सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ भरतेन मन्त्रिमध्ये राम विवासनादिवृत्तान्तस्यैवस्वेनाज्ञाततयातन्त्रस्वानुमत्यभावनिवेदन पूर्वकं शत्रुघ्ने न स ह कौसल्यासमीपग- मनम् ॥ १ ॥ तथास्वस्मिन्दोषबुद्ध्यापरुषभाषिणीं कौसल्यांप्रतिनानाशपथकरण पूर्वकं रामप्रवासने स्वस्थानुमत्यभावदृढीकरणम् ॥ २ ॥ पश्चादृजुभावेनकौसल्ययाभरतस्यस्वाङ्कारोपणेनपरिष्वङ्ग पूर्वदुः खोदनम् ॥ ३ ॥ भरतेनसंशोकंविलापादिनार त्रियापनम् ॥ ४ ॥ दीर्घकालात्समुत्थाय संज्ञां लब्ध्वा च वीर्यवान् || नेत्राभ्यामश्रुपूर्णाभ्यां दीनामुद्रीक्ष्य मातरम् || सोमात्यमध्ये भरतो जननीमभ्यकुत्सयत् ॥ १ ॥ राज्यं न कामये जातु मन्त्रये नापि मातरम् || अभिषेकं न जानामि योऽभूद्राज्ञा समीक्षितः ॥ विप्रकृष्टे ह्यहं देशे शत्रुघ्नसहितोऽवसम् ॥ २ ॥ वनवासं न जानामि रामस्याहं महात्मनः ॥ विवासनं वा सौमित्रे: सीतायाश्च यथाऽभवत् ॥ ३ ॥ तथैव क्रोशतस्तस्य भरतस्य महात्मनः || कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ॥ ४ ॥ आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः ॥ तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥ ५ ॥ एवमुक्त्वा सुमित्रां सा विवर्णा मलिना कृशा || प्रतस्थे भरतो यत्र वेपमाना विचेतना ॥ ६ ॥ स तु रौंमानुजश्चापि शत्रुघ्नसहितस्तैदा || प्रतस्थे भरतो यंत्र कौसल्याया निवेशनम् ॥ ७॥ ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ ॥ पर्यवजेतां दुःखार्ती पतितां नष्टचेतनाम् ।। रुदन्तौ रुँदतीं दुःखात्समेत्यार्थी मनस्विनीम् ॥ ८ ॥ भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता ॥ ९ ॥ इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् || संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा ॥ १० ॥ प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम् ॥ कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी ॥ ११ ॥ २९३ दीनां प्रतिहतेच्छत्वात् । अमात्यमध्ये सुमत्रादि- | अज्ञानेहेतुमाह - विप्रकृष्टइति ॥ २ ॥ विवासनंवेत्य- मध्ये । अनेनभरतागमनं श्रुत्वा सुमत्राय: इतः पूर्व- त्र नजानामीत्यनुकर्षः ॥ ३–४ ॥ दीर्घदर्शिनमि- मागताइतिगम्यते । अभ्यकुत्सयत् मन्त्रिणांज्ञापनाय त्यनेन रामनिर्गमनंभरतोनसंमन्यत इतिकौसल्याहृदु- पुनरप्यनिन्ददित्यर्थः ॥ १ ॥ कैकेय्याकृत॑स्वेष्टनेतिम- यमितिसूचितम् ॥ ५ ॥ भरतोयत्रस्थितः तत्रप्रतस्थे त्रिभ्योज्ञापयति—राज्यमिति । जातु कदाचिदपि । ॥ ६ ॥ यत्रकौसल्यायानिवेशनंस्थितं तत्रप्रतस्थे एतत् नकामये नमन्त्रयेइत्युभयन्त्रापिसंबध्यते । मन्त्र- ॥ ७ ॥ आर्या ज्येष्ठांमातरं ॥ ८–९ ॥ कथंराज्यं- ये राज्यार्थमितिशेषः । मन्त्रणं विचारः । नजानामि प्राप्तंतत्राह – संप्राप्तमिति । क्रूरेण रामविवासनपूर्व- मदनुज्ञापूर्वकोयंनभवतीत्यर्थ: । योमदर्थोभिषेक: रा- केण | कर्मणा वराभ्यर्थनेन ॥ १० ॥ तत्र प्रस्थापने । ज्ञासमीक्षितञ्चिन्तितः अभूत् तमभिषेकंनजानामि । | कंगुणं अतिशयंपश्यति नकमपिगुणं | रामप्रस्थापनं ति० दीर्घदर्शिनं ऐहिकामुष्मिककर्मणःकालान्तरभाविफलज्ञानक्षमबुद्धिमन्तं ॥ ५ ॥ ति० चापिभ्यांसुमन्त्रादयः । येनमार्गेण निवेशनंप्राप्यतइतिशेषः ॥ ७ ॥ ति० समेत्य आलिङ्ग्य | तादृशसमयेप्यालिङ्गनकरणयोग्यं विशेषणं—मनखिनीति ॥ १० ॥ ति० त्वमपिमेपुत्रइतितवराज्यदाने नकिमपिमेदुःखं । अपितुचीरवसनंवनचारिणं चीरवसनत्खादिवनचारिवेषंमेपुत्रं रामं [ पा० ] १ ख. ङ. छ. झ ञ. ट. लब्धास. २ ग. द्वाजसमीक्षितः. च. ञ. द्राज्ञासमीहितः ३ ङ, छ. झ. ट. सहि- तोऽभवं. घ. सहितोवसन्. ४ क. च. ज. ज. वनवासंच. ख – ङ. छ. झ. ट. विवासनंच. ५ क. ख. ग. ङ. च. छ. झ. ञ. ट. सुमित्रांचेदं. ६ ज. क्रूरकर्माया:. घ. क्रूरमाज्ञाय. ७ ख. च. दीर्घदर्शनं. ८ ङ. छ. झ. ट. सुमित्रांतां. क. सुमित्रांवा. ९ ङ. छ. झ. ट. विवर्णवदना. च. च. विवर्णामलिनांबरा. १० ख. ङ. छ. झ ट राजात्मजश्चापि. ११ क. घ. स्ततः. १२ ङ. छ. झ ञ ट. येन. १३ क. ख. ङ. च. छ. झ ञ ट रुदतीदुःखात्समेत्यार्या मनस्विनी १४ घ. यशस्विनीं. १५ क. ख. ग. च. ञ, वनचारिणं. १६ च ञ. क्रूरदर्शना