पृष्ठम्:वादनक्षत्रमाला.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। श्रीः । पूर्वोत्तरमीमांसा | वादनक्षत्रमाला । मासाग्निहोत्रवादः । तन्त्रान्तरेष्वनुपपादितमर्थजातं यत्सिद्धवद्यवहृतं ध्वनितं च भाष्ये । तस्य प्रसाधनमिह क्रियते नयोक्त्या बालप्रियेण मृदुवादकथापथेन । शेषीभवदपि भाष्ये सुमहति सखेऽग्निहोत्रमिव स्वातन्त्र्येण प्रकरणमर्थप्रतिपादने समर्थमिदम् । कुण्डपायिनामयनाख्ये सखे श्रूयते-'उपसद्भिश्चरित्वा मासमग्रिहोत्रं जुहोति' इति । तन्मासान्निहोत्रं नैयामिकानि होत्राद्भिद्यते न वेति जरन्मीमांसकमतानुसारिण: पूर्वपाक्षिण