पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९०
बाग्व्यवहारादर्शः

क्थवन्तो यतुशब्दगतमर्थमाह। तथा हि--तानि “कृत्याहतानीव विनश्यन्ति समन्तत इति (३|५८)मनुवचनम् । कारिका यातनाकृत्योरिति प्रायेणामरे पाठः । क्वचित्काकारिका यातनावृत्योरिति पठ्यते । तथा च कारिके वृतियातने इति त्वामिधृतं दुर्गवचनमप्यनुकूलम् । कारिका विवरणश्लोकः। एवमिह करोतिंर्व्याख्याने वर्तत इति नात्र शङ्काशूकोऽपि । णिजधिकः करोतिः शिक्षणे वर्तते । तथां चामरः--कारितशिक्षिते इति । स्यादचण्डी तु सुकरेत्यमरे सुकरां सुखेन विनेयेत्यनर्थान्तरम् । तेन व्यक्तं करोतिरत्र विनयने वर्तते । मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि । ( भा० द्रोणं० १३|१२) । न भयं कर्तुमर्हथ (हरि ० :२|५०|३९)। अत्र करोतिरनुभवे वर्तते । सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिपादयेत् ( यज्ञ ० २|६१ )। केशाञ्जानाम्यहं कर्तुम् (भा० विराट० ९|१८ । कर्तुम्= प्रसाधयितुम् । कृतानि प्रथमेनाह्ना योजनानिं चतुर्देश (रा० ६।२२।६४) कृतानि = अतिक्रान्तानि । अभ्यागच्छन्सुराः ': सर्वे तमःफलंचिकीर्षवः (रा ० १|६३|१) अत्र करोतिदाने वर्तते । अंस्त्रार्थमगमं पूर्वे धनुर्वेदचिकीर्षया ( भा० १|१३१|४० ) इत्यत्र करोतिः शिक्षणे वर्तते । बालाविमौ सुचपलावक्रियाविति सर्वथा(हरि० २|२८|२४) इत्यत्राक्रियावित्यशिक्षावित्याह। वयं संवें सोत्सुकः कृतक्षणास्तिष्ठामः। इह करोतिः प्रतीक्षणे वर्तते । राज्ये सुतं कृत्वा (मार्कण्डेय पु० १०९|३७( कृत्वा = अभिषिच्य )| कुद्धलुब्धभीतावमनिनस्तु परेषां कृत्याः ( भैद्याः)( कौ०' अर्थ० १|१३ )। प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातुमर्हसि (श० १|६८|१०)। कर्त्तुम् = पूरयितुम् ( कतकः )। राजन् कुर्यात्कर्णमापदि (भ० शा० ९३|७)। करणम् = आपन्निवारणं कर्म। हित्वां वेदकृताः श्रुतीः (भा० शां० २|६५|७)। वेदंकृताः वेद आम्नाताः। प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः ( रा० ४|४५|४) । यो में कृतंस्त्वया कालस्तमाकाङ्क्षे (प्रतीक्षे ) जगत्पते (भा० उद्योग १५|९) । कृतः = निंयतः, प्रतिश्रुत: । स्वागतेनागतं कृत्वा (भा० शां० ३५७|५) (कृत्वा = संत्कृत्य)। कृतकौतूहलस्तेषु मुक्तश्र्चर यथासुखम् (भा० शां० २८८|११)। कृतकौतूहलः = छिन्नौत्सुक्यः। आक्रियतें व्यज्यतेऽनयेत्याकृतिः संस्थांनमुच्यते (पा ० ४।१।६३ इत्यत्रं न्यासंः ) नृम्णानिं कृण्वंन् (= कुर्वन् ) बहवे जनाय (ऋ १०|१०३|८ )। कृण्वंन् = ददत् । क्रियांशब्दोऽमरेणं नवस्वर्थेषु पठित:--

          आरम्भो निष्कृतिः शिक्षा पूजनं सम्प्रधारणम् ।
          उपायः कर्म चेष्टा च चिकित्सा च नव क्रिया: ॥ इति ।

 अत्र क्रमेणोदाहरणानैि-- ओरम्भे तावत्-सर्वाः क्रियाः मंत्रमूला नृपाणाम् । निष्कृतौ–महापातकिनां पुंसां भवेत्प्राणांतिक क्रियाः । शिक्षायाम्--किया हि