सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ उष्णमन्तर्दधे सद्यः स्निग्धा दहशिरे घनाः ॥ ततो जहषिरे सर्वे मेकसारङ्गबर्हिणः ॥ १६ ॥ क्लिन्नपक्षोत्तराः स्नाताः कृच्छ्रादिव पतत्रिणः ॥ वृष्टिवातावधूताग्रान्पादपानभिपेदिरे ॥ १७ ॥ पंतितेनाम्भसा च्छन्नः पतमानेन चासकृत् || आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः ॥ १८ ॥ पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि || सुसुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥ १९ ॥ [[आकुलारुणतोयानि स्रोतांसि विमलान्यपि ॥ उन्मार्गजलवाहीनि बभूवुर्जलदागमे] ॥ २० ॥ तस्मिन्नतिसुखे काले धैनुष्मानिषुमान्रथी || व्यायामकृतसङ्कल्पः सरयूमन्वगां नदीम् ॥ २१ ॥ निपाने महिषं रात्रौ गजं वाऽभ्यागतं नैदीम् ॥ अन्यं वा श्वापदं कञ्चिजिघांसुरजितेन्द्रियः॥२२॥ [तस्मिंस्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः । तत्राहं संवृतं वन्यं हतवांस्तीरमागतम् || अन्यं चापि मृगं हिंस्रं शब्दं श्रुत्वाऽभ्युपागतम् ॥ २३ ॥ ] अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः ॥ अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ २४ ॥ ततोहं शरमुद्धृत्य दीप्तमाशीविषोपमम् || शब्दं प्रति गजमेरभिलक्ष्य त्वपातयम् ॥ २५ ॥ अमुञ्चं निशितं बाणमहमाशीविषोपमम् || तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः ॥ हाहेति पततस्तोये बाणाभिहतमर्मणः ॥ २६ ॥ २५२ तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी ॥ कथमसद्विधे शस्त्रं निपतेत्तु तपस्विनि ॥ २७ ॥ प्रविविक्तां नदीं रात्राबुदाहारोऽहमागतः ॥ इषुणाऽभिहतः केन कस्य वी किं कृतं मया ॥ २८ ॥ मित्यर्थः । आविशते आविशतेस्म || १५ || स्निग्धाः | भस्मसहितानि । भुजङ्गवत् नानावर्णयुक्तसर्पाइ शीतलाः । भेकाः मण्डूका: । सारङ्गाः हरिणाश्चात- कुटिलानि सुस्रुवुः ॥ १९ – २० ॥ तस्मिन्नित्यादिशी- कावा ॥ १६ ॥ क्लिन्नपक्षोत्तराः सिक्तपक्षोपरिभागाः । कद्वयमेकंवाक्यं । व्यायामकृतसंकल्पः मृगयावि- अतएव स्नाताइवस्थिताः । वृष्टिवातावधूताप्रान् वृष्टि- हारेकृतसंकल्पइत्यर्थः । निपीयतेअस्मिन्नितिनिपानं वाताभ्यांकम्पिताग्रानपिपादपान्। कृच्छ्रात् क्लिन्नपक्ष- नद्यवतारस्थलं तस्मिन् । श्वापदं व्याघ्रादिदुष्टमृगं त्वनयत्नात् । अभिपदिरे आरूढाः ॥ १७ ॥ पतितेन || २१ – २३ || पूर्यतइति शत्रन्तत्वमा ॥ २४ ॥ पतमानेन च निरन्तरेणेत्यर्थः । अम्भसा वर्षजलेन । गजप्रेप्सुः गजरूपवेध्यंप्राप्तुमिच्छुः हननेच्छुरित्यर्थः । छन्नः मत्तसारङ्गः मत्तगजः । “ सारङ्गोहरिणेभृङ्गे शब्दंप्रति शब्दंलक्ष्यंकृत्वा । अभिलक्ष्य शब्दकर्तृभूतो- चातकेशबलेगजे " इतिनिघण्टु: । अचलोगिरि: गजएतावन्मात्रेतिष्ठतीतिलक्षीकृत्येत्यर्थः शरमपातय अचलोनिश्चलः निस्तरङ्गः । तोयराशिः समुद्रइवाब- मितिसंबन्धः ॥ २५ ॥ यत्रबाणममुञ्चं तत्र वनौ- भौ । अचलपदस्यावृत्त्या एकस्यगिरिपदस्यविशेष्यत्वं कसः वनं ओक: स्थानंयस्य तस्य तपस्विनइतिया अन्यस्य तोयराशिविशेषणत्वमितिध्येयम् ॥ १८ ॥ वत् | व्यक्तावाक् प्रादुरासीदितिसंबन्धः ॥ २६ ॥ गिरिधातुभ्योहेतुभ्यः विमलान्यपिस्रोतांसि पाण्डुरा- |विशिष्यवागुदितेत्याह - तस्मिन्नित्यादि । अस्मद्विधे रुणवर्णानि पाण्डुरधातुसंयोगात्पाण्डुरवर्णानि अरु- अजातशत्रौ ॥ २७ ॥ प्रविविक्तां प्रकर्षेणनिर्जनां । धातुसंयोगादरुणवर्णानि । सभस्मानि दावानल - रात्रौ अपररात्रौ । उदकमाहारयतीत्युदाहारः । वत् आविशतइतिपाठान्तरं । उपास्येतिपाठेपिसे वित्वेत्यर्थद्वारा शोषयित्वेत्यत्रैवपर्यवसानंबोध्यं ॥ १५ ॥ स० कृच्छ्रात् कृच्छ्रव्रतमु द्दिश्यस्नाताइवविद्यमानाः ॥ १७ ॥ शि० अजितेन्द्रियः नजितानिमृगयाविहारादनिवर्तिता निइन्द्रियाणियेनसः । महि प्रशंस- नीये । निपाने नदीजलपानोचितनदीप्रदेशे | अभ्यागतं प्राप्तं षं उपद्रवकारकं । गजं मृगं हिंसार्थमन्वेषणकर्तारं । अन्यद्वाकिं- चिच्छ्रापदं व्याघ्रादिकं जिघांसुरहं सरयूंनदीमन्वगाम् । श्लोकद्वयमेकान्वयि । “उपसर्गे परीक्षेचषकारः परिकीर्तितः” इत्येकाक्षरः [पा० ] १ क. पतितेनांबुना. २ कुण्डलान्तर्गतः श्लोकः बहुषुकोशेषुनदृश्यते ३ क. ख. धनुष्मान्कवचीरथी. ४ ङ. झ. ट. मृगं. ५ कुण्डलान्तर्गत मिदमर्धत्रयंबहुषुकोशेषुनदृश्यते ६ ख – च ज - ट रभिलक्ष्यमपातयं. ७ ङ. च. बाणाव्यथित. घ. बाणापीडित. ८ ङ. च. झ ञ ट भूमौ ९ ङ. च, झ, ञ, निपतेच. १० गच. जठ. वापकृतं.