पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८८
वाग्व्यवहारादर्शः

च मनुसंहितायां याज्ञवल्क्यस्मृतौ च प्रयोगाः 'अकृतं च कृतात्क्षेत्रात् (१०|११४); फांलाहतमपि क्षेत्रं न कुर्याद्यो न कारयेत्(२।१५८)॥ इतिं | पदकार इत्यत्र करोतिरवग्रहे वर्तते । पदान्यवगृह्णाति च्छिनत्तीति तद्व्युत्पत्तेः । स्तम्बशकृतोरिन् (३|२|२४) इत्यत्रानुवृत्तः कृञ् विसगें वर्तते । शकृत्करैिर्वत्सः, शकृद्विसृजतीत्यर्थः। एवमेव मूत्रपुरीषं करोतीति मनुप्रयोगे । आज्ञां करोति, वचनं करोतीत्यादिषु कृञनुवृत्तौ वर्तते । दारान्कुर्वीत सिद्धये कृतदारःदारकर्म, दारक्रिये त्यादिषु करोतिः परिग्रहणे .स्वकरणे वर्तते । शूलात्पाक (५|४|६५) इत्यनेन निष्पन्ने शूलाकरोति मांसमिति प्रयोगे करोतिः पचने वृर्तते । तथा च कृताकृता स्तण्डुलाः ( याज्ञ० १/२८६ ); कृतान्नम् , अकृतान्नमितिप्रभृतयः प्रयोगाः प्रथन्ते । समयाच्च यापनयामिति (५|४|६०) डाचं शास्ति करोतिना योगे करोतिं च यापनया समानार्थमाचष्टे । संमया करोति, कालं यापयतीति यावत् । प्राप्तमवसरमतिक्रमयन्नेवंमुच्यते । समापनेपि वर्तते । तथा च श्रीरामायणे (२|६४|५२) प्रयोगः-- एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसीति । मरिष्यसीत्यर्थः । भारतसंहितायामपि यापने प्रयोगः-- चक्रुस्तेनाभ्यनुज्ञाता दश वर्षाणि पञ्च चेति । प्रतीक्षणेपि वर्तते-- करोतु:क्षणं मदर्थे, क्षणं कुर्वित्यत्र | सत्यादशषथ (पा ० ५|४|६६ ) इत्यत्र सत्यं करोति ब्राह्मण इति प्रत्युदाह्रियते । व्यक्तमत्र करोति शपत इत्यनर्थान्तरम् । क्वचित् करोतिरभिमर्शने वर्तते न च प्रशब्दं द्योतकमपेक्षते । तद्यथा—अभिषह्य तु यः,कन्यां कुर्याद् दर्पेण मानव इति स्मृतिः (मनु० ८|३६७ ) मानितः कुरुतेऽस्त्रणि शक्रसद्मनि भारत इत्यत्र भारते (वन० १६२|२२ ), चकाराङ्गिरसां श्रेष्ठाद् धनुर्वेदं गुरोस्तदेत्यत्र ( शां० २।५), यां विद्यां कुरुते गुरावित्यत्रापस्तम्बे ( १|७|१२) च करोतिः शिक्षणे विद्योपादने वर्तते । तन्मूलामतिमहततीं कथामकरोत् ( दशकु पृ०.१७३ ) इत्यत्र करोतिराख्याने वर्तते । सत्सङ्गतिः कथय किं न करोति-पुंसाम् (भर्तृ० २|२३ ) । करोति = साधयति । कण्ठे हारमकरोत् ( कादम्बरी )|अकरोत् = अधात्, अधारयत् । अध्यक्षान् विविधान्कुर्यात्तत्र तत्र विपश्चितः (.मनु० ७/८१)! कुर्यात् = नियुञ्जीत.) कुरु करे गुरुमेकमयोधनम् । यथा काष्ठानि करोति गोमयानिं करोति इत्यादाने करोतिशब्दो भवति । एवमिहापि द्रष्टव्यम्--मी० शा० भाष्ये ४।२|६| ॥ सोऽपि यत्नेन संरक्ष्यो घर्मो राजकुतश्च यः .( याज्ञ ० २|१८६ ) । राजकृतः = राजविहितः। कृधि, रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि (ऋ० ७|१६|६ ); कृधि = देहि. । यत्र शुल्को न क्रियते अबलेन बलीयसे - ( अथर्व०.३|२९|३ )। अत्र करोतिर्दाने वर्तते । यां विद्यां कुरुते गुरौ {१/७/१२)।अत्र करोतिध्ययने

वर्तते। बह्वीः समा अकरमन्तरस्मिन् 

(ऋ० १०|१२४|४) इत्यत्र करोतिर्निवासे