दृक्पथातिथितां भजन्ते—सितं सितिम्ना सुतरां मुनेर्वपुर्विंसारिंभिः सौधमिवाथ लम्भयन्निति माघे (१।२५) । सितिमा मुनेर्वपुर्लभते । तं सितिमानं मुनेर्वपुर्लभमानं प्रयुङक्ते, लम्भयति । कर्तरि वर्तमाने शतरि लम्भयन् । दयिताभिरनन्ततेजसा मुनिनाऽसौ परिकल्प्य लम्भित इति जानकीहरणे (४।५) । दयिता अमुं (चरुं) लब्धवत्यः । मुनिर्दयिताभिश्चरुं लम्भितबान् । मुनिना दयिताभिरसौ (चरुः) लम्भितः । दयिताभिरित्यनुक्ते कर्तरि तृतीया । लम्भित इति मुख्ये कर्मणि क्तः ।
इदं प्रयोगद्वैविध्यं काव्यालङ्कारसूत्रवृत्तिकृद्वामन इत्यङ्कारं व्यवस्थापयितुं समीहते–लभेर्गत्यर्थत्वाण्णिाच्यणौ कर्तुः कर्मत्वाकर्मत्वे (४।८) अस्त्ययं लभिर्यः प्राप्त्युपसर्जनां गतिमाह । अस्ति च यो गत्युपसर्जनां प्राप्तिम् इति । सत्यं धात्वर्थस्य प्राप्त्युपसर्जनगतित्व एव’ गतिबुद्धिप्रत्यवसानार्थेत्यादिना शासनेन द्विकर्मकता सिध्येत्, प्राप्तौ प्रधानार्थत्वे त्वणि कर्तुणौ प्रयोज्यकर्मताया असिद्धिरिंति द्विकर्मकता न प्रसिध्येत् । परं क्व प्रधानं गतिः क्व चोपसर्जनमिति ‘कः कथमवसास्यति ? इहैव चाधस्तादुपन्यस्तेषु द्विकर्मकताया उदाहरणेषु गतेः प्राधान्यं कस्य नाम भासते ? गतिनान्तरीयिका प्राप्तिः, सर्वा प्राप्तिर्गतिपूर्विकेति त्वन्यत् । गतिः कारणं प्राप्तिश्च कार्यमित्यनयोः कार्यकारणभावः सम्बन्धः । कारणस्य प्राधान्याद् गतिरेव प्रधानत्वेन प्रकृतेऽभ्युपेयते शिष्टैः । शिष्टाश्व व्यवहारे प्रमाणम् । वस्तुगतं गतिप्राधान्यं स्यान्मा वा भूत् । विवक्ष्यते हि तच्छिष्टैरिति तदस्ति । विवक्षैव चेन्नियामिका वामनोक्ता व्यवस्था व्याख्यानमात्रतां नातिरिच्यते । नैषा प्रयोगनिर्माणपद्धतेः प्रदर्शिका भवति । तेनेयमकिञ्चित्करीति नार्थोऽनया । प्रयोगेषु लंभेर्ण्यन्तस्य द्विकर्मकता यत्र तत्र प्रथते, अनुक्ते कर्तरि तृतीया तु विरलं प्रयुज्यते। तेन लभेर्गेत्यर्थतामेवाभिप्रयन्ति शिष्टा इति शक्यं मुक्तसंशयं वक्तुम् ।
किं चायमर्थ आपेर्व्यवहारतोऽप्युपोद्वलितो भवति । आपिरयं लभिना समानार्थकः सर्वत्र णौ द्विकर्मको दृष्टः। तद्यथा—वसतिंं प्रिय कामिनां प्रियास्वदृते प्रापयितुं क ईश्वर इति कुमारे (४।११) । स त्वं रथी तद्व्यपदेशनेयां प्रापय्य वाल्मीकिपदं त्यजैनाम् इति रघौ (१४|१४५) नक्तं.... भीरुरयं त्वमेव तमिमं राधे गृहं प्रापयेत्यमरुशतके । अभिमन्युतनयं परीक्षितमुद्ररादुपरतमेव निर्गतमुत्तराप्रलापोपजनितकृपो भगवान् वासुदेवो दुर्लभानसून्प्रापितवानिति कादम्बर्याम् । सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा इति च माघे (२।१०४) । एवं यद्यापिर्नैयत्येन द्विकर्म्मकस्तर्हि लभिः कस्माद् द्विकर्मकत्वं व्यभिचरेत्? व्यवहारवैषम्यं च कथं घटामञ्चेत् ? एकत्र द्विकर्म्मकतायां पक्षपातो-