पृष्ठम्:वादनक्षत्रमाला.djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुक्तिरजताद्युत्पत्तिसमर्थनवादः॥ अथ शुक्तिरजतादिकं स्वानवह्निजलादिकं च नासंनिहित मयथार्थज्ञानविषयः; किं तु तत्रत्यमेवेति निर्णयार्थं कथान्तरं प्रस्तूयत एतच्छुक्तीदंतया गृह्यमाणं रजतम् एतद्देशवर्ति, एतदिदं- तया गृह्यमाणत्वात्- एतच्छुक्तिवत्; यस्याः शुक्तरधस्तात् रजत नास्ति स शुक्तिः एतच्छब्देन विवक्षिता; अत नारित सिद्धसाधनाशङ्का ~ इति प्रथम कक्ष्या । अथ तृतीय बाधितविषयं त्वदनुमानम् , न हि तत्र प्राक्सद्ध रजत मरेत, न वा अभिनवरजतोत्पत्तौ अन्यत्र क्लप्त रजतकार- णमस्ति ; अभिनवरजतोत्पत्तौ च पश्चादपि तदुपलब्धिप्रसङ्गः ननु शुक्तौ रजतवयवानुप्रवेशोऽस्ति, तत्सदृशत्वत् , भूयोऽव यवसामान्यं सादृश्यमित्यङ्गीकारात्; मीमांसकैरपि प्रतिनि- धिपेटिकायाम् अवश्यकर्तव्येषु त्रीहिद्रव्यकेषु कर्मसु त्रीह्य लाभे तरसदृशा नीवाराः प्राह्याः, तेषु त्रीहित्वजात्यभावेऽपि