पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सुख से कैस्तरुभिः पुष्पभारावलम्चिभिः ॥ संवृतं च रहस्यं च मत्तद्विजगणायुतम् ॥ २ ॥ तदृष्ट्वा सर्वभूतानां मनोदृष्टिहरं वनम् ॥ उवाच सीतां काकुत्स्थो वनदर्शनविस्मितः ॥ ३ ॥ वैदेहि रमते चक्षुस्तवासिन्गिरिकंदरे || परिश्रमविघातार्थ साधु तावदिहांस्यताम् ॥ ४ ॥ त्वदर्थमिह विन्यस्ता त्वियं लक्ष्णसमा शिला || यस्याः पार्श्वे तरुः पुष्पैः प्रविष्ट इव केसरैः ॥ ५ ॥ राघवेणैवमुक्ता सा सीता प्रकृतिदक्षिणा ॥ उवाच प्रणयस्निग्धमिदं लक्ष्णतरं वचः ॥ ६ ॥ अवश्यकार्य वचनं तव मे रघुनन्दन || बहुशो भ्रमितवाद्य तव चैवं मनोरथः ॥ ७ ॥ एवमुक्त्वा वरारोहा शिलां तामुपसर्प ह || सह भर्त्रानवद्याङ्गी रन्तुकामा मनस्विनी ॥ ८ ॥ तामेवं ब्रुवतीं सीतां रामो वचनमब्रवीत् ॥ रम्यं पश्यसि भूतार्थ वनं पुष्पितपादपम् ॥ ९ ॥ पश्य देवि गिरौ रम्ये रम्यपुष्पाङ्कितानिमान् ॥ गजदन्तक्षता वृक्षान्पश्य निर्यासवर्षिणः ॥ झिल्लिकाविरुतैर्दी रुदतीव समन्ततः ॥ १० ॥ पुत्रप्रियोऽसौ शकुनिः पुत्रपुत्रेति भाषते || मधुरां करुणां वाचं पुरेव जननी मम ॥ ११ ॥ विहगो भृङ्गराजोऽयं सालस्कन्धसमास्थितः ॥ संगीतमिव कुर्वाण : कोकिलेनावकूजति ॥ १२ ॥ अयं वा बालकः शङ्के कोकिलानां विहंगमः ॥ सुखबद्धमसंबद्धं तथा ह्येष प्रभाषते ॥ १३ ॥ एषा कुसुमिता नूनं पुष्पभारानता लता || दृश्यते मामिवात्यर्थं श्रमादेवि त्वमाश्रिता ॥ १४ ॥ एवमुक्ता प्रियस्याङ्के मैथिली प्रियभाषिणी ॥ भूयस्तरां त्वनिन्द्याङ्गी समारोहत भामिनी ॥ १५ ॥ अङ्के तु परिवर्तन्ती सीता सुरसुतोपमा || हर्षयामास रामस्य मनो मनसिजार्पितम् ॥ १६ ॥ स निघृण्याङ्गुलिं रामो धौते मनःशिलोच्चये || चकार तिलकं तस्या ललाटे रुचिरं तदा ॥ १७ ॥ बालार्कसमवर्णेन तेजसा गिरिधातुना || चकासे विनिविष्टेन ससंध्येव निशा सिता ॥ १८ ॥ केसरस्य च पुष्पाणि करेणामृद्य राघवः ॥ अलकं पूरयामास मैथिल्याः प्रीतमानसः ॥ १९ ॥ अभिरम्य तदा तस्यां शिलायां रघुनन्दनः ॥ अन्वीयमानो वैदेह्या देशमन्यं जगाम ह ॥ २० ॥ विचरन्ती तदा सीता ददर्श हरियूथपम् || बने बहुमृगाकीर्णे वित्रस्ता राममाश्लिषत् ॥ २१ ॥ रामस्तां परिरब्धाङ्गीं परिरभ्य महाभुजः ॥ सान्त्वयामास वामोरूमवभत्स्याथ वानरम् ॥ २२ ॥ मनःशिलायास्तिलकः सीतायाः सोऽथ वक्षसि ॥ समदृश्यत संक्रान्तो रामस्य विपुलौजसः ||२३|| प्रजहास तदा सीता गते वानरपुंगवे || दृष्ट्वा भर्तरि संक्रान्तमपाङ्गं समनःशिलम् ॥ २४ ॥ नातिदूरे त्वशोकानां प्रदीप्तमिव काननम् ॥ ददर्श पुष्पस्तब कैस्तर्जद्भिरिव वानरैः ॥ २५ ॥ वैदेही त्वब्रवीद्राममशोककुसुमार्थिनी ॥ वयं तदभिगच्छामो वनमिक्ष्वाकुनन्दन ॥ २६ ॥ तस्याः प्रिये स्थितो रामो देव्या दिव्यार्थरूपया || सहितस्तदशोकानां विशोकः प्रययौ वनम् ॥ २७॥ तदशोकवनं रामः सभार्यो व्यचरत्तदा || गिरिपुत्र्या पिनाकीव सह हैमवतं वनम् ॥ २८ ॥ तावन्योन्यमशोकस्य पुष्पैः पलवधारिभिः ॥ समलंचऋतुरुभौ कामिनौ नीललोहितौ ॥ २९ ॥ आबद्धवनमालौ तौ कृतापीडावतंसकौ || भार्यापती तावचलं शोभयांचऋतुर्भृशम् ॥ ३० ॥ एवं स विविधान्देशान्दर्शयित्वा प्रियां प्रियः || आजगामाश्रमपदं सुसंश्लिष्टमलङ्कृतम् ॥ ३१ ॥ प्रत्युज्जगाम तं भ्राता लक्ष्मणो गुरुवत्सलः || दर्शयन्विविधं धर्म सौमित्रिः सुकृतं तदा ॥ ३२ ॥ शुद्धबाणहतांस्तत्र मेध्यान्कृष्णमृगान्दश || राशीकृताञ्शुष्यमाणानन्यान्कांचन कांचन ॥ ३३ ॥ तदृष्ट्वा कर्म सौमित्रेता प्रीतोऽभवत्तदा || क्रियन्तां बलयश्चेति रामः सीतामथान्वशात् ॥ ३४ ॥ अग्र प्रदाय भूतेभ्यः सीताथ वरवर्णिनी || तयोरुपददद्धात्रोर्मधु मांसं च तद्भृशम् ॥ ३५ ॥