पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ॥ एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २२ ॥ एतच्चै वोभयं श्रुत्वा सम्यक्संपश्य राघव || उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २३ ॥ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ॥ शृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ॥ २४ ॥ न याचे पितरं राज्यं नानुशोसामि मातरम् || आर्य परमधर्मज्ञं नानुजानामि राघवम् ॥ २५ ॥ यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः || अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २६ ॥ धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः ॥ उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् ॥ २७ ॥ विक्रीत माहितं क्रीतं यत्पित्रा जीवता मम ॥ न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २८ ॥ उपधिर्न मया कार्यो वनवासे जुगुप्सितः ॥ युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २९ ॥ जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् || सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ ३० ॥ अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः ॥ भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥ ३१ ॥ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ॥ अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ ३२ ॥ इत्यापें श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकादशोत्तरशततमः सर्गः ॥१११ ॥ ॥ २१-२२ ॥ एतदुभयं मद्वचनंपौरजनवचनंचे- | तं आधिरूपेणन्यस्तं विक्रयस्त्यागः क्रयः स्वीकारइति त्यर्थः । सम्यक्संपश्य कर्तव्यंसम्यनिरूपय | मांच भेदः । मह्यंवनवासंदत्त्वातन्मूल्यत्वेनराज्यंस्वीकृतवा- स्पृशतथोदकमिति क्षत्रियाविहितप्रत्युपवेशनप्रायश्चि- न् । यद्वा ममवनवासमाधिंकृत्वातवराज्यंदापितवान् । तार्थमित्यर्थः । वसिष्ठादिषु विद्यमानेषुस्वस्पर्शनविधेः तल्लोपयितुंनशक्यमित्यर्थः ॥ २८ ॥ वारुणस्त्रानाश- इतः परमेवंविधंनक्रियतइतिशपथार्थंजलंस्पृष्ट्वामांस्पृ- क्तस्यमा त्रस्नानवदशक्तस्यैवप्रतिनिधिस्वीकारः । अहं शेत्यपिसिद्धम् ॥ २३–२४ ॥ नयाचे नयाचितवा | तुवनवासेशक्त: अतः प्रतिनिध्याचरणंनपितृऋणमो- न् । नानुशासामि नानुशास्मि एवंकुर्वितिनानुशिष्ट- चनमित्याह - उपधिरित्यादिना । उपधिः प्रतिनिधि- वानस्मीत्यर्थः । नानुजानामि वनवासायनानुज्ञातवा- रित्यर्थः मयाशक्तनजुगुप्स्ि हीनकल्पत्वेननि- नस्मीत्यर्थः ॥ २५ ॥ अवश्यंपितुर्वचः कर्तव्यंवनेवस्त- व्यंचेतियदिमन्यसे तर्हिअहमेवत्वत्प्रतिनिधित्वेनवने न्दितः । " हीनकल्पंनसेवेतपुरुषोविभवेसति " वत्स्यामि त्वंतुमत्प्रतिनिधित्वेनायोध्यांपालय एवंचस- इतिवचनादितिभावः । कैकेय्या युक्तंयोग्यमेवोक्तं । त्युभा॒भ्या॑सम्यक्पितृवचन॑कृतंभवेदितिभावः । इति पित्राचसुकृतंधर्म्यकृतं | आवाभ्यांतदकरणेहीनकल्प- भरतोवाक्यमब्रवीदित्यन्वयः ॥ २६ – २७ ॥ आहि- करणेचपितुरनृतंस्यात् ॥ २९ - ३१ ॥ पितरंअनेन तानामपिपौरादीनामन्तर्यामिविधया खानुकूलवचन प्रयोगःकारितः । भरतस्यतुयशःख्यापनायज्येष्ठेकनिष्ठेनैववर्तितव्यमितिलोकव्य- वहारबोधनायचतथाप्रवर्तन मितिप्रतिभांति ॥ २१ ॥ ति० वचनमब्रवीत् भरतंप्रतीतिशेषः । निबोध शृणु ॥ २२ ॥ ति० उभयं वद्विषयंमद्विषयंचवचनं । श्रुत्वां संपश्य विचारय | विचारेणापिकर्तव्यंनिश्चेतुमशक्तश्चेन्मयोक्तंकुर्वितिशेषः । स्वोक्तमेवाह- उत्तिष्ठेति । स० उदकंस्पृश आचाम ॥२३॥ ती० नाभिजानामीतिपाठे आर्यवनवासोयुक्तंनज्ञातवानस्मीत्यर्थः । शि० नानु- जानामि वनवासायानुमतिंनाकार्षं । एतेनखापराधाभावस्सूचितः ॥ २५ ॥ स० तस्य भ्रातुः ॥ २७ ॥ स० जीवता मत्पि त्रायद्वीतं मूल्यंगृहीत्वादत्तं । आहितं मर्यादाविशेषंकृत्वान्यस्तं । क्रीतं मूल्यंदत्वागृहीतं । तद्भरतेन मयावा लोपयितुं शक्यं आवयोरुभयोःपुत्रत्वाविशेषात् । तथाचेदंराज्यं कैकेय्यांचतुर्दशवर्षपर्यन्तंन्यस्तमितिभावः ॥ २८ ॥ ति० उक्तौ कृतौचयुक्तत्वं वररूपऋणापाकरणार्थवाद्बहूपकारकत्वाच्च । अतस्तयोर्वचनमवश्यमेवकार्यमितिशेषः । अयुक्तवादित्वेहिगुरोरप्यवलिप्तस्येत्यादि- न्यायविषयत्वस्यादितिभावः ॥ २९ ॥ स० क्षान्तं क्षमावन्तं । अत्रभरते सर्व राज्यपालनादिकं । कल्याणमिति संभावयामीति शेषः ॥३०॥ शि० वनात्पुनःप्रत्यागतोहं धर्मशीलेन भ्रात्रा भरतेनसह पृथिव्या उत्तमः पतिर्भविष्यामि ॥३१॥ विक्रीतमित्यादिनापौ- [ पा० ] १ ख. ततश्चैव. २ ट. सम्यक्त्वंपश्य. ३ ग. ज. महाभाग. ४ झ. शृणुयुस्तथा. ५ ख. ग. शंसामि, ६ डं. छ. झ. ट. एवंपरम. ७ घ. नाभिजानामि ८ क. ङ च छ. झ ञ ट वनेसमाः ९ ङ. च. छ. ञ, ट. सत्येन. १० न. शान्तं. ११ ख. पितरते. ज. पितरंतु.