पृष्ठम्:वादनक्षत्रमाला.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ पूर्वोत्तरमीमांसा वाखायां सोमयाजिनामैन्द्राग्रस्येव पौर्णमास्यामसोमयाजिना म् अग्रीषोमीयाभावात् “ अनपायो हि कालस्य लक्षणं हि पु रोडाशौ' इति दशमाध्यायाधिकरणसूत्रोक्तन्यायेन डाशद्वयाभावेऽपि तदुपलक्षितान्तरालकालोऽस्तीति एक. पुरोडाशपौर्णमास्याम् उपांशुयाजसमर्थनप्रकारस्य एकपुरो डाशामावास्यायामाप तुल्यत्वात् । अवश्य च अमावास्यावज तथात्वमेव वाच्यम् , शीघ्रप्रतीतेवैदिकार्थग्रहणाप्रयोजकत्व स्य वर्णितत्वात् । अन्यथा उत्पत्तिवाक्यप्रवृत्ति सापेक्षवा क्यान्तरावगम्यपौर्णमासीसंबन्धात् उपांशुयाजादुत्पत्तिवा क्यावगतपौर्णमासीसंबन्धयो: आग्याग्रीषोमीययो: शा घप्रतीत्या तयोरेवाधिकारानुप्रवेश: म्यादिति दोषतादव कार्थग्रहणनियामकत्वाभावेऽपि अपेक्षितत्वेन शीघ्रप्रतीति प्रथमयज्ञ प्रवृ ञ्ज्यात्' इत्यत्र प्रथमशब्दस्य साक्षात्प्राथम्याश्रयत्वेन शीघ्रप्रतीतिमात्रविषये प्रयोगे तद्वारा परम्परासंबन्धिप्रा थम्याश्रयत्वेन विलम्बितप्रतीतिविषये ज्योतिष्टोमक्रतौ च तुल्यपक्षपातित्वे कांस्यभोजिन्यायेन प्रकरणानुग्रहाय ज्योति