पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः 8 ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चतुर्थः सर्गः ॥ ४ ॥ २३ दशरथेनरात्रौदुस्स्वमदर्शनादभिषेकविघ्नशङ्कयापुनाराममानाय्य तंप्रतिभरतागमनात्पूर्वमेवाभिषेककालनिवेदनपूर्वकंसी सयासहरात्रावुपवासादिव्रताचरणचोदना ॥ १ ॥ दशरथाभ्यनुज्ञातेनरामेणकौसल्यान्तःपुरंप्रविश्य तत्रपूर्वमागतयासीतयासहस्त्रावासगमनम् ॥ २ ॥ तदाशीर्वादस्वीकरणपूर्वकं गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ॥ मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः संनिश्चयम् ॥ १ ॥ श्व एव पुण्यों भविता वोऽभिषेच्यस्तु मे सुतः ॥ रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ २॥ अथान्तर्गृहमाविश्य राजा दशरथस्तदा ॥ सूतमामन्त्रयामास रामं पुनरिहानय ॥ ३ ॥ प्रेतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ || रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ ४ ॥ द्वास्स्थैरावेदितं तस्य रामायागमनं पुनः ॥ श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ॥ ५ ॥ प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ॥ यदागमनकृत्यं ते भूयस्तहुशेषतः ॥ ६ ॥ तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति ॥ श्रुत्वा प्रमाणमत्र त्वं गमनायेतेराय वा ॥ ७॥ इति सूतवचः श्रुत्वा रौंमोऽथ त्वरयाऽन्वितः ॥ प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ ८ ॥ तं " श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ॥ प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ ९ ॥ प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः ॥ ददर्श पितरं दूरात्मणिपत्य कृताञ्जलिः ॥ १० ॥ भ्रूणमन्तं समुत्थाप्य ”तं परिष्वज्य भूमिपः ॥ प्रदिश्य चास्सै रुचिरमोसनं पुनरब्रवीत् ॥ ११ ॥ राम वृद्धोमि दीर्घायुर्भुक्ता भोगा मँयेप्सिताः ॥ अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः ॥ १२ ॥ एवंपूर्वविचारितमपिराममाहूयोक्तमपिरामाभिषेकं | तान्यः कश्चिदुपप्लवोऽभूदितिशङ्का ।। ५ ।। भूयः पु पुनर्मन्त्रिभिःकालविशेषनिर्णयपूर्वकंराममाहूयसविशे- नः । तेयागमनकृत्यंतद्ब्रहीतिसंबन्धः ॥ ६॥ सूतः षमुपदिशतिचतुर्थे—गतेष्वित्यादिना । लोकद्वयमेका- श्रुत्वा रामवाक्यमितिशेषः । ततः रामवाक्यश्रवणा- न्वयं । अभिषेच्यइतिनिश्चयंचऋइतिसंबन्धः ॥ १-२॥ नन्तरं | राममुवाच । कथमिति । हेराम राजावांद्र- अन्तर्गृहमाविश्येत्यनेनमत्रिणामपिविसर्जन॑सिद्धं । ष्टुमिच्छति । अत्र दशरथसमीपे । गमनाय इतराय आमन्त्रयामास नियोजयामासेत्यर्थः । आनयेत्यत्रइ- | अगमनायच | त्वंप्रमाणं कर्ताशीघ्रं गच्छेत्यर्थः । इत- तिकरणंद्रष्टव्यं ॥ ३ ॥ आनयितुं आनेतुमित्यर्थः | इ- रशब्दस्यसर्वनामकार्याभावआर्षः ॥ ७–९॥ राघवः डार्षः ॥ ४ ॥ तस्य सुमन्त्रस्य | पुनरागमनं रामाय पितुर्भवनप्रविशन्नेवदूरात्प्रणिपत्यकृताञ्जलिः सन् । पि- द्वास्स्थैरावेदितं । रामश्चापि प्राप्तंआगतं । सुमत्रंश्रुत्वै- तरंददर्श । दूरात्प्रणिपातोविनयातिशयात् ॥ १० ॥ वशङ्कान्वितोभवत् । किमभिषेकविघ्नः कश्चिदासीत् - | समीपेपुनःप्रणमन्तमित्यर्थः ॥ ११ ॥ वृद्धोस्मीत्यनन्त- ति० पूर्वागमनापेक्षया पूर्वानयनापेक्षयाचपुनस्त्वम् ॥ ४ ॥ ति० शङ्कान्वितः राज्ञआपच्छकान्वितः ॥ ५ ॥ वि० इतराय अगमनायच | शि० इतराय इतायप्राप्तायजनाय रो दानंतस्मैच प्रमाणं निश्चयं कुर्वितिशेषः ॥ ७ ॥ वि० प्रियं खप्रियं ॥ ९ ॥ ति० दूरात्प्रणिपातः किंवदिष्यतीतिभीत्या ॥ १० ॥ ति० प्रदिश्य हस्तेनदर्शयित्वा । चाद्वचसाप्युक्त्वा | अस्मै रामाय चात्सु - मन्त्राय | रामंच रामंतु ॥ ११ ॥ [ पा० ] १ ख. ङ. सुनिश्चयं. घ. सुनिश्चितम् २ क. ग. ञ. श्वोऽभिषिच्येत ख. घ. श्वोऽभिषिश्चन्तु मेसुतम्. ३ ङ. छ. झ. ट. राजीवपत्राक्षो. ४ ङ. छ. झ. ट. युवराजइतिप्रभुः ५ क ग – छ. झ ञ ट प्रतिगृह्यतु. ६ ङ. छ. झ. ट. त्वरितो. ७ क. च. अ. गमनकार्यते. ८ क. ङ. च. छ. झ ञ ट प्रमाणंतत्रत्वं. ९ ङ. ञ ट येतरायच. ख. येतरायवै. १० ङ. छ. झ ट रामोपि. १२ क. च. प्रणमन्तंपरिष्वज्य समनुज्ञाप्यभूमिपः १३ ङ. झ. ट. तमुत्थाप्य १४ ख. ग. ङ. छ. झ ञ ट संपरिष्वज्य. १५ ङ. झट. प्रदिश्य चासनंचास्मै १६ ङ. छ. श. ट. रामंच पुनरब्रवीत्. १७ क. इ. च. छ, झ, ञ, द. यथेप्सिताः १८ क ख घ – छ. झ ञ ट यथेष्टंभूरिदक्षिणैः ११ घ. च. तच्छ्रुत्वा.