२१६ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ गवां शतसहस्रं च वस्त्राण्यन्नं च पेशेलम् || ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया || ८८ ॥ सुराघटसहस्रेण मांसभूतौदनेन च ॥ यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता ॥ ८९ ॥ यानि त्वत्तीरवासीनि दैवँतानि वॅसन्ति च ॥ तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥ ९० ॥ पुनरेव महाबाहुर्मया भ्रात्रा च सङ्गतः ॥ अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे ॥ ९१ ॥ तथा संभाषमाणा सा सीता गङ्गामनिन्दिता | दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत् || ९२ || 'तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः ॥ प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः ॥ ९३ ॥ अथाब्रवीन्महाबाहुः सुमित्रानंन्दवर्धनम् || भव संरक्षणार्थाय सँजने विजनेऽपि वा ॥ ९४ ॥ अवश्यं रक्षण कार्यमदृष्टे विजने वने ॥ अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु ॥ ९५ ॥ पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् ॥ ॲन्योन्यस्येह नो रक्षा कर्तव्या पुरुषर्षभ ॥९६ ॥ न हि तवदतिक्रान्ता सुकरा काचन क्रिया | अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति ॥ ९७ ॥ प्रनष्टजनसंबाधं क्षेत्रारामविवर्जितम् || विषमं च प्रपातं च 'वनं ह्यद्य प्रवेक्ष्यति ॥ ९८ ॥ श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः ॥ अनन्तरं च सीताया राघवो रघुनन्दनः ॥ ९९ ॥ गतं तु गङ्गापरपारमाशु रामं सुमन्त्र: अंततं निरीक्ष्य || अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच वाष्पं व्यथितस्तपस्वी ॥ १०० ॥ यचिकीर्षया ब्राह्मणमुखेनहिदेवतानांग्रहणमितिभावः | शक्याहीत्यर्थः । तस्मात्काले सावधानतयास्माभिः ।। ८७–८८ ।। मांसभूतौदनेन मांसरूपान्नेनेतिया- स्थातव्यमितिभावः । संबाध: संमर्द: । क्षेत्रं शाल्या- वत् ॥८९ || तीर्थानि मणिकर्णिकादीनि । आयतनानि दिवृद्धिस्थलं । विषमं निम्नोन्नतप्रदेशयुक्तं | प्रपतन्त्य - काश्यादीनि ॥ ९०–९३ ॥ भवेति सावधानइति स्मिन्नितिप्रपातः गतः । हियस्माद्यप्रवेक्ष्यति तस्मा- शेषः । अदृष्टे अदृष्टपूर्वे । नः आवयोः । “अस्मदोद्व- दुःसंवेत्स्यतीतिसंबन्धः । इतिसुमित्रानन्दवर्धनमब्रवी- योश्च” इतिबहुवचनं । तावच्छब्दः साकल्यार्थकः । दित्यन्वयः ॥ ९४ – ९९ ॥ गतं गङ्गापरपारं गङ्गाया अन्योन्यस्यसाकल्येनरक्षाकर्तव्येतिसंबन्धः । यत्नस्या- अपरंपारं प्रततंनिरीक्ष्य अविच्छिन्नंनिरीक्ष्येत्यर्थः । वश्यकर्तव्यत्वेयुक्तिमाह — नहीति । अतिक्रान्ता अति- तपस्वी संतापयुक्तः । तपसंतापइतिधातुः । प्रतपन्नि- क्रान्तकाला । काचनक्रिया नसुकराहि पुनःसंधान | तिपाठे तापवानित्यर्थः । तपस्वी शोचनीयः । अध्व- शि० ब्राह्मणेभ्यः त्वत्तीरवर्तिविप्रेभ्यः ||८८|| शि० सुराघटसहस्रेण सुरेषुदेवेषुनघटन्तेनसन्तीत्यर्थः । तेषां सहस्रेण सहस्र- संख्याकसुरदुर्लभपदार्थेनेत्यर्थः । मांसभूतौदनेन मानास्तिअंसोराजभागोयस्यां साचसा भूः पृथ्वीच उतवस्त्रंचओदनंचएतेषांसमाहा. रः तेनचत्वांयक्ष्ये । अतःप्रीयतां । दन्त्योषधोप्यंसशब्दोभागवाचीकोशे प्रसिद्धः ॥८९॥ ति० दक्षिण भर्तुरनुकूला ॥९२ ॥ स० संरक्षणार्थाय तद्रूपप्रयोजनाय | शि० सजने परजनसहिते ॥ ९४ ॥ ति० अग्रतइति एवंचकार्यवशालघोरप्यग्रतोगमनमदोषा- येतिध्वनितं । मार्गएवलघोरग्रतोगमनमदोषायेत्यन्ये । एवंख्य विश्वसनीयेतिध्वनितं ॥ ९५ ॥ ति० नोस्माकं । सीतयापि पाति- व्रत्य महिम्ना इतररक्षणं । स० सीतयापि सेवयारक्षाकर्तव्या ॥ ९६ ॥ ति० कुतएवमतियत्नोतआह - नहीति । असुकरा दुष्करा | काचन कापिक्रिया अतिक्रान्तान । किंत्वितःप्रभृतिदुष्करक्रियारंभइतिभावः । यद्वा काचनक्रिया अपायलक्षणाअतिक्रा- न्ता अस्मानतिक्रम्यप्राप्ताचेत्ततोरक्षा सुकरानहि । प्रहृतंप्रहृतमेवेतिन्यायादित्यर्थः । शि० ययावैदेह्या असुकरा अतिप्रयत्नसा- ध्या । काचनक्रिया नातिक्रान्ता नकृतेत्यर्थः | सावैदेही अद्य गमनसमये वनवासस्यवनवाससंबन्धिदुःखं वनगमनजनितखेदं वेत्स्यति अयंखेदोनिवार्यइतितात्पर्यम् ॥ ९७ ॥ [पा०] १ क. ख. ग. ज. शतसहस्राणि २ क. च. शोभनं. ३ घ. भाण्डसहस्रेण ४ क. ङ. छ. झ ञ ट प्रीयतां. ८५ ख. घ. रिहागता. ६ ङ. झ ट . दैवतानिचसन्तिहि ७ क. ग. घ. ज. वसन्तिहि ख. महान्तिच. ८ घ. तीरंहि. ९ घ. ततो. १० क. ख. नन्दिवर्धनं. ११ क. सीतायाविजनेवने. १२ ङ. छ. झ. ट. कार्यमद्विधैर्विजने. १३ ङ. च. छ. झ. ज. ट. पृष्ठतोनु. १४ ङ. च. छ. झ ञ ट . सीतांत्वांचानु. ५५ क. ख. घ, ङ. छ. झ ञ ट अन्योन्यस्यहि. ग. अन्योन्यस्यचनौ. १६ घ. क.चिइति. १७ ख क्षेत्रग्राम. १८ङ. च. ज. झ. ज. वनमय. ट. वनमद्यगमिष्यति. १९ङ. च. छ. झ ञ ट . सततं.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२०
दिखावट