न मुक्त्यनन्तरम्; * अत एव चानन्याधिपतिः' इति सूत्रो क्तन्यायेन शिवैकानियम्यानां तेषां तदा परम्परनियम्यत्वं नास्तीत्येतावता तेषु तद्वर्जनमुक्तम् ; अर्जुनि धवलवणें तमो विवासनसमर्थस्वच्छतायुक्त, उष: महाप्रलयरूपशर्वर्यपग वादनक्षत्रमाला । मकालरूप साधनम इन्द्रं गुरुधूपसन्नानामृषीणामेवंभूतं सकलपशुपाशनियन्तृत्वं तत्प्रसादादासीदिति भावः । एवं च अनया प्रक्रियया यद्य पि सर्वमुक्तिपक्षे स्वामिभृत्यादिशरीराणां परस्परनियम्यत्व योग्यतारूपं परस्परशरीरत्वमुपपद्यते, अथापि * अत एव हि विद्वत्सु मुच्यमानेषु सर्वदा । ब्रह्माण्डलोके जीवानामन न्तत्वादशून्यता' इति वार्तिकोत्ते सर्वमुक्त्यभावपक्षे तत् कचित् कचित् नास्ति । भृत्यादीनामाज्ञादिना नियमनमात्रं च न शरीरत्वप्रयोजकम् ; किं तु व्यास्या नियमनमेवेति व्यञ्जयितुं तावदूर लक्षणमुक्तम् । न चवमाप पशाचाद्या विष्टशरीराणामपि पिशाचादिशरीरत्वप्रसङ्गो दोष :: पिशा चादीनामतीन्द्रियेण स्वशरीरेण मनुष्यादीनाविश्य भोक्तृ त्वात् मनुष्यादिशरीरताडने तदन्तर्गतपिशाचादिशारीरस्य कञ्चुकताडने कञ्चकान्तर्गतशरीरस्येव ताडनाभिघातेन दुः खोपपत्तेः । यदि तु आविष्टशरीरेणैव पिशाचादीनां भो
पृष्ठम्:वादनक्षत्रमाला.djvu/२१५
दिखावट