायकर्तव्यमाह — अभिद्रुतमिति । प्रच्छा- र्थः ॥ ३७ ॥ उपसंहरति - यदेत्यादिना ॥ ३८ ॥ कैकेय्यनर्थमुक्त्वाभरतानर्थमाह—यदाहीति । राज्यं राज्यकारणं । परस्य रामस्य ॥ ३९ ॥ इति श्रीगोवि- न्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥ अथरामगुणज्ञापिकैकेयी कार्य परैर्देवै: क्षुब्धहृदया- सत्य० राजगृहात् तन्नामकान्मातुलपुरात् । यद्वा ल्यब्लोपनिमित्तापञ्चमी | अस्मद्गृहाशांपरित्यज्येत्यर्थः ॥ ३३ ॥ ति० नयापयेत् नकुर्यादित्यर्थः । नपातयेदितिपाठेप्ययमेवार्थः ॥ ३७ ॥ ति० परस्य रामस्य चातूलक्ष्मणसीतयोर्विवासकारणंच- चिन्तय ॥ ३९ ॥ इत्यष्टमस्सर्गः ॥ ८ ॥ शि० उष्ण॑यथास्यात्तथादीर्घविनिश्वस्य मन्थरयाकोपेनैव एवमुक्ता ज्वलितानना प्रकाशितवदना प्रसन्नवदनेत्यर्थः । कैकेयीम- न्थरामिदमब्रवीत् । सन्नवदनेयनेन रामोऽवश्यं देव कार्यार्थप्रवत्स्यतीति तदनुकूल मेवेयंप्रार्थयत इतिहेतुःसूचितः । तेनब्रह्मादि- [ पा० ] १ ज. छ. ट. कुर्यादेव. २ क. ख. च. ञ. द्राजगृहाद्देवि ३ क. ख. ङ. च. छ. ञ. गच्छतुराघवः. ४ ज. एतद्विरोचते. ख. एतञ्चरोचते. ५ ङ. झ. ट. यापयेत् क ख कारयेत् ६ ङ. यदाच. ७ छ. झ. मवाप्स्यते. ८ ङ. छ. झ. शैलसंयुताम्. ९ ख. ग. घ. च. ज. ज. ट. चाद्यैवविवास. छ. ज. चैवास्यविवास. १० क – ज. क्रोधेन. ११ क. च. जं. मुष्णंच निश्वस्य. १२ क ख. ङ च छ. झ ञ राज्येनभरतं. १३ ङ. छ. झ. क्षिप्रमद्याभिषेचये. ख. मद्याभिषेचयेत्.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४४
दिखावट