पृष्ठम्:वाग्व्यवहारादर्शः.djvu/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६१
प्रकीर्णकम्

तुमुन्नन्तोपि ब्रवीतिर्गर्हमाह-सम्बन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि ( भा० द्रोण० -१९७|४१)। अधीनेऽर्थे काशिद् दिशः समर्प्यन्ते --काम-वक्तव्य- हृदयेति श्रीरामायणे ( ३।२|२५ )। साहं त्वद्दर्शनाद् विप्र कामवक्तव्यतां गतेति मार्कण्डेयपुराणे (६१ |४७)। विषयसुखेनापि परां - प्रमादवक्तव्यतां व्रजति लोक इति, ब्रह्मजातके (१) ।

 प्रष्टव्यत्व उत्तरदायित्वे वक्तव्यता शब्दप्रयोगो दृश्यते यथा-दिवा वक्तव्यता पाले रात्रौः स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेतु पालो वक्तव्यतामियात् । इत्यत्र मनौ ( ८.२३०) ।

 प्रदक्षिणमित्यव्ययमंनव्ययं च । उभयथा हि प्रयोगा दृश्यन्ते--कुर्यात् प्रदक्षिण देवमृद्गोविप्रवनस्पतीन् इत्यत्र याज्ञवल्क्ये (१|१३३ ) प्रदक्षिणमव्ययम् । मृद्गां देवतां विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ( मनु० ४।३९ )। अत्र प्रक्षिणमित्यनव्ययम् ।

 प्रायेण ण्यन्तकः साधिगमेरथे प्रयुज्यत इति साहित्यदर्पणे विश्वनाथः । साधनार्था या गतिम्तां साधनाशब्देनाह गतेः प्रयोजनवतीत्वाख्यापनाय । साधंयामोवयम् । गच्छाम इत्यर्थः । प्रायिक एष व्यवहार इति तेनैव व्यक्तमु दितम् । अतः क्वचिद् गमेः साधेश्च युगपत्प्रयोगो दृश्यते—स्वस्त्यस्तु ते गमिष्यामि साधयिष्यामि शोभने (भा० वन० २०६|४७ ) । अत्र साधिर्गमिव्यतिरिक्तां शुद्धां साधनां निष्पादनमाह ।

 उत्तममध्यमाधमा इत्यत्रोत्तमशब्दो वरिष्ठमाह । सोऽयमर्थः सर्वलौकिको विच्छित्तिविधुरश्च । उत्तममित्यन्यमप्याह । तथा च पाणिनीयं शासनम् उत्तमैकाभ्यां च (५|४|९०)। उत्तमशब्दोऽन्त्यवचनः पुण्यशब्दम् अहः सर्वैकदेशेति सूत्रांन्ते वर्तमानम् आचष्टे । उत्तममहर्मासान्तो भवति । उत्तमं व्यसनं प्राप्तः ( भा० कर्णं० २८|८ ) इत्यत्रोतमशब्दो महत्तमेन समानार्थः ।श्रुत्वा निनदमुत्तमम् ( भा० शल्य ४|४ )। अंत्रोत्तममुच्चैस्तमं तारतमम् इत्यनर्थान्तरम् । साऽयुत्तमसंविग्नेत्यत्र रामायणीये प्रयोग उत्तमशब्दो भृशार्थकः ।

श्रुणोतिराकर्णनमात्रव्यतिरिक्ते प्यर्थे प्रयोगमवतरन्दृष्टः स्वदतेतराम् । न क्षत्रियो वै सूतानां शृणुयाच्च कथंचन (भा० कर्ण० ३२|४८) । अत्र शृणुयाद्वचनकरः स्यादित्यर्थः। येषां श्रोष्यन्ति पाण्डवाः (भा० द्रोण० ८५|३१)। -अत्र वच इति शेषः । स्वीकरिष्यन्तीति चार्थः ।

 पृच्छतिर्द्धिकर्मेति प्रसिध्यतितरामिंति न तद्विषये किमपि विशिष्यं वक्तव्यमस्ति । अकथितंकर्मणोऽप्रयोगेऽपि प्रधानकर्मण एव प्रयोग आस्वाद्यताम् -स