पृष्ठम्:वाग्व्यवहारादर्शः.djvu/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६२
वाघ्यवहारदर्शः

चालोक्य ध्वजिनीं पाण्डवानां धनञ्जयं त्वर या पर्यपृच्छत (भा० कर्ण० ३७|४५)। धनञ्जयविषयां पृच्छामकरोत् क्वासौ धनञ्जयः कथं वा वर्तत इत्यपृच्छदित्यर्थः । एवं ब्रवीतिरेपिं तथाजातीयकेऽर्थे प्रयुक्तः) यो मे ब्रूयाद् धनन्जयम्। क्वांवतिष्ठते धनञ्जय इति मां वेदयेत् ।

 अन्तरशन्दोऽवकृशादिनानार्येषु पठितोऽमरेण । मध्यं चास्यैकतमोर्थः । तत्र चायं वर्तमानो यत्र विषयेण सहैकार्थतां याति सोऽस्य रुच्यतमः प्रयोगः । मिथो भेदांश्च भूतानामासन्कर्णार्जुनान्तरे' ( भा० कर्ण० ८७|३३ ) | कर्णार्जुनविषय इत्यर्थः ।

 स्वस्ति शब्दो लोकेऽययं वेदे तु कृतव्ययमपि दृश्यते । यूयं पात स्वस्तिभिः सदा नः ( ऋ० ७|३४|२५)। स्वस्तये वायुमुपब्रवामहै (ऋ० ५|५१|१२)। स्वस्ति गोब्राह्मणेभ्य इत्यादिषु लौकिकेषु प्रयोगेषु स्वरतीति कल्याणं वक्ति । स्वाहां स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ( भा० द्रोण० ९५|४४ )। अंत्र स्वस्तीति कल्याणवचनं द्वितीयार्थेऽव्ययम् । स्वस्ति सञ्जय सधय (भा० शल्यं० २९|४० )। अत्र स्वस्तीति क्रियाविशेषणम् । क्षेमेण गच्छेत्यर्थः। वेदे खल्वपि क्रियाविशेषणं दृश्यते—सो अस्नातॄनपारयत् स्वस्ति (ऋ० २।१५|५ )। न नूनं स्वस्ति पार्थाय यथा नदति शङ्खराट् ( भा० ) । पार्थस्यः क्षेमो नेत्याशङ्क्यत इत्यर्थः । आशिषि लिङ्लोटोरभावे स्वस्तिशब्दप्रयोगों नूनमाकूतकरः ।

 तादर्थ्येऽर्थेऽप्यमरोऽन्तरं ' पठति--अन्तरमवकाशावधिपरिधानान्तधिभेदंतादर्थ्ये । तादर्थ्येऽस्य प्रयोगे विशिष्यावधेयं सुधीभिः। अत्रार्थेऽमरोद्धाटने स्वाम्याह-ओदनान्तरस्तण्डुल इति लोके प्रयोग इति । अत्रान्तरशन्दस्य पुंसि प्रयोगोऽसाधुरिति मम भाति । अन्तरं हि क्लीबत्वे नियतम् । ओदनायेत्योदनान्तरम् इत्यस्वपदविग्रहो मयूरव्यंसकादिस्तत्पुरुषः । अवैभि कार्यान्तरमानुषस्यत्यत्र रघौ (१६|८२) कार्याय कार्यवशान्मानुषो मानुषदेहमापन्नः, तस्येत्यर्थः । शरीर स्पर्शसुखान्तराय निपेततुर्मूर्धनिं तस्य सौम्ये . (हे वारिधूरे ) इति बुद्धचरिते (१|१६)। सुखायेति सुखान्तरम् । तस्मै । तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे ( भा० आदि० १०२|४१) वासिंतायाः करेण्वाः कृते ( अर्थाय ) इत्यर्थः। अन्तरमित्यन्तरेणार्थमभिदधदपि पठ्यते--न चैतदिष्टं भगवान्यादवोचन्मदन्तरम् इत्यत्र श्रीरामायणे ।

 अन्तर्धावर्थेऽन्तरशब्दः प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठचञ्चेति वचनाण्णिच्सहितः प्रयोगमवतरति न केवलः--मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशीत्यत्र यथा ।

 मध्यवचनोऽन्तरशब्दो येऽन्तरं यान्ति कार्येषु ( भा० अनुशा० २३|७५ )