पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
लभेर्ण्यन्तकस्य द्विकर्मकत्वम्

कर्मणि नाधिकरणत्वविवक्षा–तयोर्जगृहतुः पोदान् राजा राज्ञी च मागधी' इति रघौ यथा । अन्यत्रापि कर्मणोंऽधिकरणत्वविवक्षा दृश्यते--क्रोधादुक्तं सैन्धवे (= सिन्धुराजे जयद्रथे)चार्जुनेनेत्यत्र भारते (आदि० १।१९२) ।

प्रहरतेः प्रयोगे विभक्तिव्यभिचारोऽपि लक्ष्यते क्वाचित्कः-
विभेत्यल्पश्रुताद्वेदो मामयं प्रहरेदिति भारते (आदि०) ।

अन्यत्रापादानेऽप्यधिकरणत्वविवक्षा यथा बलाहके विद्योतते विद्युत् ।.बलाहकस्यापाययुक्तत्वादपादानसंज्ञा प्राप्नोति । अपादानमुत्तराणीतिः वार्तिकमत्र बाधे लिङ्गम् ।

क्वचित्सम्प्रदानधियमपोह्याधिकरणमुत्प्रेक्षन्ते कुशलाः प्रयोक्तारः । तद्यथा -

न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा ।

सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधमू ॥

 इति कामन्दकः । सममब्राह्मणे दानमिति च मनुः । दरिद्वान्भर कौन्तेय मा प्रयच्छेश्वरे धनमिति च भारते । वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जड इत्युत्तरे रामचरिते । सर्वत्र चामीषु प्रयोगेषु तदस्मिन्वृद्ध्यायलाभशुल्कोपदा 'दीयते (५/१/४७) इति वचः प्रमाणम् ।

लभेर्ण्यन्तकस्य द्विकर्मकत्वम्

 प्राप्त्यर्थकोऽपि लभिः प्रायेण व्यवहारे द्विकर्मकः । इदं च तदैवोपपद्यते यदाऽयं गत्यर्थक इति प्रतिपद्येत । गत्यर्थकतामेवास्याभीच्छन्ति शिष्टा इति निदर्शनैः कैरपि व्यक्तयामः--स क्षेमधन्वानममोघधन्वा पुत्रं प्रजाक्षेमविंधान दक्षम् । क्ष्मां लम्भयित्वा--इति रघौ (१८।९) । लम्भयित्वा = प्रापय्य । मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैरिति किंराते (२।५५) । गोपितुं भुवमिमां मरुत्वता शैलवासमनुनीय लम्भित इति च (१६।६७) । शरीरं वासुदेवस्य रामस्य च महात्मनः । संस्कारं लम्भयामास वृष्णीनां च प्रधानत इंतिं भारते (आदि० २।३५९) ! ततः स राजा ‘संस्कारं पुत्रपत्नीमलम्भयद् इति मार्कण्डेये (२२।४६) । स्त्रीभावं चापि लम्भितेति हरिवंशे (१९।२९) । तेन पित्रा स बालोऽपि विद्याः स्नेहेन लम्भितेतेिं कथासरित्सागरे (६५।७४) । दीर्घिकासु कमलानि विकासं लम्भयन्ति शिशिराः शशिभास इति वागनीयायां काव्यालङ्कारसूत्रवृत्तौ समुद्धारः । एतानौपहारिकमोदकानार्य्यमाणवकं लम्भयेति विक्रमोर्वशीये तृतीयेऽङ्के ।

यथानिर्देशं प्राप्त्यर्थतायामुपेतायां लभेः प्रयोगेऽणौ कर्तुः प्रयोज्यकर्मत्वानापत्तेरनुक्ते कर्तरि तृतीयाश्रुतिर्नानुपपन्ना । तथा च क्वाचित्का द्वित्राः प्रयोगा