सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्या समलंकृतम् । एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी || नियता नियताहारा भर्तृशुश्रूषणे रता ॥ २९ ॥ प्राप्स्य परमं कामं मयि प्रत्यागते सति ॥ यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम् ॥ ३० ॥ एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा || कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत् ॥ ३१ ॥ गमने सुकृतां बुद्धि न ते शक्नोमि पुत्रक || विनिवर्तयितुं वीर नूनं कालो दुरत्ययः ॥ ३२ ॥ गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो ॥ पुनस्त्वयि निवृत्ते तु भविष्यामि गतलमा ॥ ३३॥ प्रत्यागते महाभागे कृतार्थे चरितव्रते ॥ पितुरानृण्यतां प्राप्ते त्वयि लप्स्ये परं सुखम् ॥ ३४ ॥ कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि || यस्त्वां संचोदयति मे वच आच्छिद्य राघव ॥ ३५ ॥ गच्छेदानीं महाबाहो क्षेमेण पुनरागतः ॥ नन्दयिष्यसि मां पुत्र साम्ना वाक्येन चारुणा || ३६ || अपीदानीं स कालः स्यानात्प्रत्यागतं पुनः ॥ यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ॥ ३७॥ तथा हि रामं वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा || उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनीभिकाङ्क्षिणी ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥ ११७ पञ्चविंशः सर्गः ॥ २५ ॥ कौसल्ययास विस्तरंकृतमङ्गलाशासनेनरामेणमातुश्चरणाभिवादनपूर्वकंसीतावलोकनायस्वावासंप्रतिगमनम् ॥ १ ॥ सौऽपनीय तमायासमुपस्पृश्य जलं शुचिः | चकार माता रामस्य मङ्गलानि मनस्विनी ॥ १ ॥ 35 लादीनिसमुच्चीयन्ते । अग्निकार्येषुक्रियमाणेषुसुमन:- | नः पश्येयं सकालइदानीमेवापिस्यात् । अपिशब्दःसं- प्रभृतिभिर्देवताब्राह्मणाश्चपूज्याइत्यर्थः ॥ २८ ॥ निय- भावनायां । “अपि: संभावनाप्रश्नगर्हाशङ्कासमुञ्चये ता स्नानादिनियमयुक्ता । नियताहारा मधुमांसादि- इतिवैजयन्ती | यत् यत्रेतिवार्थः || ३७ || वनवास- वर्जनेशुद्धाहारा ।। २९ ॥ प्राप्स्यसइति भर्तृजीव- निश्चितं निश्चितवनवासं । परमेणचेतसा आदरेणेति नपुत्रागमनयोःसतोरेवहिपरमकामप्राप्तिसंभवइतिभा- यावत् । स्वस्त्ययनं मङ्गलंअभिकाङ्क्षितुंशीलमस्याअ वः ॥ ३० – ३१ ॥ सुकृतां सुदृढामित्यर्थः ॥ ३२ ॥ |स्तीतितथा ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते गतलमा गतक्लेशा ॥ ३३ ॥ महाभागे महाभागधेये । श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- आनृण्यतां अनृणतां । स्वार्थेष्यञ् ॥ ३४ ॥ आच्छि- व्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥ द्य छित्वा । अन्यथा कृत्वेत्यर्थः ॥ ३५ ॥ साम्ना सा- नत्वरूपेण ॥ ३६ ॥ क्षणमात्रमध्यदर्शनासहिष्णुत्वात्प्र- तान्येवस्वस्त्ययनानिदर्शयति —– सेत्यादि । आयासं त्यागमनकालइदानीभेवसंभवेदितिप्रार्थयते – अपीति । क्लेशं | अपनीय त्यक्त्वा । जलमुपस्पृश्य आचम्येत्यर्थः । यत् येनचतुर्दशवर्षान्तेनकालेन | वनात्प्रत्यागतंत्वांपु- | “ उपस्पर्शस्त्वाचमनं” इत्यमरः । रोदनस्याशुचिता- तिo यदीति । अनेनदशरथ मरणस्यसंनिहितत्वंसूचितम् ॥ ३० ॥ शि० महाभागे महाभां राज्यलक्ष्मी आगच्छतिप्राप्नोति तस्मिंस्त्वयि ॥ ३४ ॥ ति० आविध्य आच्छिद्य । त्वांसंचोदयति वनायेतिशेषः । इतियत्अतः ॥ ३५ ॥ ति० साम्राशुक्लेने- तिपाठान्तरम् ॥ ३६ ॥ शि० परमेण सूक्ष्मेण | चेतसा विचारेण | ददर्श ॥ ३८ ॥ इतिचतुर्विंशस्सर्गः ॥ २४ ॥ सत्य० या मा रमा सा मनस्विन्यपि यस्यमङ्गलानि मङ्गयतेगम्यतेआभ्यामितिमङ्गौपादौतौलान्तिस्वीकुर्वन्तिविषयीकुर्वन्ती. [ पा० ] १ ङ. छ. झ. ट. पर्यागतेक्षणा. २ क. ख. च. छ. ज. पूर्णायतेक्षणा. ३ झ ट ठ. स्वपिष्येपरमं. ४ ङ. च. छ. झ ञ. यत्त्वां. ५ ङ. छ. झ. आविध्य ६ ज. महाभाग ७ ख – ट. लक्ष्णेन. क. लक्ष्णेनचेतसा. ८ क. ख. घ. च. ञ. येनत्वांपुत्र. ९ क. ङ. छ. ट. तदाहि. १० ङ. छ. झ. ट. ददर्श. ११ घ. नातिकाङ्क्षिणी १२ झ ञ ट साविनीय. १३ ग.. ङ. च. ज. झ ञ ट . शुचि.