पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥ २६५ षट्षष्टितमः सर्गः ॥ ६६ ॥ कौसल्ययादशरथशिरसःस्वाङ्के समारोपणेन कैकेयीगर्हण पूर्वकंरामादीन्प्रतिपरिशोचनम् ॥ १ ॥ अमात्यादिभिर्दशरथमा- लिङ्गथविलपन्स्याः कौसल्यायाअपसारणेनराजशरीरस्वतैलगोण्यांनिक्षेपपूर्वकंसायाह्ने शोकात्स्वस्वभवनगमनम् ॥ २ ॥ तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् || हतप्रभमिवादित्यं स्वर्गस्यं प्रेक्ष्य पार्थिवम् ॥ १ ॥ कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता || उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत ॥ २ ॥ सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम् | त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि ॥ ३ ॥ विहाय मां गतो रामो भर्ता च स्वर्गतो मम ॥ विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ ४ ॥ भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः || इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः ॥ ५ ॥ न लुब्धो बुध्यते दोषान्कपाकमिव भक्षयन् || कुब्जानिमित्तं कैकेय्या राघवाणां कुलं हृतम् ॥ ६॥ अनियोगे नियुक्तेन राज्ञा रामं विवासितम् ॥ सभार्य जनकः श्रुत्वा परितप्स्यत्यहं यथा ॥ ७ ॥ स मामनाथां विधवां नाद्य जानाति धार्मिकः ॥ रामः कमलपत्राक्षो जीवनाशमितो गतः ॥ ८ ॥ विदेहराजस्य सुता तथा सीता तपस्विनी || दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति ॥ ९ ॥ बाहूगृहीत्वेत्यर्थः ॥ २९ ॥ इति श्रीगोविन्दराजविर- | चित् | कुब्जानिमित्तं कुब्जाहेतोः । “निमित्तपर्या- चिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयो- यप्रयोगेसर्वासांप्रायदर्शनम्” इतिहेतौप्रथमा ॥ ६ ॥ ध्याकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ॥ ६५ ॥ अनियोगे वरप्रदानसमये वरस्यविशेषनिर्देशाभावेस- ति नियुक्तेन इदानींभरताभिषेक रूपेरामविवासन- ॥१॥ राज्ञःशिरउपगृह्य अङ्केकृत्वेत्यर्थः ॥२–३॥ रूपेचकैकेय्यानियुक्तेन । अनुचितनियोगेनियुक्तेनेति विपथे दुर्भार्गे । सार्थहीना सहायभूतपथिकसंघर- वार्थः । जनकोवैदेहः ॥ ७ ॥ इतः अत्रदेशे । राज्ञा हितेत्यर्थः ॥ ४ ॥ त्यक्तधर्मणः त्यक्तधर्मायाः । “ ध- र्मादनिच्केवलात् ” इत्यनिच् ॥ ५ ॥ लुब्धः अर्थलि- जीवनाशंगतः प्राप्तः । सरामः अनाथां पुत्रविरहेण प्सुः । किम्पाकं कुत्सितपाकं । विषमिश्रपाकमित्यर्थः । रक्षकान्तररहितां । विधवांमांनजानाति ॥ ८ ॥ किम्पाकोनाम काकमर्दनामकविषफलविशेषइतिके - तपस्विनी शोचनीया । दुःखमितिक्रियाविशेषणं । स० अंबुहीनं अगस्त्यपानकाले ॥ १ ॥ ति० एकाग्रा पुत्रराज्यैकाग्रचित्ता ॥ २ ॥ ति० आत्मनोदैवतंभर्तारंपरित्यज्य व्यक्तधर्मणः त्यक्तःस्त्रीधर्मोययातादृश्याः कैकेय्याअन्यत्र अन्या । पुत्रराज्येकाजीवितुमिच्छेत् । परिष्वज्येतिपाठे भर्तारंपरिष्वज्य तेनसहभोगान्भुक्त्वा तंकालान्तरेपरित्यज्येतिशेषः ॥ ५ ॥ ति० किंपाकः निंबः । कतकस्तु किंपाकः विषभेदः तंकोपादिनाभक्षय- नात्महत्यादोषंनबुध्यते तद्वदित्यर्थइत्याह । तत्रलुब्धइतिनात्यन्तंसमञ्जसं । धनलोभादिनापरस्यविषभक्षणंकारयन्यथाहत्यादोषंनबु- ध्यतेइतिवक्कुमुचितं । यत्कैकेय्याराघवाणांकुलंहतं तत्कुब्जानिमित्तं प्रेरकतया । स० लुब्धः वंचितः किंपाकं धत्तूरादिफलं | भक्षयन्यथानबुध्यते तथाराजादोषान्नबुध्यत इति केचित् । किंपाकः पलाशंवा । तद्भक्षणेक्षणेनोदरशूलेतिभिषजः । “किंपाकोमहा- कालपलाशयोः” इतिमेदिनी ॥६॥ ति० जीवन्नेवनाशंअदर्शनंगतः । जीवनाशमितोगतइतिपाठे राज्ञोजीवनाशोयथाभवतितथा गतइत्यर्थः । शि० जीवन्नाशं जीवतां सफलजन्मनामृषीणां नाशो विध्वंसोयस्मिन्देशे तंदेशंइतोगतः । ती० यद्वा जीवनाशमिति- पाठे जीवनाशं राज्ञइतिशेषः । मांविधवांचरामोनजानातीतिसंबंधः ॥ ८ ॥ ति० चारुतपस्विनी भर्तृसेवनादित्याशयः ॥ ९ ॥ [ पा० ] १ ग. ङ. च. छ. झ ञ ट भूमिपं. २ क. ङ. छ. झ. ट. भर्तारंतु. च. ज. भर्तारंच. ३ घ. विनियोगेननि- • युक्तेन, ख. नियोगेन नियुक्तेन. ४ छ. झ. ट. जीवनाशं. ५ च. न. दीना. ड. छ. श. ट. चारु. वा. रा. ६६