पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तवामरसुतप्रख्य तर्तुं सागरगां नदीम् || नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत ॥ ९ ॥ अथोवाच महातेजा रामो गुहमिदं वचः ॥ कृतकाँमोस्मि भवता शीघ्रमारोप्यतामिति || १० || ततः कलापान्संना खड्नौ बवा च धन्विनौ ॥ जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ ॥ ११ ॥ राममेवं तु धर्मज्ञमुँपगम्य विनीतवत् || किमहं करवाणीति सूतः प्राञ्जलिरत्रवीत् ॥ १२ ॥ २०९ ततोऽब्रवीद्दाशरथिः सुमत्रं स्पृशन्करेणोत्तम दक्षिणेन ।। सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः ॥ १३ ॥ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम || रैंथं विहाय पद्भ्यां तु गमिष्यामो महावनम् ॥ १४ ॥ आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः || सुमन्त्रः पुरुषव्याघमैक्ष्वाकमिदमत्रवीत् ॥ १५ ॥ नातिक्रान्तमिदं लोके पुरुषेणेह केन चित् ॥ तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने ॥ १६ ॥ न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः ॥ मार्दवार्जवयोर्वाऽपि त्वां चेव्यसनमागतम् ॥ १७ ॥ संह राघव वैदेया भ्रात्रा चैव वने वसन् || त्वं गतिं प्राप्स्यसे वीर त्रींल्लोकांस्तु जयन्निव ॥ १८ ॥ वयं खलु हता राम " ये त्वयाऽप्युपवञ्चिताः || कैकेय्या वशमेष्यामः पापाया दुःखभागिनः ॥ १९॥ प्रायेण ॥ ६–८ ॥ नौरियमिति उपस्थितेतिशेष: | किंपुनर्ममेतिभावः || १६ || त्वां ब्रह्मचर्य स्वाध्यायमा ॥ ९ ॥ आरोप्यतामिति खनित्रपिटक वैदेहीवस्त्राभर- वार्जवयुक्तत्वां व्यसनमागतंचेत् ब्रह्मचर्ये अधःशय- णादिकमितिशेषः ।। १० ।। तौराघवौं संना कव- | नादिलक्षणे अध्ययनकालकृते । स्वधीते स्वाध्याया- चौधृत्वा । कलापान तूणीरान् खड्गौचबद्धा धन्विनौ ध्ययने । मार्दवे दयालुत्वइतियावत् । आर्जवे अकौ- जनाःयेनमार्गेणगङ्गांप्राप्नुवन्ति तेनमार्गेणजग्मतुः टिल्ये च । फलोदयः फलसिद्धिर्नास्तीतिमन्ये। यदि ॥ ११ ॥ धर्मज्ञं भृत्यधर्मज्ञं । विनीतवत् सविनयमि- ब्रह्मचर्यादिकंफलदंस्यात् तत्त्वयिदृश्येत । नदृश्यते तिक्रियाविशेषणं ॥ १२ ॥ उत्तमेतिसंबोधनं ॥ १३ ॥ प्रत्युत वनवासवदृष्टः । अतोनतत्फलदमितिमन्येइति याहीतिसामान्येनोक्तं सोपपत्तिकमाह - निवर्तस्खेति । भावः । खेदातिशयादेवमुक्तं ॥ १७ ॥ त्रींल्लोकाञ्जय- मम एतावत्कृतंहि गङ्गातीरपर्यन्तंरथेनप्रापणंकृतंहि । न्निव विष्णुरिवेत्यर्थः । गम्यतइतिगतिः कीर्तिः तांप्रा- हीतिराजाज्ञाद्योतनं । अतः परंयानं विहायपद्भ्यामेवम- प्स्यसे अतुलांकीर्तिप्राप्स्यसइत्यर्थः । सुमन्त्रः पुरवासि - हावनंगमिष्यामः । अतस्त्वंनिवर्तस्वेत्येवमुवाच ||१४|| प्वात्मानमन्तर्भाव्यवदति – वयमिति । वयं त्वामनु अवेक्ष्य बुवा । आर्तः अनुगमनेऽभ्यनुज्ञा नकृतेति गतावयं । त्वयाप्युपवञ्चिताः खलु रात्रौनिद्रासमये दुःखितः ॥ १५ ॥ तवसभ्रातृभार्यस्य वने प्राकृतवत् अविदितगमनेनउपवश्चिताएव । अपिशब्दादभिषेक- क्षुद्रस्येव योयंवास: तदिदंलोकेकेनचिदपिपुरुषेणना- विघटनेन कैकेय्यापिवञ्चिताइतिद्योत्यते । उपवश्चिताः तिक्रान्तं नाङ्गीकृतं । सर्वासंमतोयंतववनेवासइत्यर्थः । समीपेवञ्चिताः । वनंप्रापय्यमानाइवत्यक्ताइतिवार्थः । ती० ततःकलापानित्यादिश्लोकद्वयमेकंवाक्यं । तौराघवौसंनह्य कवचौवृत्वा । कलापान् तूणीरान् । खड्गौचबध्वा येन यस्मात्का रणात् । रथनिरपेक्षौगङ्गांजग्मतुः । तस्माद्राममुपगम्य सूतः प्राञ्जलिरब्रवीदितियोजना ॥ ११-१२ ॥ ति० उत्तमश्चासौदक्षिणश्चतेन स्पर्शादिव्यापारेउत्तमेन स्पर्शमात्रेण सकलदुःखहारकत्वाद्दक्षिणेन ईदृशेनकरेण दक्षिणकरेण ॥ १३ ॥ ति० तदादौलोकदृष्ट्याशो- कापनुदंवचनमाह - नातीति । सभ्रातृभार्यस्यतव प्राकृतवत्क्षुद्रवत् | वनेवासोयेनदैवेनकृतस्तदिदंदैवं इहलोकेकेनापिअतिक्रान्तं लङ्घिर्तन लंधितुमशक्यमित्यर्थः । अतोहृदयेमाशु चइत्यर्थः । यद्वा ते वनवासोजातइतियदिदं इहलोके अयोध्यास्थलोकमध्ये केना- पिपुरुषेण न हृद्यत्यन्तंक्रान्तं स्वीकृतं सर्वासंमतमेव । अतोस्मदादीन्दोषेणमागृह्णीयाइतितात्पर्यम् ॥ १६ ॥ ती० रात्रौकेचननि- द्रासमये अविदितगमनेन अहंतुबलान्निवर्तनेन । एवं वञ्चितः त्यक्ताः । शि० हेराम त्वयासहवयं कैकेय्या कैकेयीदास्या [ पा० ] १ ङ. छ. झ ट सागरगामिनीं. २ ङ. छ. झ ञ ट . शीघ्रमारोह ३ घ. कार्योस्मि ४ ख. ग. घ. च. ज. राममेवतु. ५ ङ. छ. झ. ट. मुपागल. ख. च. ज. मुपागम्य ६ क - घ. ज. मानं. ७ ख. ङ. च. छ. झ. अ. र्येवा. ८ ख. त्वांचव्यसन. ९ घ ङ छ ट सदा १० ज. चापि ११ ग. ज. नाथ. १२ घ ङ च झ. न. ट. यत्त्वया. ब्रह्मच- वा. रा. ५९