पृष्ठम्:वादनक्षत्रमाला.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सच्छब्दस्य सूक्ष्मचिदचिदाकारापन्नशक्तिविशिष्टशिवपर त्वे प्रमाणाभावोऽसिद्धः, : सदेव' इत्यवधारणस्यासत्कार णत्वनिराकरणदृढीकरणार्थत्वेऽपि अधिष्ठात्रन्तरनिषेधार्थस्य एकम्' इत्यस्य तदृढीकरणार्थस्य एवकारस्य उपादाना न्तरनिषेधार्थस्य * अद्वितीयम्' इत्यस्य च तत्र प्रमाणत्वात् ; चिदचिद्वर्गयोः सच्छब्दार्थबहिर्भावे हि द्विकर्तृकेषु नामरू पव्याकरणप्रभृतिसृज्यवस्तुषु कर्वन्तराणां हिरण्यगर्भादीनाम् अचिद्वगर्योपादानभूतशुद्धभायायाश्च सत्त्वेन * एकमेवाद्विती यम्' इत्यवधारणानि * सदेव मोम्येदमग्र आसीत्' इत्येत स्यानन्तरमसद्वादनिराकरणोत्तरस्य * सत्त्वेव सोम्येदमग्र आसीत्' इत्येतस्य चानन्तरमभ्यस्तानि * एकमेवाद्वितीयम् ' इत्यवधारणानि न संगच्छेरन्; अतस्तदनुसारेण स च्छब्द्रुह्य सूक्ष्मचिदचिदाकारापन्नशक्तिविशिष्टशिवपरत्वम भ्युपगन्तव्यम् ; तथा सात उत्तप्रकारण सूक्ष्मदशापलस्य स्थूलचिदचिदाकारापन्नशक्तिविशिष्टतया स्थूलदशापत्यर्थ बहु स्याम्' इति संकल्पोऽपि उपपद्यते ; तत्र हि बहु शब्दो वैपुल्यवाची, न तु संख्याविशेषवाची ; चिदचिद्वर्ग भेदविवक्षायां बहुत्वसख्यायाः पूर्वमपि सत्त्वेन, तयो ब्रह्मविशेषणतया विशिष्टरूपैक्यात् तद्वेदाविवक्षायां पश्चाद्