पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
वाग्व्यवहारादर्शः

राज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ इति च ( रा० ६।२८।३२ ) । अत्रापि पूर्ववत्कर्मणि प्रथमेति विज्ञेयम् । सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् इति भारते ( आदि० १६८।७२ ) । प्रतिपादनं वितरणमित्यर्थग्रहात्प्रतिपादयतिप्रयोगे विप्रादीनां सम्प्रदानताऽपि शिष्टानामिष्टा । गुणवते कन्या प्रतिपादनीयेति शाकुन्तले । अर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् इति च भर्तृहरौ (२।१६ ) । युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादितेति भारते ( आदि० १३८।७७ ) । प्रतिपादयतिश्च कथं वितरणमर्थमवतरतीति जिज्ञासायामर्पयतिविषये यदुक्तं पुरस्तात्तदिहाप्यवितथं विज्ञेयम् । क्वचिदन्यत्र सप्तम्यपि दृश्यतेऽर्पयतिवत् । धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् इति मनौ ( ११।६) । तत्र यद्रिक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेद् इति च (९|१९० ) । अत्रार्पयतिवत्सामीपिकेऽधिकरणे सप्तमी साध्वी । अपि वा सम्प्रदानेऽपि क्वचित्सप्तमीमिच्छन्ति शिष्टा इत्यदुष्टा ।

अस्थाने पञ्चम्याः प्रयोगः

 केचिद् व्याकरणं प्राधीता यस्य सकाशात्किञ्चिच्छ्रूयते ज्ञायते वा तमपादानमिच्छन्ति पञ्चमी च ततो व्यवहरन्ति । तद्रभसात् । उपयोगे नियमपूर्वके विद्याग्रहणे सत्येवाख्यातुरुपदेष्टुरपादानता भवति न त्वन्यत्र । अन्यत्र तु षष्ठीमेव प्रयुञ्जते शिष्टाः । तद्यथा-—राजा देवत्वमापन्नो भरतस्य . यथाश्रुतम् इति श्रीरामायणे (३।६६।४) । रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् इति ( ३।६७।२१ ) । अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य हेति (६।१८।१ )। निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् (६।१२५।४६ ) इति च । राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः । इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति इति च भारते ( वन० ३०।८ ।। ) ॥ विचित्रवीर्थस्तु नृपो निशम्य विदुरंस्य तदिति च (आदि० २००।१८ )। सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो ममेति (मनु० ३।३६) । दिवौकसां कथयतामृषिभिर्वै श्रुता कथा । कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥ इति चरके ( चिकित्सा० ८/३) । इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनाग तोऽस्मीमामुज्जयिनीम् इति चारुदत्ते ( अङ्के २ ) । वेदे खल्वपि--इति शुश्रुम धीराणां ये नस्तद् विचचक्षिरे (शुक्लयजु० ४०।१०) । कारकत्वविवक्षायां तु ऊर्ध्र्वबाहुर्विरौम्येष न च कश्चिच्छृणोति माम् (व्यासोक्तिः) । इत्यत्र श्रुवः कर्मणि द्वितीया ।


१ अध्येतुमारब्धाः । आदिकर्मणि क्तः ।१. अध्येतुमारब्धाः । आदिकर्मणि क्तः ।